skipLink.label

सूक्तम् 174 — त्व (10 मन्त्राः)

सूक्त 174

१० अगस्त्यो मैत्रावरुणिः । इन्द्रः। त्रिष्टुप्।

त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन् पा॒ह्य॑सुर॒ त्वम॒स्मान् ।

त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः

॥१॥

दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत् पुर॒: शर्म॒ शार॑दी॒र्दर्त् ।

ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः

॥२॥

अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभि॑: पुरुहूत नू॒नम् ।

रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तो॑:

॥३॥

शेष॒न् नु त इ॑न्द्र॒ सस्मि॒न् योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।

सृ॒जदर्णां॒स्यव॒ यद् यु॒धागास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न्

॥४॥

वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन् त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ ऽभि स्पृधो॑ यासिष॒द् वज्र॑बाहुः

॥५॥

ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।

प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम्

॥६॥

रप॑त् क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।

कर॑त् ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त्

॥७॥

सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒: सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।

भि॒नत् पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः

॥८॥

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।

प्र यत् स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति

॥९॥

त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।

स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्

॥१०॥