skipLink.label

प्रथम काण्ड, प्रपाठक 9

प्रथम काण्ड, प्रपाठक 9

प्रथमकाण्डे नवमः प्रपाठकः

प्रथमकाण्डे नवमः प्रपाठकः

चित्तिः स्रुक् चित्तम् आज्यं वाग् वेदिर् आधीतं बर्हिः केतो अग्निर् विज्ञातम् अग्नीद् वाचस्पतिर् होता मन उपवक्ता प्राणो हविः सामाध्वर्युर् इन्द्रं गछ स्वाहा पृथिवी होता द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यमा स्वस् कर् वाचस्पतिः सोमम् अपाद् जजनद् इन्द्रम् इन्द्रियाय सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो ऽग्निर् होताश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम वाचस्पतिः सोमम् अपाद् आस्मासु नृम्णं धात् सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो महाहविर् होता सत्यहविर् अध्वर्युस् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरव् अयास्य उद्गाता विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम मा देवानां तन्तुश् छेदि मा मनुष्याणां नमो मात्रे पृथिव्यै

॥१.९.१॥

अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् अदितिर् अपश् च बर्हिश् चादित्या आज्यैर् मरुतः सदोहविर्धानैर् विष्णुर् दीक्षातपोभ्यां मित्रावरुणौ धिष्ण्यैर् अश्विन आशिरा त्वष्टा समिधा पूषा स्वाहाकारैर् वाग् वायोः पत्नी पथ्या पूष्णः पृथिव्य् अग्नेः सेनेन्द्रस्य धेना बृहस्पतेर् गायत्री वसूणां त्रिष्टुब् रुद्राणां जगत्य् आदित्यानाम् अनुष्टुब् मित्रस्य विराड् वरुणस्य पङ्क्तिर् विष्णोर् दीक्षा सोमस्य

॥१.९.२॥

प्रजापतिर् वा एक आसीत् सो ऽकामयत यज्ञो भूत्वा प्रजाः सृजेयेति स दशहोतारं यज्ञम् आत्मानं व्यधत्त स चित्तिं स्रुचम् अकुरुत चित्तम् आज्यं वाचं वेदिम् आधीतं बर्हिः स दशधात्मानं विधाय मिथुनं कृत्वायतनम् ऐछत् स वै त्रिवृत एव प्राणान् आयतनम् अचायत् तैः प्रजा असृजतोर्ध्वम् उदतृणत् पूर्वपक्षः पञ्चदशस् तेन देवान् असृजत ते देवा ऊर्ध्वा आप्यायन्तोर्ध्व आप्यायते य एवं वेदावाङ् अवातृणद् अपरपक्षः पञ्चदशस् तेनासुरान् असृजत ते ऽसुरा अवाञ्चः प्राध्वंसन्त प्रास्य भ्रातृव्यो ध्वंसते य एवं वेद दिवा देवान् असृजत नक्तम् असुरांस् ते देवाः शुक्ला अभवन् कृष्णा असुराः सत्येन देवान् असृजतानृतेनासुरांस् ते देवाः सत्यम् अभवन्न् अनृतम् असुरा दक्षिणेन हस्तेन देवान् असृजत सव्येनासुरांस् ते देवा वीर्यवन्तो ऽभवन् मृद्धा असुरास् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति सो ऽमन्यत क्व होष्यामीति स तद् एव नाविन्दत् प्रजापतिर् यत्राहोष्यन् नो अस्यान्यद् धोत्वम् आसीत् प्राणात् स वा इन्द्रम् एवान्तर् आत्मनायतनम् अचायत् स इन्द्रं गछ स्वाहेत्य् अपानद् वीर्यं वै प्राणो वीर्यम् इन्द्रो वीर्य एव वीर्यम् अजुहोत्

॥१.९.३॥

भवति : फ़्न् एमेन्देद्। एद्।: ऽभवति।

ते वै चतुर्होतारो व्यसीदन्त् सोमगृहपतया इन्द्रं जनियिष्यामा इति पृथिवी होतासीद् द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता ते वा एतौ ग्रहा अगृह्णत वाचस्पते वाचो वीर्येण सम्भृततमेनायक्षसे यज्ञपतये वार्यम् आ स्वस् कर् इति त एकविंशम् आयतनम् अचायंस् तेनेन्द्रम् अजनयंस् त इन्द्रं जनयित्वाब्रुवन् स्वर् अयामेति ते वै पञ्चहोतारो न्यसीदन् वरुणगृहपतयो ऽग्निर् होतासीद् अश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता यद् अश्विनेति तेन पञ्चहोता ते वा एतौ ग्रहा अगृह्णत वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रिणवम् आयतनम् अचायंस् तं सेतुं कृत्वा स्वरायंस् तेन पशून् असृजन्त तान् देवताभ्यो ऽनयन् यमायाश्वम् अनयंस् तस्यार्धम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि यमाय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥ इति सो ऽर्धम् इन्द्रियस्योपाधत्तार्धम् इन्द्रियस्योपधत्ते य एवं विद्वान् अश्वं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णात्य् अर्धम् अस्येन्द्रियस्यापक्रामति रुद्राय गाम् अनयंस् तस्य तृतीयमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

रुद्राय त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स तृतीयम् इन्द्रियस्योपाधत्त तृतीयम् इन्द्रियस्योपधत्ते य एवं विद्वान् गां प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति तृतीयम् अस्येन्द्रियस्यापक्रामत्य् अग्नये हिरण्यम् अनयंस् तस्य चतुर्थम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

इन्द्रियस्यापाक्रामत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अग्नये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वम् अशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स चतुर्थम् इन्द्रियस्योपाधत्त चतुर्थम् इन्द्रियस्योपधत्ते य एवं विद्वान् हिरण्यं प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति चतुर्थम् अस्येन्द्रियस्यापक्रामति बृहस्पतये वासो ऽनयंस् तस्य पञ्चमम् इन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

ग्नास् त्वाकृन्तन्न् अपसो ऽतन्वत धियो ऽवयन् बृहस्पतये त्वा मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स पञ्चमम् इन्द्रियस्योपाधत्त पञ्चमम् इन्द्रियस्योपधत्ते य एवं विद्वान् वासः प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति पञ्चमम् अस्येन्द्रियस्यापक्रान्त्य् उत्तानायाङ्गिरसायाप्राणद् अनयंस् तस्य षष्ठमिन्द्रियस्यापाक्रामत् स एतं प्रतिग्रहम् अपश्यत् ॥

उत्तानाय त्वाङ्गिरसाय मह्यं वरुणो ददाति सो ऽमृतत्वमशीय मयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ॥

इति स षष्ठम् इन्द्रियस्योपाधत्त षष्ठम् इन्द्रियस्योपधत्ते य एवं विद्वान् अप्राणत् प्रतिगृह्णात्य् अथ यो ऽविद्वान् प्रतिगृह्णाति षष्ठम् अस्येन्द्रियस्यापक्रामति ॥

क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामाय त्वा प्रतिगृह्णामि कामैतत् ते ॥

इति समुद्रो वै कामो दक्षिणा कामो दक्षिणयैव दक्षिणां प्रतिगृह्णाति यो वै तां देवतां वेद याग्रे दक्षिणाम् अनयद् दक्षिणीयो ह भवति नयति दक्षिणाम्

॥१.९.४॥

ते वै स्वर्यन्तो ऽब्रुवन्न् अतो नो यूपं प्रयछत केनायतनेनात्रैव वेत्स्यथेत्य् अब्रुवंस् ते वै सप्तहोतारो न्यसीदन्न् अर्यमगृहपतयो महाहविर् होतासीत् सत्यहविर् अध्वर्युर् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरा अयास्य उद्गाता ते वा एतं ग्रहम् अगृह्णत विधे नामन्विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रयस्त्रिंशम् आयतनम् अचायंस् तेनेदं समतन्वन् सप्तहोत्रा च वा इदं सन्ततं त्रयस्त्रिंशेन च यद् इदं देवमनुष्या अन्यो ऽन्यस्मै सम्प्रयच्छते प्राणो वै दशहोता चक्षुश् चतुर्होता श्रोत्रं पञ्चहोता वाक् चात्मा च सप्तहोताग्निहोत्रं वै दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोतायुषे कम् अग्निहोत्रं हूयते सर्वम् आयुर् एति य एवं वेद चक्षुषे कं दर्शपूर्णमासा इज्येते न चक्षुषो गृहे य एवं वेद श्रोत्राय कं चातुर्मास्यानीज्यन्ते न श्रोत्रस्य गृहे य एवं वेद वाचे चात्मने च कं सौम्यो ऽध्वर इज्यते न वाचो नात्मनो गृहे य एवं वेद प्रजापतिर् वै दशहोतैकः सन् भूयिष्ठभाग् व्याहृतीनाम् एकः सन् भूयिष्ठो भवति य एवं वेद तेजसे कं पूर्णमा इज्यते सौम्यो वै ब्राह्मणो देवतया गायत्रछन्दा गायत्रो ऽग्निः स्वे वावास्मा एतद् देवते सप्रस्थे अकर् नास्यान्यो योगक्षेमस्येश आयुषे कम् अमावास्येज्यते समीव वा एष आभ्रियते सर्वम् आयुर् एति य एवं वेद स्वर्गाय लोकाय कं सौम्यो ऽध्वर इज्यत एति स्वर्गं लोकं य एवं वेद दशहोत्राग्निहोत्रम् उन्नीतम् अभिमृशेद् दशहोत्रा वै देवा अग्निहोत्रम् असृजन्त प्रजातम् एनत् सृष्टम् आलब्ध चतुर्होत्रा दर्शपूर्णमासा अभिमृशेच् चतुर्होत्रा वै देवा दर्शपूर्णमासा असृजन्त प्रजाता एनौ सृष्टा आलब्ध पञ्चहोत्रा चातुर्मास्यान्य् अभिमृशेत् पञ्चहोत्रा वै देवाश् चातुर्मास्यान्य् असृजन्त प्रजातान्य् एनानि सृष्टान्य् आलब्ध सप्तहोत्रा सौम्यम् अध्वरम् अभिमृशेत् सप्तहोत्रा वै देवाः सौम्यम् अध्वरम् असृजन्त प्रजातम् एनं सृष्टम् आलब्ध दशहोतारं वदेत् पुरस्तात् सामिधेनीनां प्रजापतिर् वै दशहोता यज्ञमुखं सामिधेन्यस् मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्तात् प्रयाजानां चतुर्होत्रा वै देवा इन्द्रम् अजनयन्न् इन्द्रं वावास्यैतद् यज्ञे ऽजीजनत् सेन्द्रेण यज्ञेन यजते पञ्चहोतारं वदेत् पुरस्ताद् धविषां पञ्चहोत्रा वै देवाः पशून् असृजन्त परासुरान् अभावयन् पशून् एव सृजते परा भ्रातृव्यं भावयति सप्तहोतारं वदेत् पुरस्ताद् अनुयाजानां सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति दशहोतारं वदेत् पुरस्ताद् बहिष्पवमानस्य प्रजापतिर् वै दशहोता यज्ञमुखं बहिष्पवमानं मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्ताद् आज्यानां पञ्चहोतारं वदेत् पुरस्तान् माध्यन्दिनस्य पवमानस्य सप्तहोतारं वदेत् पुरस्ताद् आर्भवस्य पवमानस्य सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो वै चतुर्होत्πन् अनुसवनं तर्पयितव्यान् वेद तृप्यति प्रजया च पशुभिश् चैते वै चतुर्होतारो ऽनुसवनं तर्पयितव्या यद् ब्राह्मणा बहुविदस् तान् एव तर्पयति त एनं तृप्ताः प्रजया च पशुभिश् च तर्पयन्ति

॥१.९.५॥

अचित्तपाजा : फ़्न् एमेन्देद्। एद्।: अचित्तपाजा। च्फ़्। १।९।१:१३१।११।

गृहे : फ़्न् एमेन्देद्। एद्।: गृहे।

सप्तहोतारं : फ़्न् एमेन्देद्। एद्।: सप्तहोतरम्।

यः प्रजया पशुभिर् न प्रजायेत स द्वादशाहानि बरासीं परिधाय तप्तं पिबन्न् अधः शयीत तपो वै तप्त्वा प्रजापतिर् विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्राजायताविहितो हि वा एषो ऽमिथुनो ऽथैष न प्रजायते तत् तप एव तप्त्वा विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्रजायते प्रजापतिर् वै दशहोता ज्यायान् वै प्रजापतिर् होमात् तस्मात् तन् न जुह्वति प्राण्यापानेद् अपानम् एव प्राणं जुहोति सङ्ग्रामिणं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् यतरस्मिन् खलु वै सङ्ग्राम इन्द्रो भवति स जयतीन्द्रं वावास्यैतत् सङ्ग्रामे ऽजीजनद् जयति सङ्ग्रामं प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् प्रजाम् अस्मै जनयति नेव त्व् अपरो ऽनुजायते तेजस्वीव तु भवति सर्वेण ह्य् एनम् इन्द्रियेण जनयति पशुकामं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः पशून् असृजन्त पशून् एव सृजते भ्रातृव्यवन्तं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवा असुरान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति स्वर्गकामं पञ्चहोत्रा याजयेच् चतुर्गृथीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो यज्ञस्य संस्थाम् अनु पापीयान् मन्येत तं सप्तहोत्रा याजयेत् सप्तहोत्रा वै देवा इदं समतन्वन् समतत ताजक् तादृङ् पुनर् भवति यादृक् सन् यजते

॥१.९.६॥

ब्रह्मवादिनो वदन्ति यद् एको यज्ञश् चतुर्होताथ कस्मात् सर्वे चतुर्होतार उच्यन्ता इति चत्वारो वा एते यज्ञास् तेषां चत्वारो होतारस् तच् चतुर्होतृणां चतुर्होतृत्वं चतुर्णाम् एकः संवत्सरं नाश्नीयात् तद् व्रतम् अन्नं वै चतुर्होतारो ऽन्नवान् भवति य एवं वेदाथ यम् अनूचानं सन्तं नोपनमेत् सो ऽरण्यं परेत्य ब्राह्मणम् उपद्रष्टारं कृत्वा चतुर्होत्πन् व्याचक्षीत ब्रह्मणो वा एतद् उदरणं यच् चतुर्होत्रारो ब्राह्मण उपद्रष्टोपद्रष्टुर् एवान्ते ब्रह्माविर् अकस् तद् एनम् आविर्भूतम् आविदं गमयत्य् अथ यौ विशपेयाताम् अहं भूयो वेदाहं भूयो वेदेत्य् एष वाव भूयो वेद यश् चतुर्होत्πन् वेद चतुर्होतारो वै यज्ञस्य योनिश् चतुर्होतृभ्यो ऽधि यज्ञो निर्मितो नैनं विशप्तं हिनस्ति चतुर्होतारं वदेद् दशमे ऽहन्न् अन्नकामो ऽन्नं वै चतुर्होतारो ऽन्तो दशमम् अहर् अन्तम् एव गत्वान्नाद्यम् अवरुन्द्ध एतद् वा अस्यैतर्ह्य् अप्रयुक्तम् एतद् अनवरुद्धं तद् एव प्रयुङ्क्ते तद् अवरुन्द्ध इयं वै सर्पराज्ञी तस्या वा एतद् उक्थं यच् चतुर्होतारो होता वदति स्तुतं वा एतद् अनुशंसति न हि स्तुतम् अननुशस्तम् अस्ति

॥१.९.७॥

देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत तेन व्यावृतम् अगछंस् ते देवा अब्रुवन्न् एतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामहा इति तम् एतावञ्श आदायोदक्रामन्न् अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् इति तं तिर उपर्य् असुरेभ्यो ऽतन्वत तम् एषां यज्ञम् असुरा नान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद तिर उपरि भ्रातृव्याद् यज्ञं तनुते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश्चतुर्भिर् अन्वाक्शायं पुरस्तात् प्रातरनुवाकस्यैतावान् वै यज्ञो यावान् एव यज्ञस् तं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतर एतैर् एव जुहुयात् पुरस्ताद् दीक्षाया एषा वै प्रत्यक्षं दीक्षा ताम् एवालब्धैतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्यैष वै प्रत्यक्षं द्वादशाहस् तम् एवालब्धैतैर् एवातिथ्यम् अभिमृशेद् यज्ञेनैव यज्ञम् आलब्ध दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चः पत्नीभिः सहाग्नीध्रं प्राविशंस् तान् पत्नीभिः सह प्रक्शाय जिह्रियतो ऽसुरा अपावर्तन्त तांस् तत एवानूत्थायाजयंस् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति नास्य भ्रातृव्यो गृहान् न पशून् अभ्यारोहत्य् अभि भ्रातृव्यस्य गृहान् अभि पशून् आरोहति य एवं वेदैतान्य् एवाग्नीधे ऽनुब्रूयाद् अग्नीद् वै पात्नीवतस्य यजति तृप्ता पत्नी रेतो धत्ते प्र प्रजया च पशुभिश् च प्रजायत एतैर् एव जुहुयाद् अन्तरा त्वष्टारं च पत्नीश् च संवत्सरं प्रजाकामो मिथुनं वै त्वष्टा च पत्नीश् च त्वष्टारं वा एतन् मिथुने ऽप्यस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते विन्दते प्रजाम् आस्य वीरो जायते यदि संवत्सरं जुह्वन् न विन्देन् नादृत्यम्

॥१.९.८॥