प्रथमकाण्डे तृतीयः प्रपाठकः
प्रथमकाण्डे तृतीयः प्रपाठकः
जुष्टो वाचो भूयासं जुष्टो वाचस्पतिर् यद् वाचो मधुमत् तस्मै स्वाहा स्वाहा सरस्वत्यै
॥१.३.१॥निग्राभ्याः स्थ देवश्रुतस् तर्पयत मायुर् मे तर्पयत तर्पयत मा प्रांअं मे तर्पयत तर्पयत मापानं मे तर्पयत तर्पयत मा व्यानं मे तर्पयत तर्पयत मा चक्षुर् मे तर्पयत तर्पयत मा श्रोत्रं मे तर्पयत तर्पयत मा मनो मे तर्पयत तर्पयत मा वाचम् मे तर्पयत तर्पयत मात्मानं मे तर्पयत तर्पयत मा प्रजां मे तर्पयत तर्पयत मा गृहान् मे तर्पयत तर्पयत मा पशून् मे तर्पयत तर्पयत मा गणैर् मा मा वितीतृषत तर्पयत मा
॥१.३.२॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ग्रावास्य् अध्वरकृद् देवेभ्यो गभीरम् इमम् अध्वरं कृधि ॥
इन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् ।
इन्द्राय त्वाभिमातिघ्न इन्द्राय त्वा वसुमते रुद्रवत इन्द्राय त्वादित्यवते ॥
अग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा ॥
श्वात्राः स्थ वृत्रतुरो राध्वं गूर्ता अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबत ॥
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उरा अन्तरिक्षे तेनास्मै यज्ञपतय उरु राये कृध्य् अधि धात्रे वोचो मा भैर् मा संविक्था ऊर्जं धत्स्वोर्जम् अस्मासु धेहि धिषणे ईडिते ईडेथाम् ऊर्जं दधाथाम् ऊर्जम् अस्मासु धत्तं मा वां हिंसिषं मास्मान् युवं हिंसिष्टम्
॥१.३.३॥वाचस्पतये पवस्व वृष्णो अंशुभ्यां गभस्तिपूतः ॥
देवो देवानां पवित्रम् असि येषां भागो ऽसि ॥
मधुमतीर् ना इषस् कृधि स्वाङ्कृतो ऽस्य् उर्व् अन्तरिक्षं वीहि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः प्राणाय त्वा यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा प्राग् अपाग् अधराग् उदग् एतास् त्वा दिशा आधावन्त्व् अम्ब निस्मर सम् अरिर् विदाम्
॥१.३.४॥त्वाष्टु : फ़्न् ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। ११४
उपयामगृहीतो ऽसि ॥
अन्तर् यछ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्व ॥
अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर् दधाम्य् उर्व् अन्तरिक्षम् ।
सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व ॥
वाक् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यो ऽपानाय त्वा
॥१.३.५॥आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ॥
इन्द्रवायू इमे सुता उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ॥
उपयामगृहीतो ऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वा
॥१.३.६॥अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
ममेद् इह श्रुतं हवम् ॥
उपयामगृहीतो असि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा
॥१.३.७॥या वां कशा मधुमत्य् अश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतम् ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा
॥१.३.८॥उपयामगृहितो ऽसि देवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वदेवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ॥
दितेः पुत्राणाम् अदितेर् अकारिषम् उरुशर्मणां बृहतां वरूथिनाम् ।
येषां नामानि विहितानि धामशश् चित्तैर् यजन्ति भुवनाय जीवसे ॥
उपयामगृहीतो ऽसि विष्णोस् त्वोरुक्रमे गृह्णामि विष्ण उरुक्रमैष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् अयं वसुः पुरोवसुर् वाक्पा वाचं मे पात्व् अयं वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पात्व् अयं वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पातु
॥१.३.९॥अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरतायै त्वा
॥१.३.१०॥तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठराजं बर्हिषदं स्वर्दृशम् ।
प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तम् अनु यासु वर्धसे ॥
उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाभ्यस् त्वा
॥१.३.११॥अपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्मो ऽछिन्नस्य ते देव सोम दक्षस्य रायस्पोषस्य सुवीर्यस्याभिरहीतारः स्याम ॥
तुथो ऽसि जनधाया देवास् त्वा शुक्रपाः प्रणयन्तु तुथो ऽसि जनधाया देवास् त्वा मन्थिपाः प्रणयन्त्व् अनाधृष्टासि सुवीराः प्रजाः प्रजनयन् परीहि सुप्रजाः प्रजाः प्रजनयन्न् अभिपरीहि ॥
इन्द्रेण मन्युना युजावबाधे पृतन्यतः ।
घ्नता वृत्रान्य् अप्रति ॥
सञ्जग्मानौ दिवा पृथिव्या शुक्रौ शुक्रशोचिषौ तौ देवौ शुक्रामन्थिना आयुर् यज्ञे धत्तम् आयुर् यज्ञपतौ पुमांसं गर्भम् आधत्तं गवीण्योः प्राणान् पशुषु यछतं शुक्रस्याधिष्ठानम् असि मन्थिनो ऽधिष्ठानम् असि निरस्तः शण्डो निरस्तो मर्कः सह तेन यं द्विष्मः ॥
या प्रथमा संस्कृतिर् यज्ञे अस्मिन् यः परमो बृहस्पतिश् चिकित्वान् ।
यो मध्यमो वरुणो मित्रो अग्निस् तस्मा इन्द्राय सुतम् आजुहोत तस्मै सूर्याय सुतम् आजुहोत
॥१.३.१२॥ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥
देवासो : फ़्न् एमेन्देद्। एद्।: दवासो।
उपयामगृहीतो ऽस्य् आग्रायाणो ऽसि स्वाग्रायणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवनानि पाह्य् अतस् त्वा विष्णुः पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः
॥१.३.१३॥उपयामगृहीतो ऽसि ॥
इन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवम् ।
यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ॥
एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि देवेभ्यस् त्वा देवायुवं गृह्णामि पुनर्हविर् असि देवेभ्यस् त्वा देवायुवं पृणच्मि यज्ञस्यायुषे
॥१.३.१४॥मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् ।
कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
उपयामगृहीतो ऽसि वैश्वानराय त्वा ॥
ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् वैश्वानराय त्वा ॥
ध्रुवं ध्रुवेण हविषा वः सोमं नयामसि ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥
दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यां पार्थिवान्
॥१.३.१५॥उपयामगृहीतो ऽसि मधवे त्वा माधवाय त्वा शुक्राय त्वा शुचये त्वा नभसे त्वा नभस्याय त्वेषाय त्वोर्जाय त्वा सहसे त्वा सहस्याय त्वा तपसे त्वा तपस्याय त्वा
॥१.३.१६॥इन्द्राग्नी आगतं सुतं गीर्भिर् नभो वरेण्यम् ।
अस्य पातं धियेषिता ॥
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा
॥१.३.१७॥ओमासश् चर्षणीधृतो विश्वे देवासा आगत ।
दाश्वांसो दाशुषः सुतम् ॥
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः
॥१.३.१८॥इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्न् आविवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते
॥१.३.१९॥जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं जजनज् जनिष्ठम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते
॥१.३.२०॥मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवे ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते
॥१.३.२१॥मरुत्वं इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते
॥१.३.२२॥सजोसा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते
॥१.३.२३॥महं इन्द्रो य ओजसा पर्जन्यो वृष्टिमं इव ।
स्तोमैर् वत्सस्य वावृधे ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा
॥१.३.२४॥महं इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा
॥१.३.२५॥कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूया इन् नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥
कदा चन प्रयुछस्य् उभे निपासि जन्मनी ।
तुरीयादित्य सवनं त इन्द्रियम् आतस्था अमृतं दिवि ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥
यज्ञो देवानां प्रत्येतु सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥
अहं परस्ताद् अहम् अवस्ताद् अहं विश्वस्य भुवनस्य राजा ।
अहं सूर्यम् उभयतो ददर्श यद् अन्तरिक्षं तद् उ नः पिताभूत् ॥
उन्नम्भय पृथिवीं भिन्ध्य् अदो दिव्यं नभः ।
उद्नो दिव्यस्य नो धातर् ईशानो विष्या दृतिम्
॥१.३.२६॥अदब्धेभिः सवितः पायुभिष् ट्वं शिवेभिर् अद्य परिपाहि नो वृधे ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्स ईशत ॥
उपयामगृहीतो ऽसि सावित्रो ऽसि जनधाया जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवनानि पाह्य् अतस् त्वा विष्णुः पातु विशं त्वं पाहीन्द्रियेण
॥१.३.२७॥उपयामगृहीतो ऽसि ॥
सुशर्मासि सुप्रतिष्ठानो बृहदुक्षे नमः ॥
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः
॥१.३.२८॥उपयामगृहीतो ऽसि बृहस्पतिसुतस्य त इन्द इन्द्रियावतः ॥
पत्नीवन्तं ग्रहं राध्यासम् ॥
अग्ना३इ पत्नीवा३न्त् सजूस् त्वष्ट्रा सोमं पिब
॥१.३.२९॥उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिवान् हर्योः स्थाता स्तुतस्तोमस्य ते देव सोम शस्तोक्थस्येष्टयजुषः ॥
हरिवतो हारियोजनस्य हरिवन्तं ग्रहं राध्यासम् ॥
हर्योर् धाना हरिवतीः सहसोमा इन्द्राय रय्यै त्वा पोषाय त्वा
॥१.३.३०॥अग्ना आयूंषि पवसा आसुवोर्जम् इषं च नः ।
आरे बाधस्व दुछुनाम् ॥
उपयामगृहीतो ऽसि अग्नये त्वायुष्मत एष ते योनिर् अग्नये त्वायुष्मते
॥१.३.३१॥ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् ।
इन्द्रश् चर्मेव रोदसी ॥
उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते
॥१.३.३२॥अदृश्रन्न् अस्य केतवो वि रश्मयो जनं अनु ।
भ्राजन्तो अग्नयो यथा ॥
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते
॥१.३.३३॥इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा हरिवत एष ते योनिर् इन्द्राय त्वा हरिवते
॥१.३.३४॥उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि रातं देवेभ्यो दक्षाय दक्षवृधम् अग्निह्वरेभ्यस् त्वा ऋतायुभ्या इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वाद्भ्यस् त्वौषधीभ्यो वनस्पतिभ्यस् त्वा प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वा भूताय त्वा भव्याय त्वा येन प्रजा अछिद्रा अजायन्त तस्मै त्वा प्रजापतये विश्वकर्मणे विश्वव्यचसे विभूदाव्ने विभुं भागं जुहोमि स्वाहा ॥
तिस्रो जिह्वस्य समिधः परिज्मनो ऽग्नेर् अकृण्वन्न् उशिजो अमृत्यवे ।
तासाम् एकाम् अदधुर् मर्त्ये भुजं लोकम् उ द्वे उप जामी ईयतुः
॥१.३.३५॥अग्निः प्रातः सवनात् पात्व् अस्मान् वैश्वानरो विश्वश्रीर् विश्वशम्भूः ।
स नः पावको द्रविणं दधात्व् आयुष्मन्तः सहभक्षाः स्याम ॥
अग्नये त्वा प्रवृहामि गायत्रेण छन्दसेन्द्राय त्वा प्रवृहामि त्रैष्टुभेन छन्दसादित्येभ्यस् त्वा प्रवृहामि जागतेन छन्दसा रेशीनां त्वा पत्मन्न् आधूनोमि मान्दानां त्वा पत्मन्न् आधूनोमि भन्दनानां त्वा पत्मन्न् आधूनोमि पूतनानां त्वा पत्मन्न् आधूनोमि पस्त्यानां त्वा पत्मन्न् आधूनोमि माध्वीनां त्वा पत्मन्न् आधूनोमि मदुघानां त्वा पत्मन्न् आधूनोमि देवयानीनां त्वा पत्मन्न् आधूनोम्य् उपयामगृहीतो ऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णाम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥
आ समुद्रा अचुच्यवुर् दिवो धारा असश्चत ॥
ककुभं रूपं वृषभस्य रोचते बृहद् वसूनाम् आधीतौ रुद्राणां कर्मन्न् आदित्यानां चेतसीन्द्राय त्वा विभूवसे जुहोम्य् उशिक् त्वं देव सोम गायत्रेण छन्दसाग्नेर् धामोपेहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य धामोपेह्य् अस्मत्सखा देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथा उपेहि
॥१.३.३६॥उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उदगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥
द्यां गछ स्वर् गछ रूपं वो रूपेणाभ्येमि वयसा वयस् तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाके पृथिव्याः ॥
एतत् ते अग्ने राध एति सोमच्युतं तन् मित्रस्य पथा नय ॥
अयं नो अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर एतु प्रभिन्दन् ।
अयं शत्रून् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
ऋतस्य पथा प्रेत चन्द्रदक्षिणा ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयं सुधातुदक्षिणम् ॥
वि स्वः पश्य व्यन्तरिक्षं यतस्व सदस्यैर् अस्मद्राता मधुमतीर् देवत्रा गछत प्रदातारम् आविशतानवहायास्मान् देवगानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतम्
॥१.३.३७॥धाता रातिः सवितेदं जुषन्तां प्रजापतिर् वरुणो मित्रो अग्निः ।
विष्णुस् त्वष्टा प्रजया संरराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र नो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति सं देवानां सुमतौ यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो विदधातु रायो ऽनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥
सुगा वो देवाः सदना कृणोमि य आजग्मेदं सवनं जुषाणाः ।
जक्षिवांसः पपिवांसश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवांस् तान् प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवींष्य् असुं घर्मं दिवम् आतिष्ठतानु ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।
ऋधग् अयाड् ऋधग् उताशमिष्ट विद्वान् प्रजानन्न् उपयाहि यज्ञम् ॥
यज्ञ यज्ञं गछ यज्ञपतिं गछ स्वं योनिं गछ स्वाहैष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरस् तेन सम्भव भ्राजं गछ देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा
॥१.३.३८॥उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु ॥
आरे बाधस्व निरृतिं पराचैः कृतं चिद् एनः प्रमुमुग्ध्य् अस्मत् ॥
अग्नेर् अनीकम् अप आविवेशापां नपात् प्रतिरक्षद् असुर्यान् ॥
दमेदमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच्चरण्यत् ॥
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
यज्ञस्य ते यज्ञपते सूक्तोक्तौ नमोवाके विधेम ॥ स्वाहावभृथ निचुङ्कुण निचेरुर् असि निचुङ्कुणो गृहं गृहो ऽव नो देवैर् देवकृतम् एनो यक्ष्य् अव मर्त्यैर् मर्त्यकृतं चिकित्वान् उरोर् आ नो देव रिषस् पाह्य् अप्सु धौतस्य ते देव सोम नृभिः ष्टुतस्य यस् ते गोसनिर् भक्षो यो अश्वसनिस् तस्य ता उपहूता उपहूतस्य भक्षयामि विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायोन्नेतर् वसीयो ना उन्नयाभि ॥
उदुत् ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
कण्वा इव भृगवः सूर्या इव विश्वम् इद् धितम् आनशुः ।
उदेत प्रजाम् उत वर्चो दधाना युष्मान् राय उत यज्ञा असश्चत ॥
गायत्रं छन्दो अनु संरभध्वम् अथा स्यात सुरभयो गृहेषु ।
एधो ऽस्य् एधिषीमहि समिद् असि समेधिषीमहि ॥
अपो अद्यान्वचारिषं रसेन समसृक्ष्महि ।
पयस्वान् अग्ना आगमं तं मा संसृज वर्चसा
॥१.३.३९॥