skipLink.label

प्रथम काण्ड, प्रपाठक 4

प्रथम काण्ड, प्रपाठक 4

प्रथमकाण्डे चतुर्थः प्रपाठकः

प्रथमकाण्डे चतुर्थः प्रपाठकः

तस्य मा यज्ञस्येष्टस्य वीतस्य द्रविणेहागम्याद् वसुर् यज्ञो वसुमान् यज्ञस् तस्य मा यज्ञस्य वसोर् वसुमतो वस्व् इहागछत्व् अदो मागछत्व् अदो मागम्यात्

॥१.४.१॥

सं यज्ञपतिर् आशिषा सद् असि सन् मे भूयाः पूर्णम् असि पूर्णं मे भूयाः सर्वम् असि सर्वं मे भूया अक्षितम् अस्य् अक्षितं मे भूयाः प्राच्या दिशा देवा ऋत्विजो मार्जयन्तां दक्षिणया दिशा मासाः पितरो मार्जयन्तां प्रतीच्या दिशा गृहाः पशवो मार्जयन्ताम् उदीच्या दिशापा ओषधयो वनस्पतयो मार्जयन्ताम् ऊर्ध्वया दिशा यज्ञः संवत्सरो मार्जयतां विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् अन्तरिक्षे व्यक्रंस्त त्रैष्टुभेन छन्दसा निर्भक्तः स यं द्विष्मो विष्णुर् दिवि व्यक्रंस्त जागतेन छन्दसा निर्भक्तः स यं द्विष्मो ऽगन्म स्वः सं ज्योतिषाभूमेदम् अहम् अमुष्य प्राणं निवेष्टयामि तेजो ऽसि सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशवो ऽग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया अस्थूरि णौ गार्हपत्यं दीदायञ् शतं हिमा द्वायू राधांसि सम्प्र्ञ्चाना असम्पृञ्चानौ तन्वो ऽसा अनु मा तन्व् अछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदि दिव्याद् धाम्नो मा छित्सि मा मानुषाद् ज्योतिषे तन्तवे त्वा

॥१.४.२॥

ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ।

अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषः पृथिव्याम् अध्य् आसते ।

अग्निर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

यास् ते रात्रयः सवितर् देवयानीः सहस्रयज्ञम् अभि सम्बभूवुः ।

गृहैश् च सर्वैः प्रजया न्व् अग्रे स्वो रुहाणास् तरता रजांसि ॥

ये देवा यज्ञहनो अन्तरिक्षे अध्य् आसते ।

वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो अन्तरिक्षे अध्य् आसते ।

वायुर् नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

आगन्म मित्रावरुणा वरेण रात्रीणां भागो युवयोर् यो अस्ति ।

नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥

ये देवा यज्ञहनो दिव्य् अध्य् आसते सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

ये देवा यज्ञमुषो दिव्य् अध्य् आसते ।

सूर्यो नस् तेभ्यो रक्षतु गछेम सुकृतो वयम् ॥

येनेन्द्राय समभरन् पयांस्य् उत्तमेन हविषा जातवेदः ।

तेनाग्ने त्वम् उत वर्धया मां सजातानां मध्ये श्रैष्ठ्या आ धेहि मा ॥

वेदो ऽसि वेदो मा आभर तृप्तो ऽहं तृप्तस् त्वम् ॥

घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणम् ।

वेदो वाजं ददातु मे ॥

निर् द्विषन्तं निर् अरातिं दह रुद्रास् त्वायछन्न् आदित्यास् त्वास्तृणन् ॥

गोमं अग्ने ऽविमं अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः ।

इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

सं पत्नी पत्या सुकृतेषु गछतां यज्ञस्य युक्तौ धुर्या अभूताम् ।

आप्रीणानौ विजहता अरातिं दिवि ज्योतिर् उत्तमम् आरभेथां स्वाहा ॥

अभूताम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

पत्नि पत्न्य् एष ते लोको नमस् ते अस्तु मा मा हिंसीर् या सरस्वती वेशयमनी तस्यै स्वाहा ॥

या सरस्वती वेशभगीना तस्यास् ते भक्तिवानो भूयास्म ॥

अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि ।

अयाः सन् मनसा कृत्तो ऽयाः सन् हव्यम् ऊहिषे ऽया नो धेहि भेषजं स्वाहा

॥१.४.३॥

देवान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पितॄन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु मनुष्यान् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछत्व् अप ओषधीर् वनस्पतीन् जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चजनं जनम् अगन् यज्ञस् ततो मा यज्ञस्याशीर् आगछतु पञ्चानां त्वा वातानां धर्त्राय गृह्णामि पञ्चानां त्वा दिशां धर्त्राय गृह्णामि पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामि चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामि ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

भूर् अस्माकं हव्यं देवानाम् आशिषो यजमानस्य देवताभ्यस् त्वा देवताभिर् गृह्णामि

॥१.४.४॥

समृतयज्ञो वा एष यद् दर्शपूर्णमासौ कस्य वाह यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति कस्य वा न बहूनां समानम् अहर् यजमानानां यः पूर्वेद्युर् अग्निं गृह्णाति स श्वो भूते देवता अभियजते ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं गृह्णाति देवता वा एतत् पूर्वेद्युर् अग्रहीत् ताः श्वो भूते ऽभियजते बर्हिषा वै पूर्णमासे व्रतम् उपयन्ति वत्सैर् अमावास्यायां पुरा वत्सानाम् अपाकर्तोर् दम्पती अश्नीयातां हस्ता अवनिज्य दक्षिणतो ऽग्निम् उपतिष्ठेताग्ने व्रतपते व्रतम् आलप्स्य इत्य् अग्निर् वै देवानां व्रतपतिर् ब्राह्मणो व्रतभृद् व्रतपतय एव प्रोच्य व्रतम् आलभते ऽग्निं होतारम् उप तं हुव इति येन हविर् निर्वप्स्यन्त् स्यात् तद् अभिमृशेद् देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् युनज्मि त्वा ब्रह्मणा दैव्येनेति परिधिषु परिधीयमाणेषु वदेद् अग्नेर् वा एष योगो ऽग्निम् एतद् युनक्ति युनक्तो ऽस्मै हव्यं वहत्य् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इतीडायाम् उपहूयमानायां वदेद् इडाया वा एष दोहा इडां वा एतद् दुहे ऽथो इन्द्रियं वा इडेन्द्रियम् एवात्मन् धत्त आम् आशिषो दोहकामा इत्य् आशिषो वै दोहकामा यजमानम् अभिसर्पन्ति ता दक्षिणतो यजमानलोकम् उपतिष्ठते ता यथा धेनवो ऽदुग्धा अपक्रामन्त्य् एवम् अस्माद् आशिषो ऽदुग्धा अपक्रामन्ति य एवं न वेदाथ य एवं वेदाशिष एव दुहे सा मे सत्याशीर् देवान् गम्याद् इति प्रस्तरे प्रह्रियमाणे वदेत् सत्यां वा एतद् आशिषं देवान् गमयित्वाथ वरं वृणीत एतद् ध स्म वा आहौपाविर् जानश्रुतेयः सहस्रेणेष्ट्वा कम् उ ष्विद् अतो ऽधि वरं वरिष्यामह इति सहस्रेण यक्षीयेति ह स्म वाव ततः पुराह वि ते मुञ्चामि रशनां वि रश्मीन् इति परिधिषु प्रह्रियमाणेषु वदेद् देवता वा एतत् स्वर्गं लोकं गमयित्वा प्रतिष्ठाप्य व्यमौग् इष्टो यज्ञो भृगुभिर् इति यज्ञस्य वा एष दोहो यज्ञम् एतद् दुह एतद् ध स्म वा आह कपिवनो भौवायनः किम् उ स यज्ञेन यजेत यो गाम् इव यज्ञं न दुहीत सुदोहतरो हि गोर् इति

॥१.४.५॥

सं यज्ञपतिर् आशिषेति यजमानो यजमानभागं प्राश्नाति यजमानो वै यज्ञपतिर् यज्ञो यजमानभागो यद् यजमानो यजमानभागं प्राश्नाति यज्ञपता एव यज्ञं प्रतिष्ठापयति यदि प्रवसेत् समिष्टयजुषा सह जुहुयाद् अग्ना एव यज्ञं प्रतिष्ठापयति यद् धविर् निर्वप्स्यन्न् अग्नौ निष्टपत्य् अग्नेर् एव यज्ञं निर्मिमीते ऽथ यद् धविर् निर्वप्स्यन् यजमानाय प्राह यज्ञपतेर् एवाधि यज्ञं निर्मिमीते ऽग्निर् वै भूयांसं प्रदहत्य् एतं वै लोकं यजमानो न्व् अतिमुच्यते यद् एता आपो ऽतिसृज्यन्ते ऽछिन्नं स्रावायितव्या अद्भिर् वा एतद् यजमानो ऽग्नेर् आत्मानम् अन्तर्धत्ते द्वया वै देवा यजमानस्य गृहम् आगछन्ति सोमपा अन्ये ऽसोमपा अन्ये हुतादो ऽन्ये ऽहुतादो ऽन्य एते वै देवा अहुतादो यद् ब्राह्मणा एतद्देवत्य एष यः पुरानीजान एते वा एतस्य प्रजायाः पशूनाम् ईशते ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति दक्षिणतःसद्भ्यः परिहर्तवा आह दक्षिणावतैव यज्ञेन यजत आहुतिभिर् एव देवान् हुतादः प्रीणाति ते ऽस्मै प्रीता इषम् ऊर्जं नियछन्ति

॥१.४.६॥

सद् असि सन् मे भूया इत्य् आशिषो वा एतास् ता एवावरुन्द्धे पूर्णम् असि पूर्णं मे भूया इति पूर्णो ह वा अमुत्राङ्गैः सम्भवति सर्वम् असि सर्वं मे भूया इति सर्वो ह वा अमुत्राङ्गैः सम्भवत्य् अक्षितम् अस्य् अक्षितं मे भूया इत्य् अक्षितो ह वा अमुत्राङ्गैः सम्भवति प्राच्या दिशा देवा ऋत्विजो मार्जयन्ताम् इत्य् एता वै यज्ञस्य मृष्टय एताः शान्तयस् ता बैजवापयो विदाम् अक्रंस् तेषां मृष्टो यज्ञः शान्तो ऽभूद् अघातुकः पशुपतिः पशूंस् तद् य एवं वेद मृष्ट एवास्य यज्ञः शान्तो भवत्य् अघातुकः पशुपतिः पशून् विष्णुः पृथिव्यां व्यक्रंस्त गायत्रेण छन्दसेति विष्णुमुखा वै देवा असुरान् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् आयंस् तद् विष्णुमुखो वा एतद् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुद्य स्वर्गं लोकम् एत्य् अगन्म स्वर् इति स्वर्गम् एव लोकम् एति सं ज्योतिषाभूमेति ज्योतिर् हि स्वर्गो लोक इदम् अहम् अमुष्य प्राणं निवेष्टयामीति प्राणम् एवास्य निवेष्टयतीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते तेजो ऽसीत्य् आह तेजो ह्य् अग्निः स वै हित्वा प्रजां च पशूंश् च स्वर् एति यद् आह सम् अहं प्रजया सं मया प्रजा सम् अहं पशुभिः सं मया पशव इति प्रजायां चैव पशुषु च प्रतितिष्ठत्य् अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासं सुगृहपतिस् त्वं मया गृहपतिना भूया इत्य् अग्रहणौ सञ्जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतः पुत्रस्य नाम गृह्णाति प्रजाम् एवानु समतानीत् स वै मानुषम् एवाभ्य् उपावर्तते मनुष्यस्य हि नाम गृह्णाति यद् आहाछिन्नो दिव्यस् तन्तुर् मा मानुषश् छेदीति दिव्यं चैव मानुषं च समतानीद् दिव्याद् धाम्नो मा छित्सि मा मानुषाद् इत्य् उभा इमं लोकं जयतः सह स्वर्गे लोके भवतः

॥१.४.७॥

ऽभूद् : फ़्न् फ़्रोम् अभूद्। एद्।: भूद्

इति य एव देवा यज्ञहनश् च यज्ञमुषश् च पृथिव्यां तांस् तीर्त्वान्तरिक्षम् आरुहद् य एव देवा यज्ञहनश् च यज्ञमुषश् चान्तरिक्षे तांस् तीर्त्वा दिवम् अगन् य एव देवा यज्ञहनश् च यज्ञमुषश् च दिवि तांस् तीर्त्वा सजातानां मध्ये श्रैष्ठ्या आधाद् एनं शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यद् वेदेन पुरोडाशं सम्मार्ष्टि यज्ञस्य सर्वत्वायाथो मेध्यत्वाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं यद् वेदेन वेद्याम् आस्ते यज्ञम् एवास्मै विन्दति पत्न्यै वेदं प्रयछति दुरनुवेदो वा अमुत्र यज्ञो यज्ञम् एवास्मै विन्दति त्रिः प्रयछति त्रिषत्या हि देवा उपस्था आस्यते पुमांसं जानुका भवति पशवो वै वेद ओषधयो ह्य् एष एष खलु वै पशूनां लोको यद् अन्तराग्नी स्वे वा एतल् लोके यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते ऽर्धमासेऽर्धमासे वै यज्ञो विछिद्यते सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते गोमं अग्ने ऽविमं अश्वी यज्ञ इति गोमन्तम् एवाविमन्तम् अश्विनं यज्ञम् अकर् इडावान् एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् इत्य् आशिषम् एवाशास्ते सं पत्नी पत्या सुकृतेषु गछताम् इत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतो या वा एतस्य पत्नी सैतं सम्प्रति पश्चाद् अन्वास्ते यत् सम्प्रति पश्चाद् अन्वासीत प्रजाम् अस्या निर्दहेद् यद् आह पत्नि पत्न्य् एष ते लोक इति लोकम् एवास्या अकर् अनिर्दाहुको ऽस्याः प्रजां भवति या सरस्वती वेशयमनीति वेशयमनं वेशान् एवास्मै तेन यछत्य् उतास्याजीवन्तः सजाता उपासते वाचम् इन् न्व् अस्य ब्राह्मणस्य वा राजन्यस्य वोपास्मह इति मांसं तु न पचेयुस् तस्मिन्न् अग्नौ यत् पचेयुः क्रव्यादं कुर्युर् न हि तस्मिन्न् अग्नौ मांसं पचन्ति यस्मिन्न् आहुतीर् जुह्वत्य् अयाश् चाग्ने ऽस्य् अनभिशस्तिश् चेत्य् अया वै नामैषाग्नेः प्रिया तनूर् अया मर्याधैर् येणेति खलु वा आहुर् यच् चैवात्र यज्ञे क्रियते यच् च न यां चैवात्र यज्ञस्य प्रायश्चित्तिं विद्म यां च न तस्यैषोभयस्य प्रायश्चित्तिः

॥१.४.८॥

अस्य : फ़्न् मित्त्wएदे। एद्।: वाचमिन्वस्य

देवान् जनम् अगन् यज्ञ इति स्कन्नम् अभिमन्त्रयेत जनं वा एतद् यज्ञस्य गछति यत् स्कन्दति जनो हीयम् अस्मद् अधि यज्ञस्य वा एतज् जनं गतस्याशिषम् अवरुन्द्धे पञ्चानां त्वा वातानां धर्त्राय गृह्णामीति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धायं वाव यः पवत एष यज्ञस् तम् एवाग्रहीत् पञ्चानां त्वा दिशां धर्त्राय गृह्णामीतीमा एव पञ्च दिशो ऽग्रहीत् पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामीति पशवो वै सलिलं पशून् एवाग्रहीत् पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामीति पृष्ठान्य् एवाग्रहीत् तेनास्य पृष्ठवन्तौ दर्शपूर्णमासौ सन्तता अविछिन्नौ भवतः पञ्चानां त्वा पञ्चजनानां धर्त्राय गृह्णामीति छन्दांसि वै पञ्च पञ्चजनाश् छन्दांस्य् एवाग्रहीच् चरोस् त्वा पञ्चबिलस्य धर्त्राय गृह्णामीतीमे वै लोकाश् चरुः पञ्चबिल इमान् एव लोकान् अग्रहीत् ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

इति प्रज्ञात आज्यग्रहः पथागाद् भूर् अस्माकं हव्यं देवानाम् आशिषो यजमानस्येति भूतिम् एवात्मन आशास्ते हव्यं देवेभ्य आशिषो यजमानाय देवताभ्यस् त्वा देवताभिर् गृह्णामीति देवताभ्य एवैनं देवताभिर् अग्रहीत्

॥१.४.९॥

देवतानां वा एतद् आयतनं यद् आहवनीयो यद् अन्तराग्नी तत् पशूनां मनुष्याणां गार्हपत्यः पित्πणाम् ओदनपचनः सर्वा ह वा अस्य यक्ष्यमाणस्य देवता यज्ञम् आगछन्ति य एवं वेद पूर्वं चाग्निम् अपरं च परिस्तरीतवा आह मनुष्याणां वै नवावसानं प्रियं नवावसानम् एवाकर् मेध्यत्वायाग्नेर् जिह्वासि वाचो विसर्जनम् इति पुरोडाश्यान् आवपति देवतानां वा एष ग्रहो देवता वा एतद् अग्रहीद् एतद् ध स्म वा आहारुण औपवेशिर् अहुतासु वा अहम् आहुतिषु देवता हव्यं गमयामि संस्थितेन यज्ञेन संस्थां गछानीति तद् य एवं वेदाहुतास्व् एवास्याहुतिषु देवता हव्यं गछति संस्थितेन यज्ञेन संस्थां गछत्य् औलूखलाभ्यां वै दृषदा हविष्कृद् एहि ॥ इति देवा यज्ञाद् रक्षांस्य् अपाघ्नत यद् औलूखला उद्वादयन्ति दृषदौ समाघ्नन्ति ॥ हविष्कृद् एहि ॥ इत्य् आह रक्षसाम् अपहत्यय् अपः प्रणीय वाचं यछति मनसा वै प्रजापतिर् यज्ञम् अतनुतौलूखलयोर् उद्वदितोर् अध्वर्युश् च यजमानश् च वाचं यछेतां प्रजापतिर् एव भूत्वा मनसा यज्ञं तन्वाते न सर्वाणि सह यज्ञायुधानि प्रहृत्यानि मानुषं तत् क्रियते नैकमेकं पितृदेवत्यं तद् द्वेद्वे सह प्रहृत्ये याज्यानुवाक्ययो रूपम् उपवसत्य् उभयांस् तेन पशून् अवरुन्द्धे ग्राम्यांस् चारण्यांश् च यद् ग्राम्यस्य नाश्नाति तेन ग्राम्यान् अवरुन्द्धे ऽथ यद् आरण्यस्याश्नाति तेनारण्यान् अथो इन्द्रियं वा आरण्यम् इन्द्रियम् एवात्मन् धत्ते न माषाणाम् अश्नीयाद् अयज्ञिया वै माषा न तस्य सायम् अश्नीयाद् यस्य प्रातर् यक्ष्यमाणः स्याद् अप्रतिजग्धेन वै देवा हव्येन वसीयोभूयम् अगछन् प्रतिजग्धेनासुराः पराभवंस् तद् अप्रतिजग्धेन वा एतद् धव्येन यजमानो वसीयोभूयं गछति परास्य भ्रातृव्यो भवति यो वै श्रद्धाम् अनालभ्य यजते पापीयान् भवत्य् आपो वै श्रद्धा न वाचा गृह्यन्ते न यजुषाति वा एता वाचं नेदन्त्य् अति वर्त्रं मनस् तु नातिनेदन्ति यर्ह्य् अपो गृह्णीयाद् इमां तर्हि मनसा ध्यायेद् इयं वा एतासां पात्रम् अनयैवैना अग्रहीच् छ्रद्धाम् आलभ्य यजते न पापीयान् भवति

॥१.४.१०॥

ब्रह्मवादिनो वदन्ति प्रेध्मम् उक्षन्ति प्र हविर् इध्मः प्रथम आहुतीनां कस्माद् अन्येषां हविषां याज्यानुवाक्याः सन्ति कस्माद् इध्मस्य नेति ॥

अग्नये समिध्यमानायानुब्रूहि ॥ इति पुरोनुवाक्या सामिधेनीर् याज्योपवाको वषट्कारो यत्र वै यज्ञस्यातिरिक्तं क्रियते तद् यजमानस्यातिरिक्तम् आत्मन् जायते यद् अनाप्तं वि यज्ञश् छिद्यते क्षोधुको यजमानो भवति परिधानीयया सामिधेनीनाम् उत्तमम् इध्मस्य समर्धयत्य् अक्षोधुको यजमानो भवति नास्यातिरिक्तम् आत्मन् जायते यो वै प्रजापतिं सप्तदशं यज्ञे ऽन्वायत्तं वेद नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति ॥

ओ श्रावय ॥ इति चतुरक्षरम् ॥

अस्तु श्रौषट् ॥ इति चतुरक्षरम् ॥

ये यजामहे ॥ इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै प्रजापतिः सप्तदशो यज्ञे ऽन्वायत्तो यद्य् अनुवाक्याया एति यदि याज्याया अतश् चेद् एव नैति नास्य यज्ञो व्यथते प्रजापतौ यज्ञेन प्रतितिष्ठति न वै तद् विद्म यदि ब्राह्मणा वा स्मो ऽब्राह्मणा वा यदि तस्य वा ऋषेः स्मो ऽन्यस्य वा यस्य ब्रूमहे यस्य ह त्व् एव ब्रुवाणो यजते तं तद् इष्टम् आगछति नेतरम् उपनमति तत् प्रवरे प्रवर्यमाणे ब्रूयात् ॥

देवाः पितरः पितरो देवा यो ऽस्मि स सन् यजे यो ऽस्मि स सन् करोमि शुनं म इष्टं शुनं शान्तं शुनं कृतं भूयात् ॥ इति तद् य एव कश् च स सन् यजते तं तद् इष्टम् आगछति नेतरम् उपनमति ॥

यज्ञस्य त्वा प्रमयाभिमया परिमयोन्मया परिगृह्णामि ॥ इति गायत्री वै यज्ञस्य प्रमा त्रिष्टुब् अभिमा जगती परिमानुष्टुब् उन्मैतानि वै छन्दांसि यज्ञं वहन्ति तैर् एवैनं परिगृह्णाति

॥१.४.११॥

केशिनं वै दार्भ्यं गन्धर्वाप्सरसो ऽपृछन् कथा यजमानो यजमानेन भ्रातृव्येण सदृङ्ङ् असीत्य् अहं वेदा इत्य् अब्रवीत् ते ऽब्रुवन्न् अङ्ग नो यज्ञं व्याचक्ष्वा इति तेभ्यो यज्ञं व्याचष्ट ते ऽब्रुवन्न् उतैतेन यजमानो यजमानाद् भ्रातृव्यात् पापीयान्त् स्याद् इति ते ऽब्रुवंस् तथा वै ते यज्ञं विधास्यामो यथा यजमानो यजमानं भ्रातृव्यम् अभिभविष्यसीति तस्मा आहुतीर् यज्ञं व्यदधुस् ततः केशी षण्डिकम् औद्भारिम् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं वेद प्राणो वा आघारः पूर्वार्धे होतव्यो मुखत एवास्य प्राणं दधाति प्राणो वा आघारो मध्यतो होतव्यो मध्यत एवास्य प्राणं दधात्य् आघारं भूयिष्ठम् आहुतीनां जुहुयात् प्राणो वा आघारः प्राणम् एवास्य भूयिष्ठं करोति सन्ततम् आघारम् आघारयेत् प्राणो वा आघारः प्राणस्य सन्तत्यय् ऊर्ध्वम् आघारम् आघारयेत् स्वर्गकामस्य यजमानो वा आघारो यजमानम् एव स्वर्गं लोकं गमयति यं द्विष्यात् तस्य न्यञ्चम् आघारयेत् पापीयान् भवत्य् अभिक्रामन्ती वा एकाहुतिर् अपक्रामन्त्य् एका प्रतिष्ठितैका याम् अभिक्रामं जुहोति साभिक्रामन्ती याम् अपक्रामं जुहोति सापक्रामन्ती यां समानत्र तिष्ठन् जुहोति सा प्रतिष्ठिता यं कामयेताभितरं वसीयाञ् श्रेयान्त् स्याद् इति तस्याभिक्रामं जुहुयात् तेन सो ऽभितरं वसीयाञ् श्रेयान् भवत्य् अथ यं कामयेतापतरं पापीयान्त् स्याद् इति तस्यापक्रामं जुहुयात् तेन सो ऽपतरं पापीयान् भवत्य् अथ यं कामयेत न वसीयान्त् स्यान् न पापीयान् इति तस्य समानत्र तिष्ठन् जुहुयात् तेन स न वसीयान् न पापीयान् भवत्य् ऋतवो वै प्रयाजाः समानत्र होतव्या ऋतूनां प्रतिष्ठित्यै याग्नेर् आज्यभागस्य सोत्तरार्धे होतव्या ततो योत्तरा सा रक्षोदेवत्या या सोमस्याज्यभागस्य सा दक्षिणार्धे होतव्या ततो या दक्षिणा सा पितृदेवत्यैतद् वा अन्तराहुतीनां लोकः कॢप्ता अस्याहुतयो यथापूर्वं हूयन्ते य एवं वेद धूमे जुहोति तां तमसि जुहोति ततो यजमानो ऽरोचुको भवति याम् अङ्गारेषु जुहोति सान्धाहुतिस् ततो यजमानस्य चक्षुः प्रमायुकं भवत्य् उभे ज्योतिष्मति होतव्ये रोचुको यजमानो भवति नास्य चक्षुः प्रमीयते याम् अब्राह्मणः प्राश्नाति सा स्कन्नाहुतिस् तस्या वसिष्ठ एव प्रायश्चित्तिं विदाञ्चकार ॥

ब्रध्न पाहि ॥ इति पुरोडाशम् अभिमृशेद् भजतां भागी माभागो भक्त ब्राह्मणानाम् इदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्याप्य् अस्ति कुर्वतो मे मा क्षेष्ट ददतो मे मोपदसत् ॥ इति दक्षिणीयेष्व् एव यज्ञं प्रतिष्ठापयत्य् अस्कन्नम् अविक्षुब्धम् उत याम् अब्राह्मणः प्राश्नाति सास्य हुतैव भवति

॥१.४.१२॥

यस्याज्यम् अनुत्पूतं स्कन्दति सा वै चित्रा नामाहुतिस् ततो यजमानस्य चित्रं प्रमायुकं भवति चित्रं देयं सैव तस्य प्रायश्चित्तिर् अथ यस्योत्पूतं स्कन्दति सा वै स्कन्ना नामाहुतिस् ततो यजमानः प्रमायुको भवति वरो देयः सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ दुःशृतौ भवतस् तद् धविर् यमदेवत्यं यदा तद् धविः सन्तिष्ठेताथ चतुःशरावम् ओदनं पक्त्वा ब्राहमणेभ्यो जीवतण्डुलम् इवोपहरेत् सैव तस्य प्रायश्चित्तिर् अथ यस्य पुरोडाशौ क्षायतस् तं यज्ञं वरुणो गृह्णाति यदा तद् धविः सन्तिष्ठेताथ तद् एव हविर् निर्वपेद् यज्ञो हि यज्ञस्य प्रायश्चित्तिर् अथ यो ऽदक्षिणेन यज्ञेन यजते तं यजमानं विद्याद् अदक्षिणेन हि वा अयं यज्ञेन यजते ऽथ न वसीयान् भवतीत्य् उर्वरा समृद्धा देया सैव तस्य प्रायश्चित्तिर् अथ यस्य कपालं भिद्येत तत् सन्दध्याद् गायत्र्या त्वा शताक्षरया सन्दधामि ॥ इति वाग् वै गायत्री शताक्षरा वाचैवैनत् सन्दधात्य् अथ यस्य कपालं नश्यति तं वा इयं स्वर्गाल् लोकाद् अन्तर्दधाति यदा तद् धविः सन्तिष्ठेताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेद् अयं वा अग्निर् वैश्वानर इमाम् एव भागधेयेनोपासरत् स्वर्गस्य लोकस्यानन्तर्हित्यय् अथ यस्याहुतिर् बहिष्परिधि स्कन्दति सा वै जीवनड् आहुतिर् अग्नीधं ब्रूयात् ॥

यज्ञेन : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

एतां सङ्कष्य जुहुधि ॥ इत्य् अग्निर् वै सर्वा देवताः सर्वाभिर् एवास्य देवताभिर् हुतं भवति पूर्णपात्रम् अग्नीधे देयं सैव तस्य प्रायश्चित्तिर् यजमानो वै जुहूर् भ्रातृव्य उपभृन् न प्रक्षिणतेव होतव्यं यत् प्रक्षिणीयाद् यजमानं प्रक्षिणीयाद् व्यृषतेव होतव्यं देवेषवो वा एता यद् आहुतयो यं द्विष्यात् तं तर्हि मनसा ध्यायेद् देवेषुभिर् एवैनं व्यृषति स्तृणुत एव पशवो वा आहुतयो रुद्रो ऽग्निः स्विष्टकृन् न सह होतव्यं यत् सह जुहुयाद् रुद्रायास्य पशून् अपिदध्याद् उत्तरार्धपूर्वार्धे होतव्यम् आहुतीनाम् असंसृष्ट्यय् अथो एवम् अस्य रुद्रः पशून् अनभिमानुको भवति

॥१.४.१३॥

आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासा आलप्स्यमानो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालभ्य दर्शपूर्णमासा आलभते जयान् उ त्वो जुह्वति देवाश् च वा असुराश् चास्पर्धन्त स प्रजापतिर् एतान् जयान् अपश्यत् तान् इन्द्राय प्रायछत् तैः संस्तम्भंसंस्तम्भम् असुरान् अजयत् संस्तम्भंसंस्तम्भं भ्रातृव्यं जयति यस्यैते हूयन्ते ॥

आकूतं चाकूतिश् च ॥ इति यज्ञो वा आकूतं दक्षिणाकूतिः ॥

चित्तं च चित्तिश् च ॥ इति मनो वै चित्तं वाक् चित्तिः ॥

आधीतं चाधीतिश् च ॥ इति प्रजा वा आधीतं पशवा आधीतिः ॥

विज्ञातं च विज्ञातिश् च ॥ इत्य् ऋग् वै विज्ञातं साम विज्ञातिः ॥

भगश् च क्रतुश् च ॥ इति प्रजापतिर् वै भगो यज्ञः क्रतुः ॥

दर्शश् च पूर्णमासश् च ॥ इति दर्शपूर्णमासा एव तद् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे प्रजापतिः प्रायच्छज् जयान् इन्द्राय वृष्ण उग्रः पृतनासु जिष्णुः ॥

द्वादश : फ़्न् च्फ़्। ४।५।७:७४।८

तेभिर् वाजं वाजयन्तो जयेम तेभिर् विश्वाः पृतना अभिष्याम ॥ इति त्रयोदशीम् आहुतिं जुहुयाद् अस्ति मासस् त्रयोदशस् तम् एवैतयाप्त्वावरुन्द्धे ॥

अग्ने बलद सहा ओजः क्रममाणाय मे दा अभिशस्तिकृते ऽनभिशस्तेन्याय ॥

अस्या जनतायाः श्रैष्ठ्याय स्वाहा ॥ इति जुहुयाद् यत्र कामयेत चित्रम् अस्यां जनतायां स्याम् इति चित्रम् अह तस्यां जनतायां भवति शबलं त्व् अस्यात्मन् जायते

॥१.४.१४॥

अग्नये भगिने ऽष्टाकपालं निर्वपेद् यः कामयेत भग्य् अन्नादः स्याम् इति प्रजापतिर् वै भगो यज्ञः क्रतुः तस्मात् सर्वो मन्यते मां भगो ऽरिष्यति मां भगो ऽरिष्यतीति यद् अग्नये भगिने भगम् एव साक्षाद् आप्त्वावरुन्द्धे भग्य् अन्नादो भवत्य् उभौ सह दर्शपूर्णमासा आलभ्यऊद् वा अन्यशृङ्गे सितो मुच्यते दर्शो वा एतयोः पूर्वः पूर्णमासा उत्तरो ऽथ पूर्णमासं पूर्वम् आलभन्ते तद् अयथापूर्वं क्रियते तत् पूर्णमासम् आलभमानः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पूर्णमासः सरस्वान् उभा एवैनौ यथापूर्वं कल्पयित्वालभत ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय

॥१.४.१५॥