skipLink.label

प्रथम काण्ड, प्रपाठक 7

प्रथम काण्ड, प्रपाठक 7

प्रथमकाण्डे सप्तमः प्रपाठकः

प्रथमकाण्डे सप्तमः प्रपाठकः

सलिलः सलिगः सगरस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा केतः सुकेतः सकेतस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा देवजूते विवस्वन्न् आदित्य ते नो देवाः सत्यां देवहूतिं देवेष्व् आसुवध्वम् आदित्येभ्यः स्वाहा

॥१.७.१॥

अग्नेर् वै भागः पुनराधेयम् एतं वै भागं प्रेप्सन् व्यर्धयति यद्य् आदधानो मन्येत वि स्या ऋध्यता इत्य् उत्साद्य पुनर् आदधीत यम् एव भागं प्रेप्सन् व्यर्धयति तं प्राप्यार्धयत्य् एव सर्वम् एवाग्नेयं क्रियते यत् किञ्च सर्वम् एवाग्नये भागं प्रदाय सर्वाम् ऋद्धिम् ऋध्नोति न सम्भाराः सम्भृत्या न यजुः कर्तवा इत्य् आहुः सम्भृतसम्भारो ह्य् एष कृतयजुस् तद् आहुः सम्भृत्या एव सम्भाराः कार्यं यजुर् इति पुनरुत्स्यूतं वासो देयं पुनर्णवो रथः पुनरुत्सृष्टो ऽनड्वान् एतानि वै पुनराधेयस्य रूपाणि रूपाण्य् एवास्याप्त्वावरुन्द्धे ऽग्निर् वा उत्सीदन्न् अप ओषधीर् अभ्युत्सीदति दर्भा वा आपा ओषधयो यद् दर्भा उपोलपा भवन्त्य् अद्भ्य एवैनम् ओषधीभ्यो ऽध्य् आप्त्वावरुन्द्धे देवा असुरैर् विजयम् उपयन्तो ऽग्नौ प्रियास् तन्वः सन्न्यदधत यन् नो जयेयुर् इमा अभ्युपधावेम यद्य् उ जयेमेमा अभ्युपावर्तेमहीति ता देवा जित्वान्वैछन् सर्वेषां नः सहेति सो ऽग्निर् अब्रवीद् य एव मां मद्देवत्य आदधातै स एताभिस् तनूभिः सम्भवाद् इति तं देवा आदधत त एताभिस् तनूभिः समभवत् पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव समभवंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त एताभिर् एवाग्नेस् तनूभिः सम्भवति पशवो वै देवानां प्रियास् तन्वः पशुभिर् एव सम्भवति मनुः पुष्टिकामा आधत्त स इमान् पोषान् अपुष्यत् तेन ऋद्धं त्वष्टा पशुकामा आधत्त त इमे त्वाष्ट्राः पशवः प्राजायन्त तेन ऋद्धं प्रजापतिः प्रजाकामा आधत्त ता इमाः प्रजाः प्राजापत्याः प्राजायन्त तेन ऋद्धं यो वै तम् अग्रा आधत्त स तेन वसुना समभवत् तत् पुनर्वसोः पुनर्वसुत्वं तस्मात् पुनर्वसा आधेयः पुनर् हि स तेन वसुना समभवद् यो वै तम् आधत्तार्ध्नोत् स तस्माद् अनुराधास्व् आधेय ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय

॥१.७.२॥

अग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदशेत्य् एतद् वै संवत्सरस्य सङ्क्रमणतमम् एतेनाशिष्टम् आप्यते पञ्चदश सामिधेनीः पञ्चदशार्धमासस्य रात्रयस् ताभिर् एव ता आप्यन्ते यावन्ति वै सामिधेनीनाम् अक्षराणि तावन्ति संवत्सरस्याहानि तैर् एव तान्य् आप्यन्ते ऽग्निर् वा उत्सीदन्त् संवत्सरम् अभ्युत्सीदति षड् वा ऋतवः संवत्सरस् तस्मात् षड् विभक्तयः संवत्सरो वा अग्निर् वैश्वानरो यत् षड् विभक्तयः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे ऽथ यद् अग्निर् बहुधा विह्रियत इमान् पोषान् पुपोष तस्माद् अग्निर् एतावतीर् विभक्तीर् आनशे नान्या देवताथ यद् द्व्यक्षराः सतीश् चतुरक्षराः क्रियन्त आचतुरं हि पशवो द्वन्द्वं मिथुना ऋतवो वै प्रयाजा अन्नम् ऋतवो यत् प्रयाजान् अन्तरियाद् अन्नम् अन्तरियाद् यज्ञमुखं वै प्रयाजा यत् प्रयाजान् अन्तरियाद् यज्ञमुखम् अन्तरियात् तद् यस्येर्त्सेत् तस्योपरिष्टात् प्रयाजानां विभक्तीः कुर्याद् वीर्यं वै प्रयाजा वीर्यं विभक्तयो वीर्याद् एवाधि वषट्करोति ताजग् ऋद्धिम् अभिक्रामति नानाग्नेयं क्रियते ऽथ कस्मात् सह विभक्तयः प्रयाजैर् इति संवत्सरं वै प्रयाजाः परीज्यन्ते कस्माद् आग्नेयं क्रियते तस्मान् नानाग्नेयं

॥१.७.३॥

पुनर् ऊर्जा निवर्तस्व पुनर् अग्न इषायुषा ।

पुनर् नः पाह्य् अंहसः ॥

इति पुरस्तात् प्रयाजानां जुहुयात् ॥

सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।

विश्वपन्या विश्वतस् परि ॥

इत्य् उपरिष्टाद् अनुयाजानां जुहुयाद् ऊर्जा वा एष पशुभिर् उत्सीदन्त् सहोत्सीदति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे ऽथो तान् एव भागिनः करोत्य् अथो उभयत एष यज्ञस्याशिष ऋध्नोति नानाग्नेयं क्रियते ऽथ कस्माद् आज्यभागा इज्येते इति चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ यद् आज्यभागा अन्तरियाच् चक्षुषी यज्ञस्यान्तरियाद् अग्ना आयूंषि पवसा इति सोमस्य लोके कुर्याद् यद् आग्नेयी तेनाग्नेयी यत् पावमानी तेन सौमी नानाग्नेयं क्रियते न सोमम् अन्तर्यन्त्य् अग्निर् मूर्धा दिवः ककुद् इति प्रजाकामो वा पशुकामो वा सोमस्य लोके कुर्याद् यन् मिथुना तेन प्रजननवती यद् रेतस्वती तेन सौमी यज्ञेन वा एष व्यृध्यते यो ऽग्निम् उत्सादयते पाङ्क्तो यज्ञो यत् पञ्चकपालो यज्ञम् एव पुनर् आलभते ऽष्टाकपालः कार्यो गायत्रो ह्य् अग्निर् गायत्रछन्दा आग्नेयं वा एतत् क्रियते यत् पुनराधेयं तस्माद् अष्टाकपालस् तन् न सूर्क्ष्यं पञ्चकपाल एव कर्यः पञ्चमाद् वा अध्य् ऋतोः षष्ठ ऋतुर् अभवत् समानम् एतद् यत् पञ्चमश् च ऋतुः षष्ठश् च यत् पञ्चकपालः संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे प्रजननं वा ऋतवो ऽग्निः प्रजनयिता यत् पञ्चकपालः प्रजननाद् एवैनं प्रजनयिता प्रजनयति

॥१.७.४॥

वा : फ़्न् एमेन्देद्। एद्।: वा

वीरहा वा एष देवानां यो ऽग्निम् उत्सादयते शतदायो वीरो यद् एताः शताक्षराः पङ्क्तयो भवन्ति वीरं वावैतद् देवानाम् अवदयते ऽन्यस्मै वै कम् आधेयम् अन्यस्मै पुनराधेयं न वै तद् आधेयेन स्पृणोति यस्मै कं पुनराधेयं पुनराधेयेन वाव तत् स्पृणोति जरा वै देवहितम् आयुर् एतावतीर् हि समा एति यद् एताः शताक्षराः पङ्क्तयो भवन्ति यावद् एवायुर् वीर्यं तद् आप्नोति तत् स्पृणोति तद् अवरुन्द्ध आयुषा वा एष वीर्येण व्यृध्यते यो ऽग्निम् उत्सादयत आयुर् वीर्यं हिरण्यं यद् धिरण्यं ददात्य् आयुषैवैनं वीर्येण समर्धयति शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् ते व्यतृष्यन्न् इतःप्रदानाद् धि देवा यज्ञम् उपजीवन्ति ते वा एतं पुनर् आदधत त आर्ध्नुवन्न् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पशवो ऽस्मिन्न् ऋतवो ऽमुष्मिंस् तद् य एवं विद्वान् पुनराधेयम् आधत्त उभयोर् एव लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् च सलिलः सलिगः सगरस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा केतः सुकेतः सकेतस् ते न आदित्या हविषो जुषाणा व्यन्तु स्वाहा देवजूते विवस्वन्न् आदित्य ते नो देवाः सत्यां देवहूतिं देवेष्व् आसुवध्वम् आदित्येभ्यः स्वाहेत्य् एतैर् वै ते तं पुनर् आदधत त आर्ध्नुवंस् तद् यद् एतैः पुनर् आधत्ते ऽथ ऋध्नोत्य् आदित्या हि पुनराधेयम्

॥१.७.५॥