skipLink.label

प्रथम काण्ड, प्रपाठक 6

प्रथम काण्ड, प्रपाठक 6

प्रथमकाण्डे षष्ठः प्रपाठकः

प्रथमकाण्डे षष्ठः प्रपाठकः

अग्ना आयूंषि पवसे ऽग्निर् ऋषिर् अग्ने पवस्व

॥१.६.१॥

या वाजिन्न् अग्नेः पवमाना प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः पावका प्रिया तनूस् ताम् आवह या वाजिन्न् अग्नेः शुचिः प्रिया तनूस् ताम् आवह ॥

यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् ।

श्येना ते पक्षा हरिणोत बाहू उपस्तुत्यं जनिम तत् ते अर्वन् ॥

ओजसे बलाय त्वोद्यच्छे वृष्णे शुष्माय सपत्नतूर् असि वृत्रतूः ॥

प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो अग्निर् भवेह ।

विश्वा आशा दीद्यद् विभाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।

बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

भुवः स्वर् अङ्गिरसां त्वा देवानां व्रतेनादधे ऽग्नेष् ट्वा देवस्य व्रतेनादध इन्द्रस्य त्वा मरुत्वतो व्रतेनादधे मनोष् ट्वा ग्रामण्यो व्रतेनादधे ॥

आछदि त्वा छन्दो दधे द्यौर् मह्नासि भूमिर् भूना ।

तस्यास् ते देव्य् अदित उपस्थे ऽन्नादम् अग्निम् अन्नपत्यायादधे ॥

यत् ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधे ॥

इडायास् त्वा पदे वयं नाभा पृथिव्या अधि ।

जातवेदो निधीमह्य् अग्ने हव्याय वोढवे ॥

सम्राट् च स्वराट् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विराट् च प्रभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊर्जं यछ विभूश् च परिभूश् चाग्ने ये ते तन्वौ ताभ्यां मा ऊज्रं यछ ॥

समुद्राद् ऊर्मिर् मधुमं उदारद् उपांशुना सम् अमृतत्वम् आनट् ।

घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥

वयं नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।

उप ब्रह्मा शृणवञ् शस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

त्रेधा बद्धो वृषभो रोरवीति महो देवो मर्त्यं आततान ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्ठाः ।

ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि ।

सप्त ऋत्विजः सप्तधा त्वा यजन्ति सप्त होत्रा ऋतुथा नु विद्वान्त् सप्त योनीर् आपृणस्व घृतेन स्वाहा ॥

ये अग्नयो दिवो ये पृथिव्याः समागछन्तीषम् ऊर्जं वसानाः ।

ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परेत स्वाहा ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥

उत नो ऽहिर् बुध्न्यः शृणोत्व् अज एकपात् पृथिवी समुद्रः ।

स्तुता मन्त्राः कविशस्ता अवन्तु न एना राजन् हविषा मादयस्व ॥

प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् ।

यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् अर्को ज्योतिस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योर् वातः प्राणस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असि यछा तोकाय तनयाय शं योः ॥

अविषं नः पितुं पच ॥

कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।

कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥

ये अग्नयः समनसा ओषधीषु वनस्पतिषु प्रविष्टाः ।

ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धत्त द्विपदे चतुष्पदे

॥१.६.२॥

प्रजापतिर् वा इदम् अग्र आसीत् तं वीरुधो ऽभ्यरोहन्न् असुर्यो वा एता यद् ओषधयस् ता अतितिष्टिघिषन्न् अतिष्टिघं नाशक्नोत् सो ऽशोचत् सो ऽतप्यत ततो ऽग्निर् असृज्यत तम् अग्निं सृष्टं वीरुधां तेजो ऽगछत् ता अशुष्यन् न ततः पुराशुश्यन् स प्रजापतिर् अग्निम् आधत्तेमा एवासहा इति ता असहत तत् साढ्यै वावैष आधीयते तद् यथादो वसन्ताशिशिरे ऽग्निर् वीरुधः सहत एवं सपत्नं भ्रातृव्यम् अवर्तिं सहते य एवं विद्वान् अग्निम् आधत्त एतावद् वा अस्या अनभिमृतं यावद् वेदिः परिगृहीता ताम् उद्धत्याप उपसृज्याग्निम् आधत्ते यज्ञियाम् एवैनां मेध्यां कृत्वाधत्ते ऽग्नेर् वा इयं सृष्टाद् अबिभेद् अति मा धक्ष्यतीति यद् अप उपसृज्याग्निम् आधत्ते ऽस्या अनतिदाहायैषा वै प्रजापतेः सर्वता तनूर् यद् आपः सर्वत एनं प्रजाः सर्वतः पशवो ऽभि पुण्येन भवन्ति य एवं विद्वान् अप उपसृज्याग्निम् आधत्ते यावद् वै वराहस्य चषालं तावतीयम् अग्र आसीद् यद् वराहविहतम् उपास्याग्निम् आधत्त इमाम् एव तन् नापाराड् अस्या एनं मात्रायाम् अध्याधत्ते तस्माद् एषा वराहाय विम्रदत एष ह्य् अस्या मात्रां बिभर्ति देवपाणयो वै नामासुरा आसंस् ते देवगवीर् अपाजंस् ता अन्वगछंस् ता अभ्याजंस् तासां पयो ऽहीयत ते ऽब्रुवन् यद् वा आसां वरम् अभूत् तद् अहास्तेति तद् वराहो भूत्वासुरेभ्यो ऽधि देवान् आगछत् तस्माद् वराहं गावो ऽनुधावन्ति स्वं पयो जानानास् तद् यावत्प्रियम् एव पशूनां द्विपदां चतुष्पदां पयस् तावत्प्रियः पशूनां द्विपदां चतुष्पदां भवति य एवं विद्वान् वराहविहतम् उपास्याग्निम् आधत्त एतद् वा अस्या अनभिमृतं यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् अनभिमृते ऽध्याधत्ते रसो वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनं रसे ऽध्याधत्त ऊर्ग् वा एषो ऽस्या उदैषद् यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते ऽस्या एवैनम् ऊर्ज् अध्याधत्ते प्रजापतेर् वा एष स्तनो यद् वल्मीको यद् वल्मीकवपाम् उपकीर्याग्निम् आधत्ते प्रजापतिर् एवास्मै स्तनम् अपिदधात्य् अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतावद् वा अमुष्या इह यज्ञियं यद् ऊषा यद् ऊषान् उपकीर्याग्निम् आधत्ते ऽमुष्या एवैनं यज्ञिये ऽध्याधत्ते न वा अनूषरिहः पशवो रेतो दधत्ते यद् ऊषान् उपकीर्याग्निम् आधत्ते रेत एवैतद् दधाति पशूनां पुष्ट्यै प्रजात्यय् एष वा अग्निर् वैश्वानरो यद् असा आदित्यः स यद् इहासीत् तस्यैतद् भस्म यत् सिकता यत् सिकता उपकीर्याग्निम् आधत्ते स्व एवैनं योनौ स्वे भस्मन्न् आधत्ते शिथिरा वा इयम् अग्र आसीत् तां प्रजापतिः शर्कराभिर् अदृंहद् यञ् शर्करा उपकीर्याग्निम् आधत्त इमाम् एव तद् दृंहति धृत्यै तद् यथेमां प्रजापतिः शर्कराभिर् अदृंहद् एवम् अस्मिन् पशवो दृंहन्ते य एवं विद्वाञ् शर्करा उपकीर्याग्निम् आधत्त इन्द्रो वै वृत्राय वज्रं प्राहरत् तस्य या विप्रुषा आसंस् ताः शर्करा अभवन् यञ् शर्करा उपकीर्याग्निम् आधत्ते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तम् तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एव पुरीषीति वै गृहमेधिनम् आहुः पुरीषस्य खलु वा एतन् निरूपं यद् आखुकिरिर् यद् आखुकिरिम् उपकीर्याग्निम् आधत्ते पुरीषी गृहमेधी भवति

॥१.६.३॥

आधत्ते : फ़्न् म्२। एद् (म्१, ह्, ब्ब्): आधत्ते

अग्निं वै देवा विभाजं नाशक्नुवन् यत् प्राञ्चम् अहरन्त् सर्वः पुरो ऽभवद् यत् प्रत्यञ्चम् अहरन्त् सर्वः पश्चाभवत् तम् अश्वेन पूर्ववाहोदवहंस् तद् अश्वस्य पूर्ववाहः पूर्ववाट्त्वम् अग्नेर् वै विभक्त्या अश्वो ऽग्न्याधेये दीयते ऽविभक्तो वा एतस्याग्निर् अनाहितो यो ऽश्वम् अग्न्याधेये न ददात्य् अथ यो ऽश्वम् अग्न्याधेये ददाति विभक्त्यै विभाज्यैवैनम् आधत्ते स्तोमपुरोगवा वै देवा असुरान् अभ्यजयन्न् एष खलु स्तोमो यद् अश्वो यद् अश्वं पुरस्तान् नयन्त्य् अभिजित्वय् अभिजित्यैवैनम् आधत्ते प्रजापतेर् वै चक्षुर् अश्वयत् तस्य यः श्वयथा आसीत् सो ऽश्वो ऽभवद् यद् अश्वं पुरस्तान् नयन्ति यजमानायैव चक्षुर् दधाति न पराङ् अवसृज्यो यत् पराञ्चम् अवसृजेद् यजमानं चक्षुर् जह्याद् अन्धः स्यात् प्रत्यवगृह्याधेयो यजमानायैव चक्षुः प्रत्यवाग्रहीन् न पद आधेयो वास्तव्यं कुर्याद् रुद्रो ऽस्य पशून् अभिमानुकः स्यात् पार्श्वत इतो वेतो वाधेयो न वास्तव्यं करोत्य् अघातुको ऽस्य पशुपतिः पशून् भवति गायत्रीं वै देवा यज्ञम् अछ प्राहिण्वन् सा रिक्तागछत् तस्या अग्निस् तेजः प्रायछत् सो ऽजो ऽभवद् यद् अजम् अग्न्याधेये ददाति तेज एवावरुन्द्धे ऽग्नीधे देयो यज्ञमुखं वा अग्नीद् यज्ञमुखेनैव यज्ञमुखं समर्धयति धेनुं चानड्वाहं च ददाति तत् सर्वं वयो ऽवरुन्द्ध एतद् वै सर्वं वयो यद् धेनुश् चानड्वांश् चैतौ वै यज्ञस्य माता च पिता च यद् धेनुश् चानड्वांश् चाज्यं च पयश् च धेन्वाः पुरोडाशश् च चरुश् चानडुहस् तद् आहुः कामदुघां वा एषो ऽवरुन्द्धे यो ऽग्न्याधेये धेनुं चानड्वाहं च ददातीति तद् येषां पशूनां भूयिष्ठं पुष्टिं कामयेत तेषां दित्यौहीं वयसो दद्याद् दित्यवाहं च मुष्करं तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै वाग् वै सोमक्रयणी दित्यौही वयसः सोमक्रयणी यद् दित्यौहीं वयसो ददाति वाचम् एवावरुन्द्धे चारु वदति य एवं वेदोपबर्हणं सर्वसूत्रं देयं छन्दसां वा एतन् निरूपं यद् उपबर्हणं सर्वसूत्रं यद् उपबर्हणं सर्वसूत्रं ददाति छन्दांस्य् एवावरुन्द्धे पशवो वै छन्दांसि पशून् एवावरुन्द्धे ऽयज्ञियो वै अमेध्य आहनस्याज् जायते पुरुषक्षीरं धयति हिरण्यं ददात्य् आत्मानम् एव तेन पुनीते शतमानं भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति पूर्वयोर् हविषोर् द्वे त्रिंशन्माने देये उत्तरस्मिंश् चत्वारिंशन्मानं तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अजातो वै तावत् पुरुषो यावद् अग्निं नाधत्ते स तर्ह्य् एव जायते यर्ह्य् अग्निम् आधत्ते क्षौमे वसाना अग्निम् आदधीयातां ते अध्वर्यवे देये उल्बस्य वा एतन् निरूपं यत् क्षौमम् उल्बम् एवापलुम्पेते हिरण्यं सुवर्णम् उपास्याग्निर् आधेयो हिरण्यं वा अग्नेस् तेजः सतेजसम् एवैनम् आधत्ते तन् न निरस्तवै यथानुहितं निरस्येद् एवं तद् यन् निरस्येद् अनुध्यायी क्षोधुकः स्यात् तन् न निरस्तवय् अननुध्याय्य् अक्षोधुको भवति

॥१.६.४॥

करोति : फ़्न् ह्, ब्ब्। एद् (म्१, म्२): करोति। च्फ़्। १।६।४:९२।८

यो वा अस्यायं मनुष्यो ऽग्निर् एतम् उपासीनो ऽन्नम् अत्त्य् एतम् उपासीनः प्रजां विन्दत एतम् उपासीनं पशवा उपतिष्ठन्ते यद् एतम् अभागधेयम् उत्सादयेत तस्मा आवृश्चेतानुध्यायी क्षोधुकः स्यात् तद् ये वनस्पतय आरण्या आद्यं फलं भूयिष्ठं पच्यन्ते तस्य पर्णाभ्यां यवमयश् चापूपो व्रीहिमयश् च सङ्गृह्योपास्याधेयस् तद् एनं द्वयं भागधेयम् अभ्युत्सादयाम् अकर् ग्राम्यं चारण्यं च तेन तस्मै नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति यवो वै पूर्व ऋतुमुखे पच्यत इतः खलु वा एतं प्राञ्चम् उद्धरन्ति तस्माद् यवमयः पश्चोपास्यो व्रीहिमयः पुरस् तद् यस्येर्त्सेद् यवमयम् एव तस्य पश्चोपास्येद् व्रीहिमयं पुरः प्रजापतेर् वा एतौ स्तनौ यज्ञम् अस्य देवा उपजीवन्ति वर्षं मनुष्या अन्नाद्यम् अस्मा अवरुन्द्धे ऽक्षुध्यतां स्वानां पुरःस्थाता भवति य एवं वेदैतद् ध स्म वा आह केशी सात्यकामिः केशिनं दार्भ्यम् अन्नादं जनतायय् एवम् इव वयम् एतस्मा अग्न्याधेये ऽन्नम् अवारुध्म यथैषो ऽन्नम् अत्ति तद् आहुः सर्वं वावैतस्येदम् अन्नं यजमानं त्व् एवास्यैतद् आसन्न् अपिदधाति तद् एवं वेदितोर् न त्व् एवं कर्तवा इति त्रिर् वा इदं प्रजापतिः सत्यं व्याहरत् ॥

मनुष्यो : फ़्न् एमेन्देद्। एद्।: मनुषो

अत्ति : फ़्न् एमेन्देद्। एद्।: उपासीतोन्नमति। म्२: उपासीनोन्न- । म्१: उपासीनोन्न-। ब्ब्: उपासीतोन्न-। अमनो, प्।२२३, न्।४७७

भूर् भुवः स्वः ॥ इतीदं वाव भूर् इदं भुवो ऽदः स्वस् तद् यो ब्राह्मण आङ्गिरसः स्यात् तस्यादध्याद् भूर् भुवो ऽङ्गिरसां त्वा देवानां व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ यो ब्राह्मणो वैश्वानरः स्यात् तस्यादध्याद् भूर् भुवो ऽग्नेष् ट्वा देवस्य व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् अथ राजन्यस्यादध्याद् भूर् भुव इन्द्रस्य त्वा मरुत्वतो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ऐन्द्रो वै राजन्यो देवतया मारुती विड् विशा खलु वै राजन्यो भद्रो भवति विशम् अस्मा अवरुन्द्धे ऽथ वैश्यस्यादध्याद् भूर् भुवो मनोष् ट्वा ग्रामण्यो व्रतेनादधा इति पश्चा भुवः स्वर् इति पुरो द्विः पश्चा द्विः पुरस् तद् द्वेधा यज्ञः सत्ये प्रत्यष्ठाद् द्वेधा यज्ञपतिर् ग्रामणीथ्येन खलु वै वैश्यो भद्रो भवति ग्रामणीथ्यम् अस्मा अवरुन्द्धे ऽग्निर् वै सृष्ट उल्बम् अपलुम्पं नाशक्नोत् तस्य प्रजापतिर् आग्नेयपावमानीभिर् उल्बम् अपालुम्पद् यद् आग्नेयपावमानीभिर् आश्वत्थीः समिध आदधात्य् उल्बम् एवास्यापलुम्पति पुनात्य् एनं यथा शिशुं माता रेढि वत्सं वा गौर् एवम् एनं रेढ्य् अग्नेर् वै सृष्टस्य तेजा उददीप्यत तद् अश्वत्थं प्राविशद् यद् आश्वत्थीः समिध आदधाति तेज एवावरुन्द्धे ऽग्निर् वै सृष्टो बिबिबाभवन्न् अतिष्ठद् असमिध्यमानः स प्रजापतिर् अबिभेन् मां वावायं हिंसिष्यतीति तं शम्या समैन्धत् तम् अशमयत् तञ् शम्याः शमीत्वं यञ् छमीमयीः समिध आदधाति सम् एनम् इन्द्धे शमयत्य् एव स शं यजमानाय भवति शं पशुभ्यो देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बरीं समिधम् आदधात्य् ऊर्जम् एवावरुन्द्धे

॥१.६.५॥

विप्रियो वा एष पशुभिर् आधीयत एष हि रुद्रो यद् अग्निस् तद् वाचयेद् घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असीति तद् एनं सम्प्रियं पशुभिः पुरीषिणम् अकर् यत् ते शुक्र शुक्रं ज्योतिस् तेन रुचा रुचम् अशीथा इति रुचम् एवैनम् अजीगमद् एष वा अग्निर् वैश्वानरो यद् असा आदित्यो यद् उत्तरतो हरेद् एषो ऽतः स्याद् अयम् इतो जीवन्तम् एवैनं प्रदहेत् स दक्षिणत एव हार्यः स यदा समयाध्वं गछेद् अथ यजमानो वरं दद्यात् तद् विराजं मध्यतो ऽधित विराड् एवास्याग्नीन् विदधते पशवो वै विराट् पशून् वा एतन् मध्यतो ऽधितासृष्टो वा अग्निर् आसीद् अथ प्रजापतिः प्रजा असृजत ता अन्धे तमसीमांल् लोकान् अनुव्यनश्यन् सो ऽशोचत् सो ऽतप्यत ततो ऽग्निर् असृज्यत तम् अग्निं सृष्टम् अधो व्यदधात् तं या अस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं कुल्फदघ्नम् उदगृह्णात् तं या उत्तरस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं जानुदघ्नं तं नाभिदघ्नं तम् अंसदघ्नं तं कर्णदघ्नम् उदगृह्णात् तं या उत्तरस्मिंल् लोक आसंस् ता अभिसमावर्तन्त तं कर्णदघ्नं नात्युद्गृह्यो यत् कर्णदघ्नम् अत्युद्गृह्णीयाद् यजमानो वर्षिष्ठः पशूनां यजमानम् उपरिष्टाद् अग्निर् अभ्यवदहेत् तद् आहुः कथम् अद्यैतम् ब्रह्मणाहितं प्रच्यावयेयुः शिथिरं वावैनम् एतद् अकः परैनं वपतीति तम् अनिधायैवाथ जानुदघ्नम् उद्गृह्णीयाद् अथ नाभिदघ्नम् अथांसदघ्नं तद् यथैव प्रजापतिं प्रजा एभ्यो लोकेभ्यो ऽभिसमावर्तन्तैवम् एव यजमानं पशव एभ्यो लोकेभ्यो ऽभिसमावर्तन्ते य एवं विद्वान् अग्निम् आधत्ते ऽग्निना वै देवतया विष्णुना यज्ञेन देवा असुरान् प्रव्लीय वज्रेणान्ववासृजन् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् तस्य रथचक्रं त्रिर् अनुपरिवर्तयेयुस् तद् यथैव देवा असुरान् अग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववासृजन्न् एवम् एव यजमानः सपत्नं भ्रातृव्यम् अग्निना देवतया विष्णुना यज्ञेन प्रव्लीय वज्रेणान्ववसृजति य एवं विद्वान् अग्निम् आधत्ते

॥१.६.६॥

एष वै प्रजापती रूपेण यत् पूर्णा स्रुग् यत् पूर्णां स्रुचं जुहोति प्रजापतिम् एवाप्नोति सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् एतावतीर् वा अग्नेस् तन्वः षोढा सप्तसप्त यो वा अस्यैता अग्निम् आदधानो वितर्षयति वि ह तृष्यति ता एवास्य तर्पयति शमीमयीस् तिस्रः समिधा आदधाति घृतान्वक्ता घृतस्तोम्याभिः सम् एनम् इन्द्धे शमयत्य् एव स शं यजमानाय भवति सं पशुभ्यो ये वा एषु त्रिषु लोकेष्व् अग्नयस् ते समागच्छन्त्य् अस्य द्रविणम् आददामहे ऽति नो ऽक्रमीद् धव्यवाड् भवतीति तज् जुहुयात् ॥

आददामहे : फ़्न् आददामहै इस् अल्सो पोस्सिब्ले

ये अग्नयो दिवो ये पृथिव्याः समागछन्तीषम् ऊर्जं वसानाः ।

ते अस्मा अग्नये द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परेत ॥ स्वाहेति तद् इमम् एव द्रविणवन्तं कृत्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनर् अस्तं परायन्ति तद् वाचयेद् घर्मः शिरस् तद् अयम् अग्निः सम्प्रियः पशुभिर् भव पुरीषम् असीति तद् एनं सम्प्रियं पशुभिः पुरीषिणम् अकर् यत् ते शुक्र शुक्रं ज्योतिः शुक्रं धामाजस्रं तेन त्वादधा इति सतेजसम् एवैनम् आधत्ते ॥

इडायास् त्वा पदे वयं नाभा पृथिव्या अधि ।

जातवेदो निधीमह्य् अग्ने हव्याय वोढवे ॥

इति हव्यावाहम् एवैनम् अकर् अग्नेर् वै सृष्टस्य पशवो ऽक्ष्या अवक्शाय प्रापतन् स प्रजापतिर् वारवन्तीयम् असृजत तान् अवारयतैतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् यथैतस्मात् सृष्टात् पशवः प्रापतन्न् एवम् अस्माद् आहितात्पशवः प्रपतन्त्य् एष हि रुद्रो यद् अग्निस् तद् य एवं विद्वान् वारवन्तीयं गायते पशून् एव वारयते वारवन्तीयं वै सृष्ट्वा प्रजापतिर् यं कामम् अकामयत तम् आर्ध्नोत् तम् एव कामम् ऋध्नोति यजमानो यं कामं कमयमानो ऽग्निम् आधत्ते य एवं विद्वान् वारवन्तीयं गायते ऽग्निर् वै क्रव्याद् विश्वदाव्य इमांल् लोकान् अदहत् तं प्रजापतिर् वारवन्तीयं गायमानो वरणं बिभ्रत् प्रत्यैत् तम् अशमयद् यद् एवास्य क्रव्याद् यद् विश्वदाव्यं तञ् शमयति य एवं विद्वान् वारवन्तीयं गायते तस्माद् वरणो यज्ञावचरः स्यान् न त्व् एनेन जुहुयाद् यद् वा इदं सद् यद् भूतं यद् भवद् यद् भविष्यद् यद् इमे अन्तरा द्यावापृथिवी तद् वामदेव्यं तद् एवावरुन्द्धे य एवं विद्वान् वामदेव्यं गायते ब्रह्मणो वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति

॥१.६.७॥

अग्निं वै सृष्टं प्रजापतिः पवमानेनाग्रा उपाधमद् यत् पवमानाय निर्वपत्य् उपैवैनं तद् धमति यत् पावकाय पुनात्य् एनं यञ् शुचये यद् एवास्यापूतं तद् एतेन पुनाति यत् पवमानाय निर्वपति पशवो वै पवंअनः पशून् एवावरुन्द्धे यत् पावकायान्नं वै पावकम् अन्नम् एवावरुन्द्धे यञ् शुचये पूत एवास्मिन् रुचं दधाति यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यैकमेकं हवींसि निर्वपेत् तद् एनम् अपाग्रहीत् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य सर्वाणि साकं हवींषि निर्वपेत् तद् एनं संरुणद्धि तेन स न वसीयान् न पापीयान् भवत्य् अथ यं कामयेद् उत्तरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याग्नये पवमानाय निरुप्याथ पावकाय च शुचये चोत्तरे हविषी समानबर्हिषि निर्वपेत् तद् एनम् उदग्रहीत् तेन स उत्तरं वसीयाञ् श्रेयान् भवत्य् अथ यस्य त्रिष्टुभौ वानुष्टुभौ वा जगती वा संयाज्ये स्याताम् अति गायत्रं क्रामेद् अर्वाक् छन्दोभ्यो ऽवपद्येत तद् यस्येर्त्सेद् गायत्र्या एव तस्य संयाज्ये कुर्याद् गायत्रो ह्य् अग्निर् गायत्रछन्दाः स्व एवैनं योनौ स्वे छन्दसि प्रतिष्ठापयत्य् आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध विष्णवे शिपिविष्टाय त्र्युद्धौ घृते चरुं निर्वपेद् यद् विष्णवे विष्णुर् वै यज्ञो यज्ञम् एवालब्ध यञ् शिपिविष्टं पशवो वै शिपिविष्टं पशून् एवावरुन्द्धे यत् त्र्युद्धौ त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति यद् घृते तेजो वै घृतं तेज एवावरुन्द्ध आदित्यं घृते चरुं निर्वपेत् पशुकामो धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यय् अग्नीषोमीयं पुरोडाशं द्वितीयम् अनुनिर्वपेत् तद् भूयो हव्यम् उपागान् नो अस्यान्य ईशे यर्हि वा एतं पुरा ब्राह्मणा निरवपंस् तर्ह्य् एषां न कश् चनैश न हि वा एतम् इदानीं निर्वपन्त्य् अथैषां सर्व ईशे यद् आग्नेयस् तेजो वा अग्निस् तेज एवावरुन्द्धे यत् सौम्यः सोमो वै शुक्रो ब्रह्मवर्चसं ब्रह्मवर्चसम् एवावरुन्द्धे तद् यो ऽसा आदित्यो घृते चरुस् तं ब्रह्मणे परिहरेयुस् तं चत्वारः प्राश्नीयुस् तेभ्यः समानो वरो देयश् चतुर् वा इदम् अग्रे मिथुनम् औद्यतैकश् चैका च द्वौ च द्वे च त्रयश् च तिस्रश् च चत्वारश् च चतस्रश् च तन् मिथुनं पशूनां पुष्ट्यै प्रजात्यै

॥१.६.८॥

फल्गुनीपूर्णमासे ब्राह्मणस्यादध्यात् फल्गुनीपूर्णमासो वा ऋतूनां मुखम् अग्निर् देवतानां ब्राह्मणो मनुष्याणां ग्रीष्मे राजन्यस्यादध्याद् ग्रीष्मे वा इन्द्रो वृत्रम् अहन् वृत्रं खलु वै राजन्यो बुभूषन् जिघांसति शरदि वैश्यस्यादध्याद् अन्नं वै शरद् अन्नेन वैश्यो भद्रो भवत्य् अन्नाद्यम् अस्मा अवरुन्द्धे यद्य् अन्यस्मिन्न् ऋता आदधीत यदि वा अस्मै स एक ऋतुः शिवः स्याद् अथास्मा इतरे ऽशिवा दुर्योणा भवेयुस् तद् यस्येर्त्सेत् फल्गुनीपूर्णमास एव तस्यादध्यात् तद् अस्मै सर्व ऋतवः शिवा भवन्ति सर्व एनम् ऋतवो जिन्वन्ति संवत्सरस्य वा एतद् आस्यं यत् फल्गुनीपूर्णमास्यम् अहर् यत् फल्गुनीपूर्णमास्यम् अहर् आदध्यात् संवत्सरस्यैनम् आसन्न् अपिदध्याद् द्व्यहे वा पुरैकाहे वाधेयस् तद् द्वितीयस्य ऋतोर् अभिगृह्णाति नैनं संवत्सरस्यासन्न् अपिदधाति तद् यद् द्वितीयस्य ऋतोर् अभिगृह्णाति द्वितीयम् एव सपत्नस्य भ्रातृव्यस्येन्द्रियं पशून् क्षेत्रं वृञ्जान एति कृत्तिकासु ब्राह्मणस्यादध्याद् आग्नेयीः कृत्तिका आग्नेयो ब्राह्मणः स्व एवैनं योनौ स्वे ऽहन्न् आधत्ते प्रजापतेर् वा एतञ् शिरो यत् कृत्तिका अग्निर् आस्यं शीर्ष्णान्नम् अद्यते ऽन्नाद्यम् अस्मा अवरुन्द्धे सप्त कृत्तिकाः सप्त शीर्षन् प्राणाः प्राणान् अस्मिन् दधाति रोहिण्यां पशुकामस्यादध्यात् सोमस्य वा एतन् नक्षत्रं यद् रोहिणी सोमो रेतोधा रेतो ऽस्मिन् दधात्य् ऋक्षा वा इयम् अग्र आसीत् तस्यां देवा रोहिण्यां वीरुधो ऽरोहयंस् तद् यथेमा अस्यां वीरुधो रूढा एवम् अस्मिन् पशवो रोहन्ति य एवं विद्वान् रोहिण्याम् अग्निम् आधत्ते रोहिण्यां स्वर्गकामस्यादध्याद् रोहिण्यां वै देवाः स्वर् आयन् स्वर् एवैति कालकाञ्जा वा असुरा इष्टका अचिन्वत दिवम् आरोक्ष्यामा इति तान् इन्द्रो ब्राह्मणो ब्रुवाण उपैत् स एताम् इष्टकाम् अप्य् उपाधत्त प्रथमा इव दिवम् आक्रमन्ताथ स ताम् आबृहत् ते ऽसुराः पापीयांसो भवन्तो ऽपाभ्रंशन्त या उत्तमा आस्तां तौ यमश्वा अभवतां ये ऽधरे त ऊर्णावाभयो यां ताम् इष्टकाम् आबृहत् सा चित्राभवद् यः सपत्नवान् भ्रातृव्यवान् वा स्यात् स चित्रायाम् अग्निम् आदधीत तद् यथैतस्याम् आवृढायाम् असुराः पापीयांसो भवन्तो ऽपाभ्रंशन्तैवम् अस्य सपत्नो भ्रातृव्यः पापीयान् भवन्न् अपभ्रंशते य एवं विद्वांश् चित्रायाम् अग्निम् आधत्ते यः कामयेत भग्य् अन्नादः स्याम् इति स पूर्वासु फल्गुनीष्व् अग्निम् आदधीत भगस्य वा एतद् अहर् यत् पूर्वाः फल्गुनीर् भग्य् अन्नादो भवत्य् अथ यः कामयेत दनकामा मे प्रजाः स्युर् इति स उत्तरासु फल्गुनीष्व् अग्निम् आदधीतार्यम्णो वा एतद् अहर् यद् उत्तराः फल्गुनीर् दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति तासु राजन्यस्यादध्याद् दानं ह्य् एष प्रजानाम् उपजीवति दानम् अर्यमा दानकामा अस्मै प्रजा भवन्ति प्रजापतेर् वा एतौ स्तनौ यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्ते प्रजापतिम् एव प्रत्तं दुहे देवानां वा एते सदोहविर्धाने यत् पौर्णमासी चामावास्या च यत् पौर्णमास्यां वामावास्यायां वाग्निम् आधत्त उभे पुण्याहे उभे यज्ञिये

॥१.६.९॥

न पुरा सूर्यस्योदेतोर् मन्थितवय् असुर्यो विदेवा आधीयत उद्यत्सु रश्मिषु मथ्यस् तत् सदेवः सेन्द्र उभयोर् अह्नो रूप आधीयते चतुर्विंशत्यां प्रक्रमेष्व् आधेयश् चतुर्विंशत्यक्षरा वै गायत्री गायत्रम् अग्नेश् छन्दः स्व एवैनं योनौ स्वे छन्दस्य् आधत्ते तद् यस्येर्त्सेद् अपरिमित एव तस्यादध्यात् क्षेष्णु वै परिमितम् अपरिमितम् एवास्मै जीवनम् अवरुन्द्धे अग्निर् वै सृष्टः प्रजापतेर् अध्य् उदक्रामत् स प्रजापतिर् अबिभेद् अद एवासा अभूद् इदम् अहम् इति तस्मिन्न् अनुनिष्क्रम्याजुहोद् एतर्हि खलु वा एष सृज्यते यर्ह्य् आधीयते तद् आहुर् अम्ण एवानुद्रुत्याथाग्निहोत्रं होतव्यम् इति तन् नैवं कर्तवय् अयतं तत् कुण्ड्याग्रीयं तद् यज्ञस्य क्रियते यद् योनेः परम् अवरं कुर्याद् अप्रजनिष्णुः स्याद् धवींष्य् एव पूर्वाणि निरुप्याथ सायम् अग्निहोत्रं जुहुयात् ॥

अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति तत् सायं ज्योतिषा रेतो मध्यतो दधाति ॥

सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा ॥ इति प्रातस् ॥

तत् सायं ज्योतिषा रेतो मध्यतो हितं ॥ प्रातः प्रजनयाम् अकर् देवाश् च वा असुराश् च संयत्ता आसन्न् अथेन्द्रो ऽग्निम् आधत्त ते देवा अबिभयुर् अद एवासा अग्निं गोपायमानो ऽग्निहोत्रं गोपायमानो भविष्यति न ना उपैष्यत्य् अभि नो जेष्यन्तीति ते ऽब्रुवन् यद् एव त्वं किञ्च करवो यद् धना यज् जिना यद् विन्दासै तत् ते ऽग्निहोत्रं कुर्मो ऽथेहीति स वा ऐत् तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यं यद् ध्य् एवैष किञ्च करोति यद् धन्ति यज् जिनाति यद् विन्दते यद् एनं विश उपतिष्ठन्ते तद् राजन्यस्याग्निहोत्रं होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्ते यद् धुत्वा न जुहुयाद् वि यज्ञं छिन्द्याज् जीयेत वा प्र वा मीयेत पौर्णमासीम् अमावास्यां वा प्रति होतव्यम् अथो अग्न्युपस्थानं वा चयितव्यस् तेनास्य दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः

॥१.६.१०॥

यं कामयेत पशुमान्त् स्याद् इति यो बहुपुष्टस् तस्य गृहाद् अग्निम् आहरेयुर् यथा वा एतं सृज्यमानं पशवो ऽन्वसृज्यन्तैवम् एनम् आह्रियमाणं पशवो ऽन्वायन्त्य् एष हि रुद्रो यद् अग्निर् अथ यं कामयेतान्नादः स्याद् इति तस्य भ्रष्ट्राद् दक्षिणाग्निम् आहरेयुर् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे तद् आहुर् यथा वृषलो निजः पुक्लकश् चिकित्सेद् एवं स इति स मथ्य एव स शं यजमानाय भवति शं पशुभ्यो यः सोमेनायक्ष्यमाणो ऽग्निम् आदधीत न पुरा संवत्सराद् धवींषि निर्वपेद् रुद्रो ऽस्य पशून् अभिमानुकः स्याद् एते वै पशवो यद् व्रीहयश् च यवाश् च तेषां चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेत् तद् याभ्यो देवताभ्यो ऽग्निम् आधत्ते यत् ताभ्यो न जुहुयात् ताभ्या आवृश्चेतानुध्यायी क्षोधुकः स्यात् ताभ्या आज्यस्य होतव्यं तेन ताभ्यो नावृश्चते ऽननुध्याय्य् अक्षोधुको भवति संवत्सरे हवींषि निर्वपति तद् अस्य संवत्सरान्तर्हितो रुद्रः पशून् न हिनस्ति संवत्सरम् अग्निहोत्रम् अहौषीत् तत् तपो ऽविदत् स सर्वेण साकं स्वर्गं लोकं समारुक्षत् त्रिर् वा इदं विराड् व्यक्रमत गार्हपत्यम् आहवनीयं सभ्यं तद् विराजम् आपद् अन्नं वै विराड् अन्नं वावैतद् आपन् मध्याधिदेवने राजन्यस्य जुहुयाद् वारुण्य ऋचा वरुणो वै देवानां राजा राज्यम् अस्मा अवरुन्द्धे हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाच् छतम् अस्मा अक्षान् प्रयच्छेत् तान् विचिनुयाच् छतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति गाम् अस्य तद् अहः सभायां दीव्येयुस् तस्याः परूंषि न हिंस्युस् तां सभासद्भ्या उपहरेत् तया यद् गृह्णीयात् तद् ब्राह्मणेभ्यो देयं तत् सभ्यम् अन्नम् अवरुन्द्धे

॥१.६.११॥

यस्या रात्र्याः प्रातर् अग्निम् आधास्यमानः स्यात् तां रात्रीं चतुःशरावम् ओदनं पक्त्वा ब्राह्मणेभ्यो जीवतण्डुलम् इवोपहरेद् अदितिर् वै प्रजाकामौदनम् अपचत् सोञ्शिष्टम् आश्नात् तस्या धाता चार्यमा चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या मित्रश् च वरुणश् चाजायेतां सापरम् अपचत् सोञ्शिष्टम् आश्नात् तस्या अंशश् च भगश् चाजायेतां सापरम् अपचत् सैक्षतोञ्शिष्टं मे ऽश्नत्या द्वौद्वौ जायेते इतो नूनं मे श्रेयः स्याद् यत् पुरस्ताद् अश्नीयाम् इति सा पुरस्ताद् अशित्वोपाहरत् ता अन्तर् एव गर्भः सन्ता अवदताम् आवम् इदं भविष्यावो यद् आदित्या इति तयोर् आदित्या निर्हन्तारम् ऐछंस् ता अंशश् च भगश् च निरहतां तस्माद् एतौ यज्ञेन यजन्ते ऽंशप्रासो ऽंशस्य भागधेयं जनं भगो ऽगछत् तस्माद् आहुर् जनो गन्तव्यस् तत्र भगेन सङ्गछता इति स वा इन्द्र ऊर्ध्व एव प्राणमं उदश्रयत मृतम् इतरम् आण्डम् अवापद्यत स वाव मार्ताण्डो यस्येमे मनुष्याः प्रजा सा वा अदितिर् आदित्यान् उपाधावद् अस्त्व् एव म इदं मा म इदं मोघे परापप्तद् इति ते ऽब्रुवन्न् अथैषो ऽस्माकम् एव ब्रवातै न नो ऽतिमन्याता इति स वाव विवस्वान् आदित्यो यस्य मनुश् च वैवस्वतो यमश् च मनुर् एवास्मिंल् लोके यमो ऽमुष्मिन्न् एते वै देवयानान् पथो गोपायन्ति यद् आदित्यास् त इयक्षमाणं प्रतिनुदन्ते यो वा एतेभ्यो ऽप्रोच्याग्निम् आधत्ते तम् एते स्वर्गाल् लोकात् प्रतिनुदन्त उञ्शिष्टभागा वा आदित्या यद् उञ्शिष्टे विवर्तयित्वा समिध आदधाति तद् आदित्येभ्यो ऽग्न्याधेयं प्राह नैनं स्वर्गाल् लोकात् प्रतिनुदन्ते संवत्सरम् उत्सृजेताग्निम् आधास्यमानो नास्याग्निं गृहाद् धरेयुर् नान्यता आहरेयुः संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते द्वादश रात्रीर् उत्सृजेत द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरे वृद्धा गर्भाः प्रजायन्ते प्रजातम् एनं वृद्धम् आधत्ते तिस्र उत्सृजेत त्रयो वा इमे लोका इमान् एव लोकान् आप्नोत्य् एकाम् उत्सृजेतैको वै प्रजापतिः प्रजापतिम् एवाप्नोति पुरूरवा वा ऐड उर्वशीम् अविन्दत देवीं तस्या आयुर् अजायत स देवान्त् स्वर्गं लोकं यत्तो ऽनूदैत् ते ऽब्रुवंस् तद् वयं देवा इमः क्वायं मनुष्यो गमिष्यतीति सो ऽब्रवीद् बहवो वै मे समानास् ते मा वक्ष्यन्ति किम् अयं देव्याः पुत्रो देवेभ्यो मातुर्भ्रात्रेभ्या आहार्षीद् अस्त्व् एव मे किञ्चिद् इति तस्मा अग्निर् यज्ञियां तन्वं प्रायछत् ताम् उत्सङ्गे ऽवधायाहरत् ताम् उखायाम् अवादधात् सो ऽश्वत्थ आरोहो ऽभवद् योखा सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ ह्य् अग्निर् वै वरुणं ब्रह्मचर्यम् आगछत् प्रवसन्तं तस्य जायां समभवत् तं पुरस्ताद् आयन्तं प्रतिक्शाय प्रत्यङ् निरद्रवत् सो ऽवेत् सर्वं वा इन्द्रियं नृम्णं रेतो निर्लुप्य हरतीति तद् अनुपराहाय निरलुम्पद् यद् रेता आसीत् सो ऽश्वत्थ आरोहो ऽभवद् यद् उल्बं सा शमी तस्माद् एतौ यज्ञावचरौ पुण्यजन्मानौ हि प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत सो ऽश्वो भूत्वा संवत्सरं न्यङ् भूम्यां शिरः प्रतिनिधायातिष्ठत् तस्याश्वत्थो मूर्ध्न उदभिनत् तद् अश्वत्थस्याश्वत्थत्वं तस्माद् एष यज्ञावचरः प्राजापत्यो हि

॥१.६.१२॥

प्राणमं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: प्राणमान्।

मातुर्भ्रात्रेभ्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

मनुर् वै प्रजाकामो ऽग्निम् आधास्यमानो देवतायैदेवताया अजुहोत् ततो मित्रावरुणयोर् आहुत्या प्रफर्व्य् उदतिष्ठत् तस्या घृतं पदोर् अक्षरत् सा मित्रावरुणा ऐत् ता अब्रूताम् आहुत्या वै त्वम् आवयोर् अजनिष्ठा मनोस् त्वै त्वम् असि तं परेहीति सा मनुम् ऐत् सो ऽब्रवीद् असुरा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् ते ऽमुम् अग्रा आदधताथेमम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् अमुम् एवाग्रा आधिषताथेमम् अथेमम् इति सो ऽब्रवीत् सकृद् वावासुराः श्रियो ऽन्तम् अगुः परा तु भविष्यन्तीति सो ऽब्रवीद् देवा वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथामुम् अथेमं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथामुम् अथेमम् इति सो ऽब्रवीत् सकृद् वाव देवाः सर्वेण साकं स्वर्गं लोकं समारुक्षन्न् इतःप्रदानात् तु यज्ञम् उपजीविष्यन्तीति यः सर्ववेदसं दास्यन्त् स्यात् स इमम् अग्रा आदधीताथामुम् अथेमं तद् यथैव देवाः सर्वेण साकं स्वर्गं लोकं समारोहन्न् एवम् एव यजमानः सर्वेण साकं स्वर्गं लोकं समारोहति य एवं विद्वान् अग्निम् आधत्ते सो ऽब्रवीद् ऋषयो वा इमे पुण्यमन्या अग्निम् आदधते तान् परेहीति सा परैत् त इमम् अग्रा आदधताथेमम् अथामुं सा पुनर् ऐत् ताम् अपृछत् किम् अभ्यगन्न् इति साब्रवीद् इमम् एवाग्रा आधिषताथेमम् अथामुम् इति सो ऽब्रवीद् अहं वावाग्न्याधेयं विदाञ्चकार सर्वेषु वा एषु लोकेष्व् ऋषयः प्रत्यष्ठुर् इति प्रति प्रजया च पशुभिश् च तिष्ठति य एवं विद्वान् अग्निम् आधत्ते यद् अमुम् आधायेमम् आदध्याद् अप तद् आदध्याद् यद् वावेमम् आधायामुम् आदध्याद् अप तद् आदध्यात् तद् इमम् एवाधायाथेमम् अथामुं तथा समृद्धा आधीयते प्राचीनप्रवण आधेयस् तथा समृद्धा आधीयते प्राचीनं मध्यमाद् वंशाद् आधेयस् तथा समृद्धा आधीयते या वै सा प्रफर्व्य् आसीत् सा गौर् अभवत् सेडा सा मानवी घृतपदी मैत्रावरुणी

॥१.६.१३॥