skipLink.label

सूक्तम् 4 — त्वया (11 मन्त्राः)

सूक्त 4

११ वसुश्रुत आत्रेयः। अग्निः। त्रिष्टुप्।

त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् ।

त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒ऽभि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम्

॥१॥

ह॒व्य॒वाळ॒ग्निर॒जर॑: पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।

सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१क् सं मि॑मीहि॒ श्रवां॑सि

॥२॥

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् ।

नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि

॥३॥

जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभि॒: सूर्य॑स्य ।

जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान् ह॑वि॒रद्या॑य वक्षि

॥४॥

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।

विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि

॥५॥

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वय॑: कृण्वा॒नस्त॒न्वे॒३ स्वायै॑ ।

पिप॑र्षि॒ यत् स॑हसस्पुत्र दे॒वान् त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान्

॥६॥

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।

अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि

॥७॥

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् ।

व॒यं दे॒वेषु॑ सु॒कृत॑: स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि

॥८॥

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।

अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म्

॥९॥

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।

जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम्

॥१०॥

यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णव॑: स्यो॒नम् ।

अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति

॥११॥