प्रथमकाण्डे एकादशः प्रपाठकः
प्रथमकाण्डे एकादशः प्रपाठकः
देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्म
॥१.११.१॥वाजं वाजिनो जयताध्वानं स्कभ्नुवन्तो योजना मिमानाः ॥
काष्ठां गछत ॥
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो ऽहिं वृकं रक्षांसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धना समिथेषु जभ्रिरे ॥
एष स्य वाजि क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिपक्ष आसन् ।
क्रतुं दधिक्राम् अनु संसनिष्यदत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।
श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णः सहोर्ज तरित्रतः
॥१.११.२॥आ मा वाजस्य प्रसवो जगम्याद् आ मा द्यावापृथिवि विश्वशम्भू ।
आ मा गन्त पितरो विश्वरूपा आ मा सोमो अमृतत्वेन गम्यात् ॥
इन्द्राय वाचं वदतेन्द्राय वाचं संवदतेन्द्रं वाजं जापयतेन्द्र वाजं जयेयं वः सा सत्या संवाग् अभूद् याम् इन्द्रेण समदद्भ्वम् अजीजपत वनस्पतय इन्द्राय वाचं विमुच्यध्वं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथां स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावायुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पते चक्षुर् यज्ञेन कल्पते श्रोत्रं यज्ञेन कल्पते मनो यज्ञेन कल्पते वाग् यज्ञेन कल्पते ब्रह्मा यज्ञेन कल्पते पृष्ठं यज्ञेन कल्पते स्वर् यज्ञेन कल्पते यज्ञो यज्ञेन कल्पते वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहाहर्पतये स्वाहा वाक्पतये स्वाहा वसवे स्वाहा स्वर् मूर्धा वैयशनो व्यश्यन्न् आन्त्यो ऽन्त्यो भौवनो भुवनस्य पतये ऽधिपतये स्वाहान्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा स्वर् देवा अगामामृता अभूम प्रजापतेः प्रजा अभूम
॥१.११.३॥वैयशनो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव ।
प्र नो यछ विशस्पते धनदा असि नस् त्वम् ॥
प्र नो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
सोमं राजानं वरुणम् अग्निम् अन्वारभामहे ।
आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानम् ओषधीष्व् अप्सु ।
स विराजं पर्येतु प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥
वाजस्येमां प्रसवः शिश्रिये दिवं स ओषधीः समनक्तु घृतेन ।
ता अस्मभ्यं मधुमतीर् भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः वाजस्येदं प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
अदित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नियछतु ॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीन्द्रं साम्राज्यायाभिषिञ्चाम्य् उपयामगृहीतो ऽसि द्रुषदं त्वा नृषदम् आयुषदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि पृथिवीषदं त्वान्तरिक्षसदं नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽस्य् अप्सुषदं त्वा घृतसदं भूतसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि ग्रह विश्वजनीन नियन्तर् विप्रायाम ते ॥
यास् तिस्रः प्रथमजा दिव्यः कोशः समुक्षितः ।
तासां विशिश्नानाम् इषम् ऊर्जं समग्रभम् ॥
इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि ॥
अपां रसम् उद्वयसं सूर्याञ् शुक्रं समाभृतम् ।
अपां रसस्य यो रसस् तं ते गृभ्णाम्य् उत्तमम् ॥
इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥
अया विष्ठा प्रजापतये त्वा
॥१.११.४॥देवा वै नाना यज्ञान् अपश्यन्न् अथ वा एतं सर्वे ऽपश्यंस् तस्मिन् वा अयतन्त तस्मिन्न् आजिम् अयुस् तं बृहस्पतिर् उदजयद् बृहस्पतिर् वै देवानां पुरोहितो यद् वै पुरोहितो ब्राह्मणं शृणोति तद् राज्ञे तेनेन्द्रम् अयाजयत् स स्वाराज्यम् अगच्छत् स एष स्वाराज्यो यज्ञः स्वाराज्यं गछति य एतेन यजते यद् बृहस्पतिर् उदजयत् तस्माद् ब्राह्मणो यजेत यद् इन्द्रम् अयाजयंस् तस्माद् राजन्यो देवा वै नाना यज्ञान् आहरन्न् इमम् अहम् इमं त्वम् इत्य् अथ वा एतं प्रजापतिर् आहरत् तस्मिन् वा अपित्वम् ऐछन्त तेभ्यश् छन्दांस्य् उज्जितीः प्रायछद् अथ वा एतेन प्रजापतिर् अयजत स स्वाराज्यम् अगछत् स एष स्वारज्यो यज्ञः स्वाराज्यम् गछति य एतेन यजते ऽन्नं वै वाजस् तद् य एवं विद्वान् अन्नम् अत्ति वाजयति ह वा एनम् अन्नम् अद्यमानं सोमो वै वाजपेयस् तद् य एवं विद्वान्त् सोमं पिबति वाजं ह गछति यावन्तो हि देवाः सोमम् अपिबंस् ते वाजम् अगछंस् तस्मात् सर्वः सोमं पिपासति वाजं ह गछति वाग् घि वाजस्य प्रसवः सा वै वाक् सृष्टा चतुर्धा व्यभवद् एषु लोकेषु त्रीणि तुरीयाणि पशुषु तुरीयं या पृथिव्यां साग्नौ सा रथन्तरे यान्तरिक्षे सा वाते सा वामदेव्ये या दिवि सा बृहति सा स्तनयित्नव् अथ पशुषु ततो या वाग् अत्यरिच्यत तां ब्राह्मणे न्य् अदधुस् तस्माद् ब्राह्मण उभयीं वाचं वदति यश् च वेद यश् च न या बृहद्रथन्तरयोर् यज्ञाद् एनं तयागछति या पशुषु तय ऋतेयज्ञं तद् य एवं वेदा ह वा एनम् अप्रतिक्शातं गछति यावती वाक् तां हि वेद वाचा हि दीयन्ते वाचा प्रदीयये यो गाथानाराशंसीभ्यां सनोति न तस्य प्रतिगृह्यम् अनृतेन हि स तत् सनोति न मत्तस्य यदा हि तस्य मदो व्येत्य् अथ तं तत् तपति
॥१.११.५॥सप्तदश वा एते द्वया ग्रहाः प्राजापत्याः सप्तदशः पुरुषाः प्राजापत्यश् चत्वार्य् अङ्गानि शिरोग्रीवम् आत्मा वाक् सप्तमी दश प्राणा अङ्गेऽङ्गे वै पुरुषस्य पाप्मोपश्लिष्टो यद् व्यतिषजन् ग्रहान् गृह्णात्य् अङ्गादङ्गाद् एवैनं पाप्मनो मुञ्चति श्रीर् वै सोमः पाप्मा सुरोपयामा आगते काले प्राञ्चः सोमैर् उत्क्रामन्ति प्रत्यञ्चः सुरोपयामैः पापमनैवैनं विपुनन्ति तस्माद् आहुर् वाजपेययाज्य् एव पूत इति पापमना ह्य् एनं विपुनन्ति देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति परुषिपरुषि जुहोत्य् उत्सन्नयज्ञो वा एष को ह तद् वेद यद् एतस्य क्रियते यन् न सर्वत्वायैव प्रसवाय वाजस्य नु प्रसवे मातरं महीम् इति रथम् उपावहरतीयं वा अदितिर् अनयैवैनं प्रसूतं सवित्रा चोपावहरति वाजस्योज्जित्यय् अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान्त् स्नपयन्त्य् अप्सुजा वा अश्वाः स्वाद् एवैनान् योनेर् जनयन्ति वायुर् वा त्वा मनुर् वा त्वेति युनक्ति न वा एतन् मनुष्या योक्तुम् अर्हन्ति देवताभिर् एवैनान् युनक्त्य् अपां नपाद् आशुहेमन्न् इति रराटानि प्रतिमार्ष्टि पूर्वम् एव यजुर् उदितम् अनु वदति दुन्दुभीन् निह्रादयन्ति वाग् वा एषैकारण्यं प्राविशत् ताम् एवोज्जयत्य् अथो या वनस्पतिषु वाक् ताम् एवावरुन्द्धे सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे
॥१.११.६॥देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् इति ब्रह्मा रथचक्रं सर्पति सवितृप्रसूत एव वज्रं सर्पति वाजस्योज्जित्यय् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतिर् एवैनं वज्राद् अधि प्रसुवति वाजस्योज्जित्यै साम गायते सत्यं वै साम सत्येनैवोज्जयत्य् उज्जितिर् वाजयत्य् अन्नं वै वाजो ऽन्नाद्यस्योज्जित्यै देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्मेति रथम् अभ्यातिष्ठति सवितृप्रसूत एव रथम् अभ्यातिष्ठति वाजस्योज्जित्यै वाजिनाम् ऋचो ऽन्वाह वाजस्योज्जित्यय् आजिं धावन्ति वाजस्योज्जित्यय् अनुदिष्टै रथैर् धावन्ति दक्षिणयैव स्वर्गं लोकम् एति यद् अनुदिष्टै रथैर् धावन्ति दक्षिणया वा एतद् यजमानः सह स्वर्गं लोकम् एत्य् अथैष नैवारः सप्तदशशरावो देवा ओषधीषु पक्वास्व् आजिम् अयुस् ता बृहस्पतिर् उदजयत् स एतान् निवारान् न्यवृणीत तन् निवाराणां निवारत्वं बृहस्पतिर् वै ता उदजयत् तम् एव भागिनं करोत्य् अहिंसायै तम् अधश् चात्वालं हरन्तीह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरन् यच् चात्वाले ऽवदधति यजमानम् एव स्वर्गं लोकं हरन्त्य् आ मा वाजस्य प्रसवो जगम्याद् इति रथेषु पुनरासृतेषु जुहोति यम् एव वाजम् उदजैषुस् तम् आत्मन् धत्ते ऽजीजपत वनस्पतया इन्द्राय वाचं विमुच्यध्वम् इति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतम् इति भागिना एवैना अकर् वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथाम् इति सर्वान् एवैनान् प्रीणात्य् अर्धवशां च सुरोपयामांश् च हरन्ति य आजिं धावन्ति तेभ्यो यम् एव वाजम् उदजैषुस् तं परिक्रीणीते मधुष्ठालं ब्रह्मणे ब्रह्मण एव तेन परिक्रीणीते ककुभो राजपुत्रः प्राश्नाति वीर्यं वै ककुब् वीर्यम् एवात्मन् धत्ते
॥१.११.७॥वाजयति : फ़्न् क्स्।१४।७:२०६।१४: उज्जितीर् वाचयति
स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावेति स्वर् वा एतद् रोक्ष्यन् पत्न्या संवदते ऽथो अन्वारम्भो वा एष यज्ञस्य पत्न्या सह स्वर्गे लोके भवत आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इत्य् एतावान् वै पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा स्वर्गं लोकम् एति दर्भमयं वासो भवति पवित्रत्वाय गौधूमं चषालं प्राजापत्या वै गोधूमा अर्धं प्रत्य् आसाम् ओषधीनां सहैवान्नाद्येनामुं लोकम् एति वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवतसरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठत्य् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्य् ऊषपुटैर् अर्पयन्ति प्राजापत्या वा ऊषाः श्वःश्वो भूयांसो भवन्त्य् अन्नाद्येनैवैनम् अर्पयन्त्य् एति वा एषो ऽस्माल् लोकाद् यो ऽमुं लोकम् एति यद् ऊषपुटैर् अर्पयन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतो हिरण्यम् अभ्यवरोहति तेजो वै हिरण्यं तेजस्य् एव प्रतितिष्ठति बस्ताजिनम् अभ्यवरोहति पशवो वै बस्ताजिनं पशुष्व् एव प्रतितिष्ठत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्ध्यय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै सप्तभिर् जुहोति सप्त वै छन्दांसि छन्दोभिर् एवास्मा अन्नाद्यम् अवरुन्द्धे ऽथो वाग् वै छन्दांसि वाचैवास्मा अन्नाद्यं प्रयछति
॥१.११.८॥अथो : फ़्न् एमेन्देद्। एद्।: अथ
अथैते ऽतिग्राह्या यद् एवादः परमन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ऽथैते पशवा आलभ्यन्ते यज्ञक्रतूनाम् अवरुद्ध्यै यद् आगेयो ऽग्निष्टोमं तेनावरुन्द्धे यद् ऐन्द्राग्न उक्थ्यं तेन यद् ऐन्द्रो वृष्णिः षोडशिनं तेन यत् सारस्वती मेषी यद् एवादः सप्तदशं स्तोत्रम् अनाप्तम् अनवरुद्धं तद् एवैतयाप्नोति तद् अवरुन्द्धे ऽथैषा वशा देवाश् च वा असुराश् चास्पर्धन्त नेमे देवा आसन् नेमे ऽसुरास् ते देवा एतां वशाम् अपश्यंस् तया लोकं द्वितीयम् अवृञ्जतासुरलोकं यस्यावद्यति स देवलोको यस्य नावद्यति सो ऽसुरलोकस् तं लोकम् एवैतया द्वितीयं यजमानो वृङ्क्ते भ्रातृव्यलोकम् एव सारस्वत्य् अन्येषाम् उत्तमा भवति सारस्वत्य् अन्येषां प्रतहमा वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति यद् वै यज्ञस्य विद्वान् न करोति यच् चाविद्वान् अन्तरेति तच् छिद्रं तद् वाचैव सरस्वत्या कल्पयत्य् अनिरुक्तः प्रातःसवः प्रजापतिम् एव तेनाप्नोति वियोनिर् वै वाजपेयः प्राजापत्यः सन् निरुक्तसामा यद् अनिरुक्तः प्रातःसवस् तेन सयोनि रथन्तरं साम भवत्य् आशीया उज्जित्यय् अथो इयं वै रथन्तरम् अस्याम् एव सूयते वाजवतीर् माध्यन्दिने पवमाने भवन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यै चित्रवतीर् आर्भवे पवमाने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै शिपिविष्टवतीषु स्तुवत एषा वै प्रजापतेः पशुष्ठास् तनूर् यञ् शिपिविष्टं तस्माञ् शिपिविष्टवतीषु स्तुवत आष्टादंष्ट्रम् उत्तमम् उक्थानां भवत्य् उत्तरे एव स्तोत्रे अभिसन्तनोति यद् वै यज्ञस्यातिरिच्यते ऽमुं तं लोकम् अभ्यतिरिच्यते बृहत् त्व् एवामुं लोकम् आप्तुम् अर्हतीन्द्रियं वै वीर्यं बृहद् यद् बृहता स्तुवते इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति
॥१.११.९॥सन् : फ़्न् एमेन्देद्। एद्।: स। च्फ़्। क्स्।१४।१०:२०९।१
स्तुवते : फ़्न् सिच्
अग्निर् एकाक्षराम् उदजयद् अश्विनौ द्व्यक्षरां विष्णुस् त्र्यक्षरां सोमश् चतुरक्षरां सविता पञ्चाक्षरां पूषा षडक्षरां मरुतः सप्ताक्षरां बृहस्पतिर् अष्टाक्षरां मित्रो नवाक्षरां वरुणो दशाक्षराम् इन्द्रा एकादशाक्षरां विश्वे देवा द्वादशाक्षरां वसवस् त्रयोदशाक्षरां रुद्राश् चतुर्दशाक्षराम् आदित्याः पञ्चदशाक्षराम् अदितिः षोडशाक्षरां प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरया वाचम् उदजयद् अश्विनौ द्व्यक्षरया प्राणापाना उदजयतां विष्णुस् त्र्यक्षरया त्रीण् इमांल् लोकान् उदजयत् सोमश् चतुरक्षरया चतुष्यदः पशून् उदजयत् सविता पञ्चाक्षरया पञ्च दिशा उदजयत् पूषा षडक्षरया षड् ऋतून् उदजयन् मरुतः सप्ताक्षरया सप्तपदां शक्वरीम् उदजयन् बृहस्पतिर् अष्टाक्षरयाष्टौ दिशा उदजयच् चतस्रो दिशस् चतस्रो ऽकुशलीर् मित्रो नवाक्षरया नव प्राणान् उदजयद् वरुणो दशाक्षरया विराजम् उदजयद् इन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयद् विश्वे देवा द्वादशाक्षरया जगतीम् उदजयन् वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरयोदजयन् माम् इमां पृथिवीम् अश्विनौ द्व्यक्षरया प्रमाम् अन्तरिक्षं विष्णुस् त्र्यक्षरया प्रतिमां स्वर्गं लोकं सोमश् चतुरक्षरयाश्रीवीर् नक्षत्राणि सविता पञ्चाक्षरयाक्षरपङ्क्तिम् उदजयद् या ह्य् अक्षरपङ्क्तिः सा पङ्क्तिश् चतुर्धा ह्य् एतस्याः पञ्च पञ्चाक्षराणि पूषा षडक्षरया गायत्रीम् उदजयच् चतुर्धा ह्य् एतस्याः षट् षडक्षराणि मरुतः सप्ताक्षरयोष्णिहम् उदजयंश् चतुर्धा ह्य् एतस्याः स्प्त सप्ताक्षराणि बृहस्पतिर् अष्टाक्षरयानुष्टुभम् उदजयच् चतुर्धा ह्य् एतस्या अष्टाष्टा अक्षराणि मित्रो नवाक्षरया बृहतीम् उदजयच् चतुर्धा ह्य् एतस्या नव नवाक्षराणि वरुणो दशाक्षरया विराजम् उदजयच् चतुर्धा ह्य् एतस्या दश दशाक्षराणीन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयच् चतुर्धा ह्य् एतस्य एकादशैकादशाक्षराणि विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश् चतुर्धा ह्य् एतस्या द्वादश द्वादशाक्षराणि वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्नया एकाक्षरया छन्दसे स्वाहाश्विभ्यां द्व्यक्षराय छन्दसे स्वाहा विष्णवे त्र्यक्षराय छन्दसे स्वाहा सोमाय चतुरक्षराय छन्दसे स्वाहा सवित्रे पञ्चाक्षराय छन्दसे स्वाहा पूष्णे षडक्षराय छन्दसे स्वाहा मरुद्भ्यः सप्ताक्षराय छन्दसे स्वाहा बृहस्पतये ऽष्टाक्षराय छन्दसे स्वाहा मित्राय नवाक्षराय छन्दसे स्वाहा वरुणाय दशाक्षराय छन्दसे स्वाहेन्द्रायैकादशाक्षराय छन्दसे स्वाहा विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा वसुभ्यस् त्रयोदशाक्षराय छन्दसे स्वाहा रुद्रेभ्यश् चतुर्दशाक्षराय छन्दसे स्वाहादित्येभ्यः पञ्चदशाक्षराय छन्दसे स्वाहादित्यै षोडशाक्षराय छन्दसे स्वाहा प्रजापतिः सप्तदशः
॥१.११.१०॥