प्रथमकाण्डे दशमः प्रपाठकः
प्रथमकाण्डे दशमः प्रपाठकः
आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालः सारस्वतश् चरुः पौष्णश् चरुर् मारुतः सप्तकपालो वैश्वदेव्य् आमिक्षा द्यावापृथिवीया एककपालो वाजिनां वाजिनम् आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपालो मारुत्य् आमिक्षा वारुण्य् आमिक्षा काय एककपालो वाजिनां वाजिनम् अग्नये ऽनीकवते प्रातर् अष्टाकपालो मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुर् मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनम् इन्द्रस्य निष्काषो मरुद्भ्यः क्रीडिभ्यः साकं रश्मिभिः सप्तकपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपाल इन्द्राय वृत्रघ्ने चरुर् वैश्वकर्मण एककपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् वायव्या यवागूः प्रतिधुग् वेन्द्राय शुनासीराय द्वादशकपालः सौर्य एककपालः षट्कपालः पुरोडाशो धाना मन्थः प्रतिपुरुषं पुरोडाशा एकश् चाध्य् आदित्यश् चरुः
॥१.१०.१॥अग्ने वेर् होत्रं वेर् दूत्यम् ऊर्ध्वो अध्वरो अस्थाद् अवतां नो द्यावापृथिवी स्विष्टकृद् इन्द्राय देवेभ्यो भवास्य घृतस्य हविषो जुषाणो वीहि स्वाहा ॥
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः ।
करम्भेण सजोषसः ॥
मो षू ण इन्द्रात्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवयाः ।
मही चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यद् एनश् चकृमा वयं यद् अप्सश् चकृमा वयम् ।
तद् एकस्यापि चेतसि तद् एकस्यापि धर्मणि ।
तस्य सर्वस्यांहसो ऽवयजनम् असि ॥
अक्रन् कर्म कर्मकृतः सह वाचा मयोभ्वा ।
देवेभ्यः कम्र कृत्वास्तं प्रेत सुदानवः ॥
पूर्णा दर्वे परा पत सुपूर्णा पुनर् आपत ।
वस्नेव विक्रीणावहा इषम् ऊर्जं शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधौ ।
अपामित्यम् इव सम्भर को अम्बाददते ददत्
॥१.१०.२॥अत्र पितरो मादयध्वम् ॥
सुसन्दृशं त्वा वयं वसो मघवन् मन्दिषीमहि ॥
प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशं अनु योजा न्व् इन्द्र ते हरी ॥
यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम ।
अग्निर् नस् तस्माद् एनसो गार्हपत्या उन्निनेतु दुष्कृताज् जातवेदाः ॥
अमीमदन्त पितरो नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो रसाय नमो वः पितरो यज् जीवं तस्मै नमो वः पितरो यद् घोरं तस्मै स्वधा वः पितरो नमो नमो वः पितरः ॥
एषा युष्माकं पितर इमा अस्माकं जीवा वो जीवन्तः इह सन्तः स्याम ॥
परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः ।
दधथ नो द्रविणं यच् च भद्रं रयिं च नः सर्ववीरं नियछत ॥
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः ।
स प्रत्यङ्ङ् ऐद् धरुणो मध्वो अग्रं स्वां यत् तनूं तन्वाम् ऐरयत ॥
प्रत्यङ्ङ् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥
मनो व्याहुवामहे नाराशंसेन स्तोमेन ।
पितृणां च मन्मभिः ॥
आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः ।
जीवं व्रातं सचेमहि ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा ता ओहैः
॥१.१०.३॥आखुं ते रुद्र पशुं करोम्य् एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहा ॥
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् ।
यथा नो वस्यसस् करद् यथा नः श्रेयसस् करत् ।
यथा नो भूयसस् करद् यथा नः प्रतरं तिराद् यथा नो व्यवसाययात् ॥
भेषजं गवे अश्वाय पुरुषाय भेषजम् ।
अथो अस्मभ्यं भेषजं सुभेषजं यथासति सुगं मेषाय मेष्यै ॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥
रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि ॥
पिनाकहस्तः कृत्तिवासा अवततधन्वा
॥१.१०.४॥देवाश् च वा असुराश् चास्मिंल् लोक आसन्त् स प्रजापतिर् अकामयत प्रासुरान् नुदेय प्रजाः सृजेयेति स चातुर्मास्यान्य् अपश्यच् चातुर्मास्यैर् वै सो ऽसुरान् प्रानुदत चातुर्मास्यैः प्रजा असृजत तद् य एवं विद्वांश् चातुर्मास्यैर् यजते प्र भ्रातृव्यं नुदते प्र प्रजया च पशुभिश् च जायते ऽग्निष्टोमाद् वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद् वरुणप्रघासान् यज्ञक्रतुं निर्मायेमाः प्रजा वरुणेनाग्राहयद् अतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रम् अहन् सृष्टा वा अन्याः प्रजा आसन्न् असृष्टा अन्या अथ प्रजापतिर् अकामयत प्रजाः सृजेयेति संवत्सरो वै यज्ञो यज्ञः प्रजापतिः स एते मिथुने पयसी आत्मन्न् अधत्तोधन्यं च वह्यं चाथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् तैः प्रजा असृजत ऋतुभ्यो वै ताः प्रजाः प्राजायन्त ऋतवो वा एतानि पञ्च हवींषि पञ्च ह्य् ऋतवस् ततः प्रजायते ऽग्निर् एव प्रावापयत् सोमो वै रेतो ऽदधान् मिथुनं वा अग्निश् च सोमश् च सविता प्रासुवत् प्रजननाय संवत्सरो वै सविता द्वादश मासाः संवत्सरस् तस्माद् द्वादशकपालो ऽथो वैश्वदेवत्वायैव द्वादशकपाल उपांशु यजत्य् अनिरुक्तो हि संवत्सरः सरस्वत्य् एव सृष्टासु वाचम् अदधात् पूषणं प्रतिष्ठाम् अभ्यसृज्यन्त वाग् वै सरस्वती पशवः पूषा मिथुनं वाक् च पशवश् च मध्यतः प्रजापतिनासृज्यन्तान्ततो मिथुनाद् विषूचीः प्राजायन्त तन् मध्यत एवैतत् प्रजापतिना सृज्यन्ते ऽथादो ऽन्ततो मिथुनाद् विषूचीः प्रजायन्ते वार्त्रघ्नानि वा एतानि हवींष्य् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहन् सोमेन राज्ञा सवितृप्रसूतः सरस्वत्या चेत्रा पूषैनं वीर्येणान्वतिष्ठत विजितिर् वा एतानि हवींषीन्द्रो वै वृत्रम् अहन् स विष्वङ् वीर्येण व्यार्छत् तद् इदं सर्वं प्राविशद् अप ओषधीर् वनस्पतींस् तेन देवा अश्राम्यंस् तत् समनयंस् तत् सान्नाय्यस्य सान्नाय्यत्वं तद् य एवं विद्वान्त् सान्नाय्येन यजत ऋध्नोति
॥१.१०.५॥मिथुनं वै दधि च शृतं चाथ यत् संसृष्टम् आण्डम् इव मस्त्व् इव परीव ददृशे गर्भ एव स तपसो वै प्रजाः प्राजायन्त तपस्त्वं वा एतद् गछति यञ् शृतत्वं गछति ततः प्रजायते ऽथैषा वैश्वदेव्य् आमिक्षा प्रजापतिः प्रजा असृजत ता वैश्वदेवेनैवासृजत तस्माद् इमा वैश्वदेवीः प्रजा विश्वान् देवान् यजति स्तोका वै विश्वे देवास् तान् वा एतद् यजत्य् अथो अमुतःप्रदानाद् धि मनुष्या यज्ञम् उपजीवन्ति योनिर् वा एष प्रजानां तं मरुतो ऽभ्यकामयन्त ततो ऽंहोगृहीता असृज्यन्त यत् स्वतवद्भ्यः स्वत्वायैव निष्कृत्यै प्रजननो वा एष पशूनां यन् मारुतः सप्तकपालो भवति सप्त हि मरुतो विण् मरुतो ऽथो निरवत्त्या एव मारुतो ऽथो ग्राम्यम् एवैतेनान्नाद्यम् अवरुन्द्धे
॥१.१०.६॥ता वैश्वदेवेन सृष्टा विषूचीर् व्युदायंस् ताः प्रजापतिर् द्यावापृथिवीयेन पर्यगृह्णाद् यद् द्यावापृथिवीयः प्रजानां सृष्टानां परिगृहीत्यै यद् एककपालस् तेन प्राजापत्यः प्रजापता एव देवतासु प्रतितिष्ठति यजमानो वा एककपाल आहवनीयः स्वर्गो लोको यत् सर्वहुतं करोति हविर्भूतम् एवैनं स्वर्गं लोकं गमयति यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति यजमानं प्रतितिष्ठन्तं प्रजा अनुप्रतितिष्ठन्त्य् ऋजुर् होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै यजमानो वा एककपालः पशवो घृतं तद् अभिपूर्यः पशुभिर् एवैनं समर्धयति यद् अभिपूरयेद् अधरम् एनं पशुभ्यः कुर्याद् अभुञ्जन्त एनं पशवा उपतिष्ठेयुर् आविःपृष्ठः कार्यः पशुभ्य एवैनम् उत्तरम् अकर् भुञ्जन्त एनं पशवा उपतिष्ठते तन् न सूर्क्ष्यम् अभिपूर्य एव न हि पशवो न भुञ्जन्ति यत् प्राङ् पद्येत यजमानः प्रमीयेत यद् दक्षिणा प्रजाम् अस्य निर्दहेद् यत् प्रत्यङ् पत्नी प्रमीयेत यद् उदङ् पशून् अस्य निर्दहेद् यद् उत्तानः पतेत् पर्जन्यो ऽवर्षुकः स्यात् पुनरादायाभिघार्य होतव्यो यजमानस्य प्रतिष्ठित्यै वरो दक्षिणा वरेनैव वरं स्पृणोत्य् आत्मा हि वरस् त्रेधासन्नद्धं बर्हिर् भवति त्रेधासन्नद्ध इध्मस् त्रेधाविहितानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि संवत्सरेणाग्निं मन्थन्त्य् अग्निं वै प्रजा अनुप्रजायन्ते प्रजननो वा एष मथ्यते ऽथो वृषाणं वा एतद् यजमानाय जनयन्ति वसन्ता यष्टव्यं प्रजननाय प्रवणे यष्टव्यं प्रजननाय नोत्तरवेदिम् उपवपन्ति प्रजननाय प्रस्वो भवन्ति प्र मा जनयानीति पशवो वै पृषदाज्यं नानारूपा वै पशवस् तस्मान् नानारूपम् आग्नेयं घृतम् ऐन्द्रं दध्य् ऐन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ मिथुनयोनयः प्रजा मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते यदि वसन्ता यजेत द्विर् उपस्तृणीयात् सकृद् अभिघारयेद् ओषधयो वै पशव ओषधीष्व् एव पशून् प्रतिष्ठापयति यदि प्रावृषि यजेत सकृद् उपस्तृणीयाद् द्विर् अभिघारयेद् वृष्ट्यैव पशून् अभिजिघर्ति
॥१.१०.७॥प्राणेभ्यो वै ताः प्रजाः प्राजायन्त प्राणा वा एतानि नव हवींषि नव हि प्राणा आत्मा देवता ततः प्रजायते नव प्रयाजा नवानुयाजा द्वा आज्यभागव् अष्टौ हवींष्य् अग्नये समवद्यति वाजिनो यजति तत् त्रिंशस् त्रिंशदक्षरा विराड् विराज्य् एव प्रतितिष्ठति विराजो वै योनेः प्रजापतिः प्रजा असृजत विराजो वा एतद् योनेर् यजमानः प्रजायते त्रिंशत्त्रिंशद् वै रात्रयो मासो यो मासः स संवत्सरः संवत्सरः प्रजापतिस् तत् प्रजापतेश् च वा एतद् विराजश् च योनेर् मिथुनाद् यजमानः प्रजायत एकैकया वा आहुत्या द्वादशद्वादश रात्रीर् अयुवत ता यावतीः सङ्ख्याने तावतीः संवत्सरस्य रात्रयः संवत्सरम् एव भ्रातृव्याद् युवते वैश्वदेवेन चतुरो मासो ऽयुवत वरुणप्रघासैः परांश् चतुरः साकमेधैः परांश् चतुरस् तान् एव भ्रातृव्याद् युवत ऋतुयाजी वा अन्यश् चातुर्मास्ययाज्य् अन्यो यो वसन्तो ऽभूत् प्रावृड् अभूञ् शरद् अभूद् इति यजते स ऋतुयाज्य् अथ यस् त्रयोदशं मासं सम्पादयति त्रयोदशं मासम् अभियजते स चातुर्मास्ययाज्य् ऋजूंस् त्रीन् इष्ट्वा चतुर्थम् उत्सृजेत ऋजू द्वौ परा इष्ट्वा तृतीयम् उत्सृजेत ये वै त्रयः संवत्सरास् तेषां षट्त्रिंशत् पूर्णमासा यौ द्वौ तयोश् चतुर्विंशतिस् तद् ये ऽमी षट् त्रिंशत्य् अधि तान् अस्यां चतुर्विंशत्याम् उपसम्पादयत्य् एष वाव स त्रयोदशो मासस् तम् एवैतत् सम्पादयति तम् अभियजते वैश्वदेवेन यजेत पशुकामो न वरुणप्रघासैर् न साकमेधैः सर्वो वै पुरुषः साहस्रो जायते यावत्तरसं त्व् एवैति प्रजननं वा एतद् धविर् यद् वैश्वदेवं यद् वैश्वदेवेन यजते प्रजननाय वा एतद् यजते स्वां मात्रां गछानीति स यदा सहस्रं पशून् गछेद् अथ वरुणप्रघासैर् यजेत यद् एवादः सहस्रम् अगंस् तस्यैतद् अंहो ऽवयजति
॥१.१०.८॥विराड् : फ़्न् ⟨ विराज्
एव : फ़्न् एमेन्देद्। एद्।: विराजेव
यजेत : फ़्न् एमेन्देद्। एद्।: यजते
यद् बर्हिः प्रयाजेषु यजत्य् ओषधीस् तद् यजति यद् बर्हिर् अनुयाजेषु फलं तद् यद् बर्हिर् वारितीनां यद् एवादः फलात् प्रजायते तद् एतद् यजति यद् दुर उपस्थं तद् यद् उषासानक्ता व्युष्टिं चैव निम्रुक्तिं च यज् जोष्ट्री यद् एव जातं च जनिष्यमाणं च यद् ऊर्जाहुती यद् एवात्ति च पिबति च यद् दैव्या होतारेमे एव यत् तिस्रो देवीर् वाग् वै तिस्रो देवीर् वाचं वा एतद् यजत्य् अथो छन्दांसि वै वाक् छन्दांसि वा एतद् यजति तनूनपाद् वै यज्ञो ऽप्रसृतो नराशंसः प्रसृतस् तस्मात् तनूनपातं प्रयाजेषु यजत्य् अप्रसृतो हि तर्हि यज्ञस् तस्माद् उ नराशंसम् अनुयाजेषु यजति प्रसृतो हि तर्हि यज्ञो वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति त्वष्टारं यजति त्वष्टा हि रूपाणि विकरोति वाजिनो यजति पशवो वै वाजिनस् तान् वा एतद् यजत्य् अथो छन्दांसि वै वाजिनश् छन्दांसि वा एतद् यजति पशवो वै वाजिनस् तन् न संस्थाप्यं यत् संस्थापयेत् तान् एव संस्थापयेद् असंस्थिता ह्य् एते सददि प्रजायन्ते न वा एष सुयज्ञ इव संस्थिते हि प्रहृतेषु परिधिषु जुहोति यद् अव्यवानन् यजति तेन यज्ञः क्रियते ऽनुयजति समिष्ट्या एव प्रतिष्ठित्यै बर्हिर् अनुषिञ्चन् गृह्णात्य् ऋषभेष्व् एव रेतो दधात्य् ऊर्ध्वज्ञुर् आसीनो यजत्य् ऊर्ध्वज्ञवो हि पशवः पशुषु रेतो दधत्य् अथो जूर्ध्वज्ञुर् हि प्रजापतिः प्रजा असृजत दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनत्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते समुपह्वयन्ते सोमपीथ इव ह्य् एष ऋत्विजः प्राश्नन्ति ॥
वाजिनो मे यज्ञं वहान् ॥ इति समावञ्शो भक्षयन्ति समावञ्श एव वाजं विभजन्त आत्मना प्राश्नात्य् आत्मन्न् एव वाजं धत्ते
॥१.१०.९॥ता वैश्वदेवेन सृष्टास् तस्मिंस् तरुणिमनि वरुणो ऽगृह्णात् तद् आहुर् अति वै ताः प्रजापतिम् अचरंस् ता अतिचरन्तीर् वरुणेनाग्राहयत् तस्मात् पिता नातिचरितवा इति वैश्वदेवेन वै प्रजापतिः प्रजा असृजत तस्य मरुतो हव्यं व्यमथ्नत ततो ऽंहोगृहीता असृज्यन्त ताभ्यो भेषजम् ऐछत् तद् वा आत्मन्न् एवैछत् स एतत् पय आत्मनो ऽधि निरमिमीत तेनाभ्यो ऽंहो ऽवायजत् तद् अंहसो वा एषावेष्टिर् यद् वरुणप्रघासा यद् वरुणप्रघासैर् यजते सर्वस्यांहसो ऽवेष्ट्यै जग्धाद् वै ताः प्रजा वरुणो ऽगृह्णात् तस्माद् वरुणप्रघासा यावत् कुमारे ऽम्णो जात एनस् तावद् अस्मिन्न् एनो भवति यो वरुणप्रघासैर् यजते सावित्रो ऽष्टाकपालो भवति गायत्रो वै देवानां सविता द्वादशकपाल ऐन्द्राग्नो देवतया यद् वै तद् वरुणगृहीता अवेव्लीयन्तेव तद् आस्व् इन्द्राग्नी बलम् अधत्तां शिथिरा वै ताः प्रजा वरुणो ऽगृह्णात् तास्व् इन्द्राग्नी बलम् अधत्तम् ओजो वै वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते न वै ताः प्राणंस् ता अप्राणतीर् वरुणो ऽगृह्णात् प्राणापानौ वा इन्द्राग्नी प्राणापानौ वा एतन् मुखतः प्रजानां धीयते अथैतानि पञ्च हवींषि सन्तत्यै निरवत्त्यै मारुती निर्वरुणत्वाय वारुणी कन्त्वाय कायो यद् वै तद् वरुणगृहीताभ्यः कम् अभवत् तस्मात् कायः प्रजापतिर् वै कः प्रजापतिर् वै ताः प्रजा वरुणेनाग्राहयद् यत् काय आत्मन एवैना वरुणान् मुञ्चति
॥१.१०.१०॥यजते : फ़्न् एमेन्देद्। एद्।: यजेत
ऋतं वै सत्यं यज्ञो ऽनृतं स्त्र्य् अनृतं वा एषा करोति या पत्युः क्रीता सत्य् अथान्यैश् चरत्य् अनृतम् एव निरवदाय ऋतं सत्यम् उपैति यन् मिथुया प्रतिब्रूयात् प्रियतमेन याजयेद् अथ यद् वाचयति मेध्याम् एवैनां करोत्य् आमपेषा भवन्ति सर्वस्यांहसो ऽवेष्ट्यै यद् भृज्येयुर् अनवेष्टम् अंहः स्यात् पात्रेभ्यो वै ताः प्रजा वरुणो ऽगृह्णाद् यत् पात्राणि पात्रेभ्य एवैना वरुणान् मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषम् एवांहो ऽवयजत्य् एकम् अधि भवति गर्भेभ्यस् तेन निरवदयते ऽन्नाद् वै ताः प्रजा वरुणो ऽगृह्णाच् छूर्पेणान्नं बिभ्रति तस्माञ् शूर्पेण जुहुतः स्त्रीपुंसौ जुहुतो मिथुना एव प्रजा वरुणान् मुञ्चतः पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः पुरस्ताद् एवांहो ऽवयजतो यत् प्रात्राणि य एव द्विपादः पशवो मिथुनास् तेषाम् एतत् पुरस्ताद् अंहो ऽवयजतो ऽथ यन् मेषश् च मेषी च य एव चतुष्पादः पशवो मिथुनास् तेषाम् एतद् उपरिष्टाद् अंहो ऽवयजत उभयत एवांहो ऽवयजतः पुरस्ताच् चोपरिष्टाच् च
॥१.१०.११॥यद् वै प्रजा वरुणो गृह्णाति शम्यं चैव यवं चापि न गृह्णाति हेमन्तो हि वरुणो या एवावरुणगृहीतौ ताभ्याम् एवैना वरुणान् मुञ्चति वरुणो वै यवो वरुणदेवत्यः स्वेनैवैना भागधेयेन वरुणान् मुञ्चत्य् अनृताद् वै ताः प्रजा वरुणो ऽगृह्णाद् यद् एता अनृतपशू अनृताद् एवैना वरुणान् मुञ्चतो मिथुनौ भवतो मिथुना एव प्रजा वरुणान् मुञ्चतो लोमशौ भवतो मेध्यत्वाय ये हि पशवो लोम जगृहुस् ते मेधं प्रापुः शमीपर्णानि भवन्ति शन्त्वाय भूर्जो वै नामैष वृक्षः कार्या एतस्य स्रुचः प्रजापतिर् वा अन्नाद्यम् अवरुन्धं नाशक्नोत् तञ् शतेध्मेनावारुन्द्ध परःशतानि कार्याण्य् अन्नाद्यस्यावरुद्ध्यै सहस्रेध्मो ह त्व् एवांहसो ऽवेष्टिं विव्याच परःसहस्राणि कार्याणि सर्वस्यांहसो ऽवेष्ट्यै यदा पात्राणि जुह्वत्य् अथाग्निं सम्मार्ष्टि यस्मिन्न् एवांहो ऽवायाक्षुस् तस्मिन्न् उत्पूते देवता यजा इतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एतानि शीर्षाणि यत् खर्जूराः सोमपीथो वा एषो ऽस्या उदैषद् यत् करीराणि सौम्यानि वै करीराणि सौमी ह त्व् एवाहुतिर् अमुतो वृष्टिं च्यावयति यत् करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै
॥१.१०.१२॥एवांहसो : फ़्न् क्स्।३६।६:७४।१: ह त्वा अंहसो
प्रजापतेर् वा एतज् ज्येष्ठं तोकं यत् पर्वतास् ते पक्षिण आसंस् ते परापातम् आसत यत्रयत्राकामयन्ताथ वा इयं तर्हि शिथिरासीत् तेषाम् इन्द्रः पक्षान् अछिनत् तैर् इमाम् अदृंहद् ये पक्षा आसंस् ते जीमूता अभवंस् तस्माद् एते सददि पर्वतम् उपप्लवन्ते योनिर् ह्य् एषाम् एष ततो यः प्रथमो रसः प्राक्षरत् तानि करीराण्य् अभवंस् तद् एतद् उत् प्रावृषि जीमूताः प्लवन्ते यजन्ते वरुणप्रघासैः करीराणि भवन्ति वृष्टिं तैः सन्तनोति तस्मात् तर्हि भूयिष्ठं वर्षति वृष्टिं हि सन्तनोति न वै वैश्वदेव उत्तरवेदिम् उपवपन्त्य् उपात्र वपन्ति प्रजाताः प्रजाः प्रतिगृभ्णाद् इति येयम् उत्तरा वेदिर् या अत्रीः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्ते येयं दक्षिणा वेदिर् या आद्याः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चायं वाव हस्ता आसीन् नायं तद् येयं दक्षिणा वेदिस् तयेमम् अविन्दंस् तस्माद् एष एतस्य परिवेष्टा कनीयान् हि तस्मात् कनीयान् ज्यायांसं परिवेवेष्टि समे प्राची भवतः समौ हीमौ प्राञ्चौ हस्ता असम्भिन्ने भवतः सर्वस्यांहसो ऽवेष्ट्यै यत् सम्भिन्द्युर् अनवेष्टम् अंहः स्याद् एकस्यां पश्चात् सम्भिनत्त्य् अनुसन्तत्यय् उपेमां वपति नेमाम् अन्वभ्यारोहाय क्षत्रं वा इन्द्रो विण् मरुतो नाना यजतः पापवसीयसस्य व्यावृत्त्यै यद् एवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति तस्माद् यद् राजा करोति तद् विट् करोति न वै वैश्वदेवे त्रिंशद् आहुतयः सन्ति न साकमेधेषु वरुणप्रघासेषु वाव त्रिंशद् आहुतयो वैराजो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा यत् तर्ह्य् अवभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वाय यद् वै यज्ञस्य स्वगाकृतिं न प्राप्नोति तद् वरुणो गृह्णाति यन् निष्काषेणावभृथम् अभ्यवयन्ति यद् एवात्र वरुणय्स्य न्यक्तं तस्यैषा निरवत्तिर् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिसीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव
॥१.१०.१३॥सम्भिन्द्युर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अन्वभ्यारोहाय : फ़्न् एमेन्देद्। एद्।: अन्वभ्यारोहयत्। क्स्।३६।७:७४।१९: अनभ्यारोहाय
प्रजाः सृष्ट्वांहो ऽवयज्य सो ऽकामयत वृत्रं हन्याम् इति स एताभिर् देवताभिः सयुग् भूत्वा मरुद्भिर् विशाग्निनानीकेनोपप्लायत स वृत्रम् एत्य वृत्रं दृष्ट्वोरुस्कम्भगृहीतो ऽनभिधृष्णुवन्न् अतिष्ठत् तं मरुतो ऽध्यैयन्त ते ऽत्यैषंस् तस्य यदा मर्मागछन्न् अथाचेष्टत् सं वा एनं तद् अतपंस् तस्मात् सान्तपनास् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तद् अनीकत्वायैवैषो ऽथो अग्निर् वै देवानां सेनानीस् तत् सेनोत्थापनीयम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उद्यमं नाशक्नोत् स एतं मरुद्भ्यो भागं निरवपत् तं वीर्याय समतपंस् तं तेन वीर्येणोदयछन् सं वा एनं तद् अतपंस् तस्मात् सान्तपना मध्यन्दिने चरुर् निरुप्यस् तर्ह्य् उभा अन्तौ तपति चरुः स्यात् तं हि सर्वतस् तपति देवा वै वृत्रस्य मर्म नाविन्दन् तं मरुतः क्षुरपविना व्ययुः सं वा एनं तद् अतपंस् तस्मात् सान्तपनाः
॥१.१०.१४॥सेनोत्थापनीयम् : फ़्न् एमेन्देद्। एद्।: सेनोत्थापनीयम्
ते वै श्वो भूते वृत्रं हनिष्यन्ता उपावसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् तेन पशून् अचिकयुस् ते ऽविदुर् यतरान् वा इम उपावर्त्स्यन्ति त इदं भविष्यन्तीति तेभ्यो वा एतेन प्रातिष्ठंस् तान् एतेनायछंस् तत् पशूनां वावैषा यतिस् ते वै श्वोविजयिनो ऽवसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् ते ऽब्रुवन् माहुतम् अशिष्मेति तं मरुद्भ्यो गृहमेधेभ्यो ऽजुहवुः पशवो वै मरुतो गृहमेधाः पशुभ्यो वै ते तम् अजुहवुस् ते वै संयत्ता आसंस् ते ऽसुरा देवेभ्यः क्षुधं प्राहिण्वंस् तां देवाः प्रतिश्रुत्यैतम् ओदनम् अपचन् सा देवेषु लोकम् अवित्त्वा पुनर् असुरान् प्राविशत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अपि प्रतिवेशं पचेद् भ्रातृव्यायैव क्षुधं प्रहिणोति यद् वै चातुर्मास्यानां पाकयज्ञस्यैव तद् एषां पशव्यं पशव्यो गृहमेधो न प्रयाजान् यजति नानुयाजान् न सामिधेनीर् अन्वाहाज्यभागौ यजति यज्ञतायय् अग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठियईडाम् उपह्वयन्ते पशवो वा इडा पशव्यो गृहमेधस् तस्माद् इडाम् उपह्वयन्ते निष्काषं निदधात्य् अनुसन्तत्यै
॥१.१०.१५॥ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अवित्त्वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
तेषां वा उभयेषाम् इन्द्रः प्रावसत् ते देवा एतम् इन्द्राय भागं न्यदधुर् अस्माञ् श्वो निहितभागो वृणता इत्य् ऋषभम् आह्वयन्तीन्द्रं वा एतं निह्वयन्ते रुवथो वषट्कारो ऽथो असुराणां वा एतद् ऋषभम् अत्याह्वयन्त्य् अस्मान् प्रजनयाद् इति सवत्सा गावो वसन्ति साकमेधत्वाय स्त्र्य् अश्नाति साकमेधत्वाय यत् स्त्री नाश्नीयाद् असाकमेधाः स्युर् अथ यत् स्त्र्य् अश्नाति साकमेधत्वाय निरृतिर् वा एतद् यज्ञस्य गृह्णाति यत् स्त्र्य् अश्नाति निरृतिर् हि स्त्री निरृतिगृहीता वै दर्विस् तप्तं ह्य् अवचरत्य् एष खलु वै स्त्रिया हस्तो यद् दर्विर् यद् दर्व्या जुहोति निरृतिगृहीतयैव निरृतिं निरवदयते स वै श्वो भूते वृत्रं हन्तुम् उपप्लायत तं मरुतः परिक्रीडन्त आसंस् ते ऽस्याप्त्वा व्यनयंस् ते ऽभ्यधर्षयंस् तस्मात् क्रीडयस् ते वै संयत्ता आसंस् ते देवा असुराणां परम् अन्तं न परापश्यंस् ते मरुतः क्रीडीन् क्रीडतो ऽपापश्यंस् तज् जितमनसो वा इम इति तेभ्यो वा एतं भागं निरवपंस् ततो वा अजयंस् तज् जित्वा एवैषो ऽसौ वा आदित्य इन्द्रो रश्मयः क्रीडयः साकं रश्मिभिः प्रचरति विजित्यै देवा वै वृत्रं हतं न व्यजानंस् तं मरुतः क्रीडयो ऽध्यक्रीडंस् तस्मात् क्रीडयो ऽथैतानि पञ्च हवींषि सन्तत्यय् अथैष ऐन्द्राग्न इन्द्राग्नी एवास्मै वज्रम् अन्वबिभृताम् इन्द्राग्नी अस्मै वज्रम् अभ्यवहताम् अथैष ऐन्द्र उद्धारं वा एतम् इन्द्रा उदहरत् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ऽथैष वैश्वकर्मणो विश्वानि मे कर्माणि कृतान्य् आसन्न् इति विश्वकर्मा हि सो ऽभवद् वृत्रं हत्वाथैष आघार आहुतीनां सन्तत्यै त्रिंशत्वाय
॥१.१०.१६॥क्रीडतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रजाः सृष्ट्वांहो ऽवयज्य वृत्रं हत्वा ते देवा अमृतत्वम् एवाकामयन्त स्वर्गो वै लोको ऽमृतत्वं संवत्सरः स्वर्गो लोको यद् द्वादशाहुतयो ऽमृतत्वम् एव तेन स्पृणोत्य् आपद् वा एतत् संवत्सरम् अति वा एतत् संवत्सरम् अक्रमीद् यद् द्वादशाहुतयः संवत्सरम् एव पुनर् अभिपर्यावर्तत आपद् वा एतत् संवत्सरं सं वा एतत् संवत्सरम् अकृक्षद् यत् षट्षट् सम्पादयति षड् वा ऋतवस् तान् वा एतत् सम्पादयति तान् अपिपादयति तान् अपिपद्यमानान् अन्वपिपद्यत आपद् वा एतत् संवत्सरं पितरो वा ऋतवस् तान् वा एतत् प्रजनयति तान् प्रजायमानान् अनु प्रजायते ततः प्रजायत एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य पितरो ऽनभीष्टा यद् एष पितृयज्ञस् तेनैवास्य पितरो ऽभीष्टाः प्रीता भवन्ति दक्षिणतो निरुप्यं दक्षिणा हि पितृणाम् अथो आहुर् उभयत एव निरुप्यम् इत्य् उभये हीज्यन्ते तन् न सूर्क्ष्यं दक्षिणत एव निरुप्यं दक्षिणा हि पितृणां षट्कपालः पुरोडाशो भवति षड् वा ऋतवस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति न वै धानाभिर् न मन्थेन यज्ञो यद् एष पुरोडाशस् तेन यज्ञो ऽथैता धानाः स्वधा वा एता अमुष्मिंल् लोके ऽथो अपरिमिता वै संवत्सरस्य रात्रयस् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्ति न वै धानाभिर् न पुरोडाशेन पितृयज्ञो यद् एष मन्थस् तेन पितृयज्ञो ऽभिवान्याया गोर् दुग्धे स्यात् सा हि पितृणां नेदिष्ठं दक्षिणासीना उपमन्थति दक्षिणा हि पितृणाम् एकयोपमन्थत्य् एका हि पितृणाम् इक्षुशलाकयोपमन्थति सा हि पितृणां न प्राच्य् उद्धत्या पितृयज्ञो हि न दक्षिणा यज्ञो ह्य् उभे दिशा अन्तरोद्धन्त्य् उभये हीज्यन्त उपमूलं बर्हिर् दाति तेन पितृणां यद् ऋतेमूलं तेन देवानाम् उभये हीज्यन्ते परिश्रयन्त्य् अन्तर्हिता वा अमुष्माद् आदित्यात् पितरो ऽथो अन्तर्हिता हि देवेभ्यश् च मनुष्येभ्यश् च पितरस् तस्मात् परिश्रयन्ति समन्तं बर्हिः परिस्तृणाति समन्तं हीम ऋतवः परिविष्टा अथो समन्तान् मा पितरो ऽभिसमागछान् इत्य् अमुष्मिन् वै पूर्वस्मिन्न् इतरा देवता इज्यन्ते यत् तत्र जुहुयाद् आहुतीः संसृजेत् समदं कुर्याद् गार्हपत्ये शृतं कुर्वन्ति यज्ञतायय् ओदनपचनाद् अग्निम् आहरन्ति तत् स्विन् नान्यता आहरन्ति
॥१.१०.१७॥पितृयज्ञस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
उशन्तस् त्वा हवामह उशन्तः समिधीमहि ।
उशन्न् उशत आवह पितॄन् हविषे अत्तवे ॥
इत्य् अन्वाहोशन्तो हि पितरो ऽनुष्टुभम् अन्वाहान्तो वा अनुष्टुब् अन्तः पितरस् तस्माद् अनुष्टुभम् अन्वाहैकाम् अन्वाहैकलोका हि पितरस् त्रिर् अन्वाह तृतीये हि लोके पितरो यद् एकाम् अन्वाह तेन पितृणां यत् त्रिस् तेन देवानाम् उभये हीज्यन्ते न होतारं वृणीते नार्षेयं मृत्योर् एवैना उत्सृजत्य् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजति संव्ययते वै मनुष्येभ्यः करिष्यन् दक्षिणतो देवेभ्या उपव्ययते ऽथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै दक्षिणतो ऽवदायोदङ्ङ् अतिक्रम्य दक्षिणा तिष्ठन् जुहोति दक्षिणा हि प्तृणां सोमम् अग्रे यजति सोमो वै पितृणां देवता पितृदेवत्यः सोमो यत् सोमं पितृमन्तं यजति सोमपांस् तत् पित्πन् यजति यद् बर्हिषदो यज्वनस् तद् यद् अग्निष्वात्तान् गृहमेधिनस् तद् यद् अग्निं कव्यवाहनं द्वे वा अग्नेस् तन्वौ हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्यः समिष्ट्या एव प्रतिष्ठित्यै द्वे वै देवानां याज्यानुवाक्ये प्राण्यया यछति गमयत्य् अन्ययाथात्र तिस्रः कार्याः परे हि देवेभ्यः पितरस् तद् यैषा तृतीयात्य् एवैतया प्रादात् पञ्च कृत्वो ऽवद्यति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध ॥
प्राचीनावीतेन : फ़्न् एमेन्देद्। एद्।: प्राचीनाववीतेन
स्वधा नमः ॥ इति वषट्करोति स्वधाकारः पितृणां नमस्कारो देवानाम् उभये हीज्यन्ते स्रक्तिषु निदधाति देवान् वै पितॄन् मनुष्या अनुप्रपिबन्ते देवान् एव पितॄन् अयाट् त्रिर् निदधाति त्रीन् हीदं पुरुषान् अभिस्मस् त्रीन् परान् अन्वाचष्टे त्रयो हि परे पिता पुत्रः पौत्रो ऽनुसन्तत्यै सर्वासु स्रक्तिषु निदधाति सर्वासु हि दिक्षु पितरः सर्वा एवैनं दिशो गमयति नामुष्यां निदधाति यद् अमुष्यां निदध्यान् मृत्युनैनाः परिवेशयेत् ताम् एवानूद्यन्त्य् अथ यत् तस्यां निमार्ष्टि ताम् एव तेन प्रीणाति
॥१.१०.१८॥अभिस्मस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अत्र पितरो मादयध्वम् इत्य् उक्त्वा परायन्ति त आहवनीयम् उपतिष्ठन्ते सुसन्दृशं त्वा वयम् इत्य् आ तमितोस् तिष्ठन्त्य् अग्निम् एवोपद्रष्टारं कृत्वान्तं प्राणस्य गछन्त्य् अमीमदन्त पितरा इत्य् उक्त्वा प्रपद्यन्ते त ऊर्णां दशां वा न्यस्यन्ति यद् एवात्र निगछन्ति तस्यैषा निरवत्तिः परेतन पितरः सोम्यासा इत्य् आहानुषक्ता वा एतान् पितरः स्युर् व्यावृत्त्यै समन्तम् अपः परिषिञ्चन् पर्येति मार्जनम् एवैषां तद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एते लोकं निगछन्ति ये पितृयज्ञेन चरन्ति प्रजापतिस् त्व् एवैनांस् तता उन्नेतुम् अर्हति यत् प्राजापत्याम् ऋचम् अन्वाह प्रजापतिर् एवैनांस् तता उन्नयत्य् अथ यद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एतं लोकं पुनर् उपावर्तन्ते पितॄन् वा एतद् यज्ञो ऽगन् पाङ्क्तो यज्ञो यत् पङ्क्त्या पुनर् आयन्ति सहैव यज्ञेनायन्ति मनस्वतीभिर् आयन्ति मन एव पुनर् उपह्वयन्ते
॥१.१०.१९॥एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य रुद्रा अनभीष्टा यद् एते त्र्यम्बकास् तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठत्य् अभिघार्या३ नाभिघार्या३ इति मीमांसन्ते यद् अभिघारयेद् रुद्रायास्य पशून् अपिदध्यात् तन् न सूर्क्ष्यम् अभिघार्या एव न हि हविर् अनभिघृतम् अस्त्य् एकोल्मुकं हरन्त्य् एकोल्मुकं हि रुद्राणां धूपायद् धरन्ति धूपायद् धि रुद्राणाम् एतां दिशं हरन्त्य् एषा हि रुद्राणां दिक् पराचीनं हरन्ति पराञ्चम् एव रुद्रं हरन्त्य् आखुं ते रुद्र पशुं करोमीत्य् आखुकिरा एकम् उपवपति पशुभ्यस् तेन निरवदयते तस्मात् तान् पशुपतिर् घातुकश् चतुष्पथे याजयेच् चतुष्पथे वै रुद्राणां गृहा गृहेष्व् एव रुद्रं निरवदयत एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहेति शरद् वै रुद्रस्य योनिः स्वसाम्बिकैतां वा एषो ऽन्वभ्यवचरति तस्माञ् शरदि भूयीष्ठं हन्ति तयैवैनं सह निरवदयते मध्यमपर्णेन जुहोति तद् ध्य् अरक्षोहतम् आरण्येन जुहोत्य् अरण्य एव रुद्रं निरवदयते यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोत्य् अवाम्ब रुद्रम् अदिमहीत्य् अनृणा एवाभूवन् भेषजं गवे अश्वाय पुरुषाय भेषजम् इत्य् अनृणा एव भूत्वा भेषजम् अक्रत त्र्यम्बकं यजामहा इति परियन्ति तत्रापि पतिकामा पर्येति पतिवेदनम् एवास्यास् तत् तान् ऊर्ध्वान् उदस्य प्रतिलभन्ते भगम् एव प्रतिलभन्ते तान् यजमानाय समावपन्ति भगम् एवास्मै समावपन्ति या पतिकामा स्यात् तस्यै समावपेयुर् भगम् एवास्यै समावपन्ति तान् मूते कृत्वा वृक्ष आसञ्चति ॥
अरक्षोहतम् : फ़्न् एमेन्देद्। एद्।: अरक्षोहतम्
एवाभूवन् : फ़्न् एमेन्देद्। एद्।: एवाभुवन्
रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥ इति गिरिर् वै रुद्रस्य योनिर् अतो वा एषो ऽन्वभ्यवचारं प्रजाः शमायते स्वेनैवैनं भागधेयेन स्वं योनिं गमयत्य् अनपेक्षमाणा आयन्ति रुद्रस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव रुद्रं निरवदयन्ते ऽम्बी वै स्त्री भगनाम्नी तस्मात् त्र्यम्बका यस्य वै हविर् अप्रतिष्ठितम् अप्रतिष्ठितः सो ऽप्रतिष्ठिता अस्य त्र्यम्बका आदित्यं घृते चरुं निर्वपेत् पुनर् एत्य गृहेष्व् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् एव प्रतितिष्ठति
॥१.१०.२०॥