skipLink.label

प्रथम काण्ड, प्रपाठक 5

प्रथम काण्ड, प्रपाठक 5

प्रथमकाण्डे पञ्चमः प्रपाठकः

प्रथमकाण्डे पञ्चमः प्रपाठकः

मा मा तितीर्षन् तारीत्

॥१.५.१॥

त्वम् अग्ने सूर्यवर्चा असि सं माम् आयुषा वर्चसा सृज सं त्वम् अग्ने सूर्यस्य ज्योतिषागथाः ॥

सम् ऋषीणां स्तुतेन सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीय ॥

इन्धानास् त्वा शतं हिमा द्युमन्तः समिधीमहि ।

वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।

अग्ने सपत्नदम्भनं सुवीरासो अदाभ्यम् ॥

अग्नेः समिद् अस्य् अभिशस्त्या मा पाहि सोमस्य समिद् असि परस्पा म एधि यमस्य समिद् असि मृत्योर् मा पाह्य् आयुर्धा अग्ने ऽस्य् आयुर् मे धेहि वर्चोधा अग्ने ऽसि वर्चो मे धेहि चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहि तनूपा अग्ने ऽसि तन्वं मे पाहि यन् मे अग्न ऊनं तन्वस् तन् मा आपृणाग्ने यत् ते तपस् तेन तं प्रतितप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते शोचिस् तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते अर्चिस् तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते हरस् तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने यत् ते तेजस् तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धाश् चित्रावसो स्वस्ति ते पारम् अशीयार्वाग्वसो स्वस्ति ते पारम् अशीयाम्भः स्थाम्भो वो भक्षीय महः स्थ महो वो भक्षीयोर्जः स्थोर्जं वो भक्षीय रायस्पोषः स्थ रायस्पोषं वो भक्षीय ॥

रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठे ऽयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्ट ॥

संहितासि विश्वरूपा मोर्जा विशा गौपत्येना प्रजया रायस्पोषेण ॥

मयि वो रायः श्रयन्तां सहस्रपोषं वो ऽशीय

॥१.५.२॥

उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् ।

नमो भरन्त एमसि ॥

राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् ।

वर्धमानं स्वे दमे ॥

स नः पितेव सूनवे ऽग्ने सूपायनो भव ।

सचस्वा नः स्वतये ॥

अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ।

तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥

वसुर् अग्निर् वसुश्रवा अछा नक्षि द्युतत्तमं रयिं दाः ।

स नो बोधि श्रुधी हवम् उरुष्या नो अघायतः समस्मात् ॥

अभ्यस्थां विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह ।

बृहस्पतिः सवितेन्द्रस् तद् आह पूषा ना आधात् सुकृतस्य लोके ॥

ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।

रय्या वः पश्यामि रय्या मा पश्यत ॥

सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।

सर्वा भवन्तु नो गृहे ॥

इडाः स्थ मधुकृतः स्योना माविशतेरम्मदः ।

सहस्रपोषं वो ऽशीय ॥

भुवनम् असि सहस्रपोषपुषि तस्य नो रास्व तस्य ते भक्तिवानो भूयास्मेडासि व्रतभृत् त्वयि व्रतं व्रतभृद् असि

॥१.५.३॥

महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः ।

दुराधर्षं वरुणस्य ॥

नहि तेषाम् अमा सतां नाध्वसु वारणेषु च ।

ईशे रिपुर् अघशंसः ॥

ते हि पुत्रासो अदितेश् छर्दिर् यछन्त्य् अजस्रम् ।

प्र दाशुषे वार्याणि ॥

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।

कक्षीवन्तं य औशिजः ॥

यो रेवान् यो अमीवहा वसुवित् पुष्टिवर्धनः ।

स नः सिषक्तु यः शिवः ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।

द्युम्नं चित्रश्रवस्तमम् ॥

कदा चन स्तरीर् असि कदा चन प्रयुछसि ॥

परि ते दूडभो रथो ऽस्मं अश्नोतु विश्वतः ।

येन रक्षसि दाशुषः ॥

निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मो ऽभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

पूषा मा पथिपाः पातु पूषा मा पशुपाः पातु पूषा माधिपाः पातु प्राची दिग् अग्निर् देवता यो मैतस्या दिशो अभिदासाद् अग्निं सा ऋछतु दक्सिणा दिग् इन्द्रो देवता यो मैतस्या दिशो अभिदासाद् इन्द्रं सा ऋछतु प्रतीची दिङ् मरुतो देवता यो मैतस्या दिशो अभिदासान् मरुतः सा ऋछतूदीची दिङ् मित्रावरुणौ देवता यो मैतस्या दिशो अभिदासान् मित्रावरुणौ सा ऋछतूर्ध्वा दिक् सोमो देवता यो मैतस्या दिशो अभिदासात् सोमं सा ऋछतु धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक उरुकस्य ते वाचा वयं सं भक्तेन गमेमह्य् अग्ने गृहपते

॥१.५.४॥

यस्य वा अग्निहोत्रे स्तोमो युज्यते स्वर्गम् अस्मै भवति अयज्ञो वा एष यत्र स्तोमो न युज्यत उपप्रयन्तो अध्वरम् इतीयं वा उपोतिर् इत एव सोमं युनक्त्य् अथो इमाम् एव स्तोमम् उपयुनक्त्य् अथो या एव प्रजा भूता नामन्वतीस् ता एव स्तोमम् उपयुनक्त्य् अस्य प्रत्नाम् अनु द्युतम् इत्य् असौ वै लोकः प्रत्नम् अमुत एव स्तोमं युनक्त्य् अथो देवा वै प्रत्नं तान् एव स्तोमम् उपयुनक्त्य् उभयत एव स्तोमं युनक्तीतस् चामुतश् च देवान् वा एष प्रयुज्य स्वर्गं लोकम् एति यद् आहोपोपेन् नु मघवन् भूया इन् नु ता इतीयं वा उपोतिर् अस्याम् एव प्रतितिष्ठत्य् अथ यद् उपवत् पदम् आह या एव प्रजा आभविष्यन्तीस् ता एव स्तोमम् उपयुनक्ति परि ते दूडभो रथा इत्य् उभयत एवैतया स्तोमं युक्तं परिगृह्णातीतस् चामुतश् चाग्निर् मूर्धेति स्वर्गा तेन दिवः ककुद् इति स्वर्गा तेन पतिः पृथिव्या अयम् इति मिथुना तेनापां रेतांसि जिन्वतीति रेतस्वती पशव्या सर्वसमृद्धा गायत्र्योपास्थित गायत्रो ह्य् अग्निर् गायत्रछन्दाः स्वेनैवैनं छन्दसोपास्थितोभा वाम् इन्द्राग्नी आहुवध्या इत्य् उभौ ह्य् एतौ सहामुं वा अयं दिवा भूते प्रविशति तस्माद् असौ दिवा रोचत इमाम् असौ नक्तं तस्माद् अयं नक्तं यद् उभा वाम् इत्य् आहोभा एवैना अछम्बट्कारम् उपतिष्ठत उभयोर् लोकयो रोचते ऽस्मिंश् चामुष्मिंश् च त्रिष्टुभोपास्थितायम् इह प्रथमो धायि धातृभिर् इत्य् अग्निर् ह्य् अस्यां प्रथमो ऽधीयत होता यजिष्ठो अध्वरेष्व् ईड्या इत्य् एष हि होता यजिष्ठो अध्वरेष्व् ईड्यो यम् अप्नवानो भृगवो विरुरुचुर् इत्य् अप्नवानो ह्य् एतं भृगवो व्यरोचयन् वनेषु चित्रं विभ्वं विशेविशा इत्य् एष हीदं सर्वं विभूर् जगत्योपास्थितास्य प्रत्नाम् अनु द्युतम् इति स्वर्गो वै लोकः प्रत्नं स्वर्ग एव लोके प्रतितिष्ठत्य् अयं ते योनिर् ऋत्विया इत्य् एष ह्य् एतस्य योनिर् ऋत्वियो ऽग्निः सूर्यस्यानुष्टुभोपास्थित

॥१.५.५॥

उपप्रयन्तो अध्वरम् इति प्रवापयत्य् एवैतयान्गिर् मूर्धेति प्रवापित एवैतया रेतो दधात्य् उभा वाम् इन्द्राग्नी आहुवध्या इति प्राणापानौ वा इन्द्राग्नी प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते ॥

अयम् इह प्रथमो धायि धातृभिर् इति गर्भम् एवाधाद् अस्य प्रत्नाम् अनु द्युतम् इत्य् उधर् एवाकर् अयं ते योनिर् ऋत्विया इत्य् अजीजनच् चैवावीवृधच् च षड्भिर् उपतिष्ठते षड् वै पृष्ठानि पृष्ठान्य् एवाचीकॢपद् दधिक्राव्णो अकारिषम् इति दधिक्रावत्योपतिष्ठत एषा वा अग्नेर् दधिक्रावती प्रिया तनूः पशव्या सर्वसमृद्धाग्नेर् एवैतया प्रियं धामोपैत्य् अथो पशुमान् भवत्य् अथो आत्मानम् एवैतया यजमानः पुनीते सप्तभिर् उपतिष्ठते सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे जीर्यति वा एष आहितः पशुर् ह्य् अग्निस् तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरेसंवत्सरे निर्वपेत् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति तन् न सूर्क्ष्यम् एताभिर् एवाग्नेयपावमानीभिर् अग्न्याधेयस्य याज्यानुवाक्याभिर् उपस्थेयस् तेन वा एष न जीर्यति तेनैनं पुनर्णवं करोति द्वादशभिर् उपतिष्ठते द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे ऽग्नीषोमीयया त्रयोदश्योपस्थेयो ऽस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे

॥१.५.६॥

ब्रह्मवादिनो वदन्ति कस्मात् सायम् अग्निम् उपतिष्ठन्ते कस्मात् प्रातर् नेत्य् असौ वा आदित्यः सायम् आसुवति तस्मात् सायम् उपतिष्ठन्त एष प्रातः प्रसुवति तस्मात् प्रातर् नोपतिष्ठन्ते तस्मात् सायम् अहुते ऽग्निहोत्रे ऽग्निहोत्रिणा नाशितव्यं तस्माद् उ प्रातर् अहुते नाशितव्यं तस्मात् सायम् अतिथये प्रत्येनसः पुण्यत्वात् तु प्रातर् ददति प्रातरवनेगेन प्रातर् उपस्थेयो ऽधिश्रित उन्नीयमाने वा हस्ता अवनेनिजीत तत्र विहव्यस्य चतस्रा ऋचो वदेत् प्रातरवनेगे चतस्रः प्रातरवनेगेन वा अनाप्तम् आप्नोत्य् अनवरुद्धम् अवरुन्द्धे तद् अनाप्तम् एवैतेनाप्नोत्य् अनवरुद्धम् अवरुन्द्धे ऽबिभेद् वा एष उद्धृतस् तं देवाश् छन्दोभिः पर्यस्तृणन् यद् उपतिष्ठते छन्दोभिर् एवैनं परिस्तृणात्य् उभयम् अस्मा अकर् अग्नीषोमीयया पूर्वपक्ष उपस्थेयो ऽग्नीषोमीयो वै पूर्वपक्षो ऽपरपक्षायैवैनं परिददात्य् ऐन्द्राग्न्यापरपक्ष उपस्थेय ऐन्द्राग्नो वा अपरपक्षः पूर्वपक्षायैवैनं परिददाति सर्वा ह वा एनं देवताः सम्प्रदायम् अनपेक्षं गोपायन्ति य एवं विद्वान् अग्निम् उपतिष्ठते

॥१.५.७॥

त्वम् अग्ने सूर्यवर्चा असीति वसीयसे श्रेयस आशिषम् आशास्ते सं माम् आयुषा वर्चसा सृजेत्य् आत्मना आशास्ते सं त्वम् अग्ने सूर्यस्य ज्योतिषागथा इति सह ह्य् एते तर्हि ज्योतिषी भवतः सम् ऋषीणां स्तुतेनेति छन्दांसि वा ऋषीणां स्तुतं छन्दोभिर् एवैनं समर्धयति सं प्रियेण धाम्नेत्य् आहुतयो वा अग्नेः प्रियं धामाहुतिभिर् एवैनं समर्धयति ॥

सम् अहम् आयुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मीयेत्य् आशिषम् एवाशास्त इन्धानास् त्वा शतं हिमा इति पृतनाजिद् ध्य् आहूतिस् तया राजन्या उपतिष्ठेत यदा हि राजन्यः पृतना जयत्य् अथो भवत्य् उताराजन्या उपतिष्ठेत सर्वो हि पृतना जिगीषति सर्वो बुभूषति मनोर् वै दश जाया आसन् दशपुत्रा नवपुत्राष्टपुत्रा सप्तपुत्रा षट्पुत्रा पञ्चपुत्रा चतुष्पुत्रा त्रिपुत्रा द्विपुत्रैकपुत्रा ये नवासंस् तान् एक उपसमक्रामद् ये ऽष्टौ तान् द्वौ ये सप्त तांस् त्रयो ये षट् तांश् चत्वारो ऽथ वै पञ्चैव पञ्चासंस् ता इमाः पञ्च दशत इमान् पञ्च निरभजन् यद् एव किञ्च मनोः स्वम् आसीत् तस्मात् ते वै मनुम् एवोपाधावन् मना अनाथन्त तेभ्य एताः समिधः प्रायछत् ताभिर् वै ते तान् निरदहंस् ताभिर् एनान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् एताः समिध आदधात्य् अग्नेः समिद् अस्य् अभिशस्त्या मा पाहीत्य् अभिशस्त्या एनं पाति सोमस्य समिद् असि परस्पा म एधीति परस्पा अस्य भवति यमस्य समिद् असि मृत्योर् मा पाहीति मृत्योर् एनं पात्य् एतद् ध स्म वा आह नारद इदं वावाग्न्युपस्थानम् आसेत्य् अभिशस्त्या एनं पाति परस्पा अस्य भवति मृत्योर् एनं पाति

॥१.५.८॥

आयुर्धा अग्ने ऽस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति वर्चोधा अग्ने ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधाति चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेति यद् एवास्यात्मन ऊनं यत् प्रजाया यत् पशूनां तद् एवैतेनापूरयति तद् आप्याययत्य् अग्ने यत् ते तपा इत्य् एता वा अग्नेस् तन्वो ज्योतिष्मतीर् एतद् ध स्म वा आहारुण औपवेशिर् यान् वसीयसः श्रेयस आत्मनो भ्रातृव्यान् अभिप्राजानीम् आभिष् टान् अग्नेस् तनूभिर् ज्योतिष्मतीभिः पराभावयामेति परा पाप्मानं भ्रातृव्यं भावयति य एवं विद्वान् अग्निम् उपतिष्ठते ऽग्ने रुचां पते नमस् ते रुचे मयि रुचं धा इति शान्तम् एव रुचम् आत्मन् धत्ते तेजस्वी ब्रह्मवर्चसी भवति चित्रावसो स्वस्ति ते पारम् अशीयेति रात्रिर् वै चित्रावसुर् अहर् अर्वाग्वसुर् अग्निर् वै रात्रिर् असा आदित्यो ऽहर् एते वै भङ्गे ते ईट्टे त्रिर् आह त्रिषत्या हि देवा रोचते ह वा अस्य यज्ञो वा ब्रह्म वा य एवं वेदाम्भः स्थाभो वो भक्षीयेत्य् अम्भो ह्य् एता महः स्थ महो वो भक्षीयेति महो ह्य् एता ऊर्जः स्थोर्जं वो भक्षीयेत्य् ऊर्जो ह्य् एता रायस्पोषः स्थ रायस्पोषं वो भक्षीयेति रायस्पोषो ह्य् एता रेवती रमध्वम् अस्मिन् योना अस्मिन् गोष्ठ इति स्व एवैना योनौ स्वे गोष्ठे संवेशयत्य् अयं वो बन्धुर् इतो मापगात बह्वीर् भवत मा मा हासिष्टेत्य् आशिषम् आशास्ते वत्सम् आलभते वत्सनिकान्ता हि पशव एष वै सहस्रपोषस्येशे पुष्यति सहस्रं न सहस्राद् अवपद्यते य एवं वेद संहितासि विश्वरूपेति रूपेणरूपेण ह्य् एषा संहिता रूपैर् एवैनां समर्धयति नामासाम् अग्रहीन् मित्रम् आभिर् अकृतोत हि यदा मित्रस्य नाम गृह्णाति मित्रम् एवैनेन कुरुते

॥१.५.९॥

सप्त वै बन्धुमतीर् इष्टका अग्नौ चित्या उपधीयन्ते ता वै ता अमुष्मा एव लोकाय सप्त ग्राम्या इष्टकास् ता अत्रोपधेया गौश् चाश्वश् चाश्वतरश् च गर्दभो ऽजा चाविश् च पुरुषो यद् गाम् आलभते गवैव चिता भवन्त्य् अथो आलब्ध एवोपधीयन्ते पराङ् वा एष छन्दोभिः स्वर्गं लोकम् एत्य् अन्यदन्यच् छन्दः समारोहम् उप त्वाग्ने दिवेदिवा इति यद् एतेन गायत्रेण तृचेनोपतिष्ठत इयं वै गायत्र्य् अस्याम् एव प्रतितिष्ठत्य् अग्ने त्वं नो अन्तमा इत्य् एषा वा अग्नेर् अस्तर्या प्रिया तनूर् वरूथ्या ताम् एव प्रैति नैनम् अभिदासन्त् स्तृणुते चतसृभिर् द्विपदाभिर् उपतिष्ठते चतुष्पादो वै पशवो द्विपाद् यजमानो गृहा गार्हपत्यो गृहेषु चैव पशुषु च प्रतितिष्ठत्य् ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यतेत्य् ऊर्जैनाः पश्यत्य् ऊर्जैनं पश्यन्ति रय्या वः पश्यामि रय्या मा पश्यतेति रय्यैनाः पश्यति रय्यैनं पश्यन्ति ॥

सम्पश्यामि प्रजा अहम् इडप्रजसो मानवीः ।

सर्वा भवन्तु नो गृहे ॥ इत्य् ऐडीश् च वा इमाः प्रजा मानवीश् च ता एवावारुद्ध ता आद्या अकृतेडाः स्थ मधुकृता इतीडा ह्य् एता मधुकृतः स्योना माविशतेरम्मदा इतीरम्मदो ह्य् एता भुवनम् असि सहस्रपोषपुषीति भुवनं ह्य् एतत् सहस्रपोषपुषि तस्य नो रास्व तस्य ते भक्तिवानो भूयास्मेत्य् आशिषम् एवाशास्त इडासि व्रतभृद् इतीडा ह्य् एषा व्रतभृत् त्वयि व्रतं व्रतभृद् असीति व्रतभृद् ध्य् एषा

॥१.५.१०॥

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

महि त्रीणाम् अवो ऽस्त्व् इति प्राजापत्येन तृचेनोपतिष्ठते प्राजापत्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृताथो प्रजापतिम् एवोपैति प्रजापता एव देवतासु प्रतितिष्ठति सोमानं स्वरणम् इति ब्राह्मणस्पत्ययोपतिष्ठते ब्रह्मणि प्रतितिष्ठत्य् अथो ब्रह्मवर्चसम् एवावरुन्द्धे यो वै ब्रह्मणि प्रतिष्ठितेन स्पर्धते पूर्वो ऽस्मात् पद्यत उभयीर् वा अग्निहोत्रिणि देवता आशंसन्ते याभ्यश् च जुहोति याभ्यश् च न मित्रस्य चर्षणीधृता इति मैत्र्योपतिष्ठत उभयत एवैतया मित्रम् अकृतेतश् चामुतश् च कदा चन स्तरीर् असीत्य् ऐन्द्रीभ्यां बृहतीभ्याम् उपतिष्ठत ऐन्द्रा वै पशवस् तान् एवावारुद्ध तान् आद्यान् अकृत परि ते दूडभो रथा इत्य् असौ वा आदित्यो दूडभो रथ एष वा इमा उभौ लोकौ समीयते सर्वम् एवैतया परिगृह्णाति निम्रदो ऽसि न्य् अहं तं मृद्यासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति पार्ष्ण्यावगृह्णीयाद् यदि पापीयसा स्पर्धेताभिभूर् अस्य् अभ्य् अहं तं भूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति दक्षिणतः पदो ऽवगृह्णीयाद् यदि सदृशेन स्पर्धेत प्रभूर् असि प्राहं तम् अतिभूयासं यो अस्मान् द्वेष्टि यं च वयं द्विष्म इति प्रपदेनावगृह्णीयाद् यदि श्रेयसा स्पर्धेत सर्वान् एवैनान् अभिभवति सर्वान् अतिभवति सर्वान् अतिक्रामति पूषा मा पथिपाः पात्व् इतीयम् एव पूषा मा पशुपाः पात्व् इत्य् अन्तरिक्षम् एव पूषा माधिपाः पात्व् इत्य् असा एवेमान् एव लोकान् उपासरद् एभ्यो लोकेभ्य आत्मानं परिधत्ते ऽहिंसायै प्राची दिग् अग्निर् देवतेति तनूपानाम् एव दिक्षु निधत्ते ऽथ येन स्पर्धते येन वा व्यभिचरते स एता एव देवता ऋत्वा पूर्वः पराभवति सप्त वै पुरुषे महिमानस् ते वा एनेनेड्यास् ते वै ते सप्तऋषय एव प्राणा वै सप्तऋषयः प्राणान् वा एतद् ईट्ट ईट्टे ह वै स्वान् प्राणान् वृङ्क्ते भ्रातृव्यस्य प्राणान् नैनम् अभिदासन्त् स्तृणुते य एवं वेद धर्मो मा धर्मणः पातु विधर्मो मा विधर्मणः पात्व् आयुश् च प्रायुश् च चक्षश् च विचक्षश् च प्राङ् चापाङ् चोरुक इत्य् अयं वा उरुक एष विभजति तद् यद् एष भजति तद् एतस्मिन्न् एव पुनर् आभजत्य् अग्ने गृहपते ऽग्निं समिन्धे यजमान एतद् वै यजमानस्य स्वं यद् अग्निर् एतद् अग्नेर् यद् यजमान आयतनम् इव वा एतत् क्रियते ज्योतिषे तन्तवे त्वेत्य् अन्तराग्नी उपविश्य वदेद् याम् एव पुर आशिषम् आशास्ते यां पश्चात् ताम् आत्मन् धत्ते

॥१.५.११॥

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एवावारुद्ध : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

भ्रातृव्यस्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

ददन् मा इति वै दीयते सददि वा एष ददाति यो ऽग्निहोत्रं जुहोति यद्यत् कामयेत तत्तद् अघिहोत्र्य् अग्निं याचेद् उप हैनं तन् नमति तद् आहुर् ऋछति वा एष देवान् य एनान्त् सददि याचतीति तस्मात् तर्हि नोपस्थेयो यमो वा अम्रियत ते देवा यम्या यमम् अपाब्रुवंस् तां यद् अपृछन्त् साब्रवीद् अद्यामृतेति ते ऽब्रुवन् न वा इयम् इमम् इत्थं मृष्यते रात्रीं सृजामहा इत्य् अहर् वाव तर्ह्य् आसीन् न रात्रिस् ते देवा रात्रिम् असृजन्त ततः श्वस्तनम् अभवत् ततः सा तम् अमृष्यत तस्माद् आहुर् अहोरात्राणि वावाघं मर्षयन्तीति सा वै रात्रिः सृष्टा पशून् अभिसममीलत् ते देवाश् छन्दोभिर् एव पशून् अन्वपश्यंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतत् पशून् अनुपश्यति छन्दोभिर् एनान् पुनर् उपह्वयते ऽथो आहुर् वरुणो वै स तद् रात्रिर् भूत्वा पशून् अग्रसतेति ते देवाश् छन्दोभिर् एव वरुणात् प्रामुञ्चंश् छन्दोभिर् एनान् पुनर् उपाह्वयन्त यद् उपतिष्ठते छन्दोभिर् वा एतद् वरुणात् पशून् प्रमुञ्चति छन्दोभिर् एनान् पुनर् उपह्वयते यज्ञोयज्ञो वै समृछते ऽथाकस्यविदो मन्यन्ते सोम एव समृछता इत्य् अग्नीषोमीयायाः पुरस्ताद् विहव्यस्य चतस्रा ऋचो वदेद् आग्नेयस्य पुरोडाशस्य द्वे याज्यानुवाक्ये कुर्याद् एतेनैव हवींष्य् आसन्नान्य् अभिमृशेद् वृङ्क्ते ऽन्यस्य यज्ञं नास्यान्यो यज्ञं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतरः

॥१.५.१२॥

सृजामहा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अभिसममीलत् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

प्रामुञ्चंश् : ⟨ प्रामुञ्चन्

अग्निं वा एते चित्यं चिन्वते य आहिताग्नयो दर्शपूर्णमासिनस् तेषां वा अहोरात्राण्य् एवेष्टका उपधीयन्ते यत्र पञ्च रात्रीः संहिता वसेत् तज् जुहुयात् पञ्च रात्रयः पञ्चाहानि सा दशत् सम्पद्यते तन् नैवं कर्तवय् अयतं तद् दशस्व् एव रात्रिष्व् अन्तमं होतव्यं तथा यतं क्रियते न सर्वेषु युक्तेषु होतव्यं वास्तौ जुहुयान् नायुक्तेष्व् अयतं क्रियते सर्वाण्य् अन्यानि युक्तानि स्युर् अग्निष्ठस्य दक्षिणो युक्तः स्यात् सव्यस्य योक्त्रं परिहृतम् अथ जुहुयान् न वास्तौ जुहोति यतम् उत्क्रियते तन् न सूर्क्ष्यं सर्वेष्व् एव युक्तेषु होतव्यं वास्तोष्पत्यं ह्य् एतन् न हीनम् अन्वाहर्तवै रुद्राय हि तद् धीयते यद् धीनम् अन्वाहरेयू रुद्रं भूतम् अन्वाहरेयुर् यद्य् अनुवाहः स्यात् पूर्वं तं प्रवहेयुर् अप वोद्धरेयुर् यद् धीयेत हीयेतैव तद् अथ जुहुयात् ॥

हीयेतैव : फ़्न् एमेन्देद्। एद्।: हीयेतैव

अमीवहा वास्तोष्पते विश्वा रूपाण्य् आविशन् ।

सखा सुशेव एधि नः ॥

वास्तोष्पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो भवा नः ।

यत् त्वेमहे प्रति तन् नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे

॥१.५.१३॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमात् ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमात् ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥

पशून् मे शंस्य पाहि तान् मे गोपायास्माकं पुनर् आगमाद् इत्य् आहवनीयम् उपतिष्ठत आहवनीयायैव पशून् परिदाय प्रैत्य् अग्ने सहस्राक्ष शतमूर्धन्न् इति सहस्राक्षो ह्य् एष शतमूर्धा शतं ते प्राणाः सहस्रम् अपाना इति शतं ह्य् एतस्य प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजायेत्य् आशिषम् एवाशास्ते ॥

प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनर् आगमाद् इति गार्हपत्यम् उपतिष्ठते गार्हपत्यायैव प्रजां परिदाय प्रैत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतो ऽन्नं मे बुध्य पाहि तन् मे गोपायास्माकं पुनर् आगमाद् इति दक्षिणाग्निम् उपतिष्ठते दक्षिणाग्नय एवान्नं परिदाय प्रैति ॥

इमान् मे मित्रावरुणौ गृहान् गोपायतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभिरक्षत्व् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् परिदाय प्रति ॥

अग्निं समाधेहि ॥ इत्य् आह भस्म त्वा उपतिष्ठते ॥

पशून् मे शंस्याजुगुपस् तान् मे पुनर् देहि ॥ इत्य् आहवनीयं पुनर् एत्योपतिष्ठत आहवनीयेनैव पशून् गुप्तान् आत्मन् धत्ते ॥

अग्ने सहस्राक्ष शतमूर्धञ् शतं ते प्राणाः सहस्रम् अपानास् त्वं साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय ॥

प्रजां मे नर्याजुगुपस् तां मे पुनर् देहि ॥ इति गार्हपत्यं पुनर् एत्योपतिष्ठते गार्हपत्येनैव प्रजां गुप्ताम् आत्मन् धत्ते ॥

अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अन्नं मे बुध्याजुगुपस् तन् मे पुनर् देहि ॥ इति दक्षिणाग्निं पुनर् एत्योपतिष्ठते दक्षिणाग्निनैवान्नं गुप्तम् आत्मन् धत्ते ॥

इमान् मे मित्रावरुणौ गृहान् जुगुपतं युवम् ।

अविनष्टान् अविह्रुतान् पूषैनान् अभ्यरक्षीद् आस्माकं पुनर् आगमात् ॥ इत्य् अहोरात्रे वै मित्रावरुणौ पशवः पूषाहोरात्राभ्यां चैव मित्रावरुणाभ्यां च गृहान् गुप्तान् आत्मन् धत्ते

॥१.५.१४॥