प्रथमकाण्डे द्वितीयः प्रपाठकः
प्रथमकाण्डे द्वितीयः प्रपाठकः
तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तञ् शकेयम्
॥१.२.१॥आकूत्यै प्रयुजे अग्नये स्वाहा मेधायै मनसे अग्नये स्वाहा दीक्षायै तपसे अग्नये स्वाहा सरस्वत्यै पूष्णे अग्नये स्वाहा ॥
आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष ।
बृहस्पतिर् नो हविषा वृधातु ॥ स्वाहा ॥
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥
ऋक्सामयोः शिल्पे स्थस् ते वाम् आरभ आ मोदृचः पातं विष्णोः शर्मासि शर्म मे यछ नमस् ते अस्तु मा मा हिंसीः ॥
इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण संशिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेयम् ॥
सूर्याग्नी द्यावापृथिवी उरो अन्तरिक्षाप ओषधया उप मा दीक्षायां दीक्षापतयो ह्वयध्वं देव सवितस् त्वं दीक्षाया दीक्षापतिर् असीत्थं मा सन्तं पाह्य् ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जं मयि धेहीन्द्रस्य योनिर् असि गोपाय मा नमस् ते अस्तु मा मा हिंसीः ॥
कृषिं सुसस्याम् उत्कृषे सुपिप्पला ओषधीस् कृधि ।
विषाणे विष्यैतं ग्रन्थिं यद् अस्य गुष्पितं हृदि मनो यद् अस्य गुष्पितम् ॥
बृहन्न् असि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहि नक्षत्राणां मातीकाशात् पाहि ॥
आ वो देवास ईमहे वामं प्रयत्य् अध्वरे ।
यद् वो देवास आगुरि यज्ञियासो हवामहे ॥
स्वाहा यज्ञं मनसः स्वाहा दिवः स्वाहा पृथिव्याः स्वाहोरोर् अन्तरिक्षात् स्वाहा वातात् परिगृह्णामि स्वाहा
॥१.२.२॥नक्षत्राणां सकाशान् मा यौषं व्रतं चरत ॥
दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये ।
वर्चोधां यज्ञवाहसं सुतीर्था नो असद् वशे ॥
ये देवा मनुजाता मनोयुजः सुदक्षा दक्षपितरस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥
शिवाः पीता भवत यूयम् आपो अस्माकं योना उदरे सुशेवाः ।
इरावतीर् अनमीवा अनागसः शिवा नो भवत जीवसे ॥
कामो हविषां मन्दिष्ठो ऽग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि ।
गोपाय नः स्वस्तये प्रबुधे नः पुनस् कृधि ॥
पुनर् मनः पुनर् आयुर् ना आगात् पुनः प्राणः पुनर् आकूतम् आगात् ।
वैश्वानरो ऽदब्धस् तनूपा अपबाधतां दुरितानि विश्वा ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ ।
त्वं यज्ञेष्व् ईड्यो व्रतम् अस्मासु धारय ॥
पूषा सनीनां सोमो राधसां मा पृणन् पूर्त्या विराधिष्ट मा वयम् आयुषा वर्चसा च रास्वेयत् सोमा भूयो भर देवः सविता वसोर् वसुदावा वायुर् गोपास् त्वष्टाधिपतिः पुषा प्रतिग्रहीता देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो मा क्रमिषं याः पशूनाम् ऋषभे वाचस् ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिणोमि यथाभागं वो अत्र शिवा नः पुनर् आयन्तु वाचो वायवे त्वा वरुणाय त्वा रुद्राय त्वा निरृत्यै त्वेन्द्राय त्वा मरुद्भ्यस् त्वा
॥१.२.३॥इयं ते शुक्र तनूर् इदं वर्चस् तया सम्भव भ्राजं गछ जूर् असि धृता मनसा जुष्टा विष्णवे तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि चिद् असि मनासि धीर् असि दक्षिणासि यज्ञियासि क्षत्रियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी सा नः सुप्राची सुप्रतीची भव मित्रस् त्वा पदि बध्नातु पूषाध्वनः पात्व् इन्द्रायाध्यक्षायानु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः सा देवि देवम् अछेहीन्द्राय सोमं रुद्रस् त्वावर्तयतु स्वस्ति सोमसखा पुनर् एहि वस्व्य् असि रुद्रास्य् अदितिर् अस्य् आदित्यासि चन्द्रासि रुद्रासि बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आचके पृथिव्यास् त्वा मूर्धन्न् आजिघर्मि यज्ञिया इडायास् पदे घृतवति स्वाहास्मे रमस्वास्मे ते रायस् तव रायस् तवतव रायो मा रायस्पोषेण वियौष्म त्वष्ट्रिमन्तस् त्वा सपेम
॥१.२.४॥सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकाम् ।
यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥
अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
आस्माको ऽसि शुक्रस् ते ग्रहः स्वाहा त्वा विचिद्भ्यः ॥
अभि त्यं देवं सवितारमोण्योः कविक्रतुम् अर्चामि सत्यसवसं रत्नधाम् अभि प्रियं मतिम् ।
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥
प्रजाभ्यस् त्वा प्रजास् त्वानुप्राणन्तु प्रजाः पाहि शुक्रं ते शुक्र शुक्रेण चन्द्रं चन्द्रेणामृतम् अमृतेन क्रीणामि देव सोम शक्म यत् ते गोर् अस्मे ते चन्द्राणि तपसस् तनूर् असि प्रजापतेर् वर्णः सहस्रपोषं पुष्यन्ती परमेण पशुना क्रीयस्वास्मे ते बन्धुः सुवाङ् नभ्राड् अङ्घारे बम्भारे ऽस्तर् अहस्त कृशान एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् दुश्चक्षा वो मावक्शत्
॥१.२.५॥सोमक्रयणास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
स्वजा असि स्वभूर् अस्य् अस्मे कर्मणे जात ऋतेन त्वा गृह्णाम्य् ऋतेन नः पाहि मित्रो ना एहि सुमित्रधः सह रायस्पोषेणेन्द्रस्योरुम् आविश दक्षिणम् उशन्न् उशन्तं स्योनः स्योनम् ॥
उद् आयुषा स्वायुषोद् ओषधीनां रसेन ।
उत् पर्जन्यस्य धाम्नोदस्थाम् अमृतं अनु ॥
उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद ॥
अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्न्यासु ।
हृत्सु क्रतुं वरुणं दिक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥
धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर ॥
वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भो ऽसि ॥
प्रच्यवस्व भुवनस्पते विश्वान्य् अभि धामानि ।
मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन् ॥
श्येनो भूत्वा परापत यजमानस्य नो गृहे संस्कृतम् ।
देवेभ्यः सुत्यायै ॥
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥
वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भसर्जनम् असि ॥
विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायाग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिथेर् आतिथ्यम् असि विष्णवे त्वाग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा वारुणम् असि वरुणो ऽसि धृतव्रतो वरुणस्य ऋतसदनम् आसीद वरुणाय त्वा
॥१.२.६॥अग्नेर् जनित्रम् असि वृषणौ स्थ उर्वश्य् अस्य् आयुर् असि पुरूरवा असि गायत्रम् असि त्रिष्टुब् असि जगद् असि ॥
भवतं नः समनसौ समोकसौ सचेतसा अरेपसौ ॥
मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
अग्ना अग्निश् चरति प्रविष्टा ऋषीणां पुत्रो अधिराज एषः ॥
तस्मै विधेम हविषा वयं मा देवानां यूयुपाम भागधेयम् ॥
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे शक्मने शक्वराय शक्मना ओजिष्ठायानाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजः ॥ अभिशस्तिपा अनभिशस्तेन्यम् ॥
अनु म इदं व्रतं व्रतपतिर् मन्यताम् अनु दीक्षां दीक्षापतिर् अञ्जसा सत्यम् उपागां सुविते मा धा अग्ने व्रतपते या मम तनूर् एषा सा त्वय्य् अग्ने व्रतपते या तव तनूर् इयं सा मयि सह नौ व्रतपते व्रतिनोर् व्रतान्य् अंशुरंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद आ त्वम् इन्द्राय प्यायस्वा तुभ्यम् इन्द्रः प्यायताम् आप्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय स्वस्त्य् उदृचम् एष्टा राया एष्टा वामानि प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ॥
या ते अग्ने ऽयाशया तनूर् वर्षिष्ठा गहेनष्ठा ।
त्वेषं वचो अपावधीर् उग्रं वचो अपावधीः ॥ स्वाहा ॥
या ते अग्ने रजाशया या ते अग्ने हराशया या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यै ते स्वाहा
॥१.२.७॥तप्तायनी मे ऽसि वित्तायनी मे ऽस्य् अवतान् मा नाथितम् अवताद् व्यथितम् अग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि वसवस् त्वा हरन्तु गायत्रेण छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि रुद्रास् त्वा हरन्तु त्रैष्टुभेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यस् तृतीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेह्य् आदित्यास् त्वा हरन्तु जागतेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे विदेर् अग्ने नभो नाम यत् ते सिंहीर् असि महिषीर् असि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्तु पितरस् त्वा मनोजवा दक्षिणतः पान्तु रुद्रास् त्वा प्रचेतसः पश्चात् पान्तु विश्वकर्मा त्वादित्यैर् उत्तरात् पातु सिंहीर् असि सपत्नसाही स्वाहा सिंहीर् असि रायस्पोषवनिः स्वाहा सिंहीर् असि सुप्रजावनिः स्वाहा सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहा सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहा भूतेभ्यस् त्वा विश्वायुर् असि पृथिवीं दृम्ह ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहाच्युतक्षिद् असि दिवं दृंहाग्नेर् भस्मास्य् अग्नेः पुरीषम् अस्य् अग्नेः कुलायम् असि ॥
विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपता अविह्रुतम् ।
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति
॥१.२.८॥देवश्रुतौ देवेष्व् आघोषेथाम् ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एका इन् मही देवस्य सवितुः परिष्टुतिः ॥
अप जन्यं भयं नुद मा चक्रा आवृत्सत ।
गृहं सोमस्य गछतं गछद् इन्द्रस्य निष्कृतम् ॥
इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।
समूढम् अस्य पांसुरे ॥
इरावती धेनुमती हि भूतं सूयवसिनी मनवे यशस्ये ।
व्यष्कभ्ना रोदसी विष्ण एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥
सुवाग् आवद देव दुर्यं अरिष्यन्न् अरिष्यतः ॥
आ नो वीरो जायतां कर्मण्यो ऽभिशस्तिपा अनभिशस्तेन्यः ।
यं बहवो ऽनुजीवान् यो बहूनाम् असद् वशी ॥
वैष्णवम् असि विष्णुस् त्वोत्तभ्नातु ॥
दिवो विष्ण उत वा पृथिव्या उरोर् वा विष्णो बृहतो अन्तरिक्षात् ।
हस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्रयछ दक्षिणाद् ओत सव्यात् ॥
विष्णोर् नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥
विष्णोः पृष्ठम् असि विष्णो रराटम् असि विष्णोः शिप्रे स्थो विष्णोः स्यूर् असि विष्णोर् ध्रुवो ऽसि वैष्णवम् असि विष्णवे त्वा ॥
प्र तद् विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा
॥१.२.९॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ऽभ्रिर् असि नारिर् असीदम् अहं रक्षसो ग्रीवा अपिकृन्तामीदम् अहं यो मे समानो यो ऽसमानो ऽरातीयति तस्य ग्रीवा अपिकृन्तामि बृहन्न् असि बृहद्राया बृहतीम् इन्द्राय वाचं वद रक्षोहणं वलगहनं वैष्णवीं सम्राड् असि सपत्नहेदम् अहं तान् वलगान् उद्वपामि यान् मे समानो यान् असमानो निचखान ये कुल्फदघ्ने निरस्तो वलगः स्वराड् अस्य् अभिमातिहेदम् अहं तान् वलगान् उद्वपामि यान् मे सजातो यान् असजातो निचखान ये जानुदघ्ने निरस्तो वलगो विराड् असि रक्षोहेदम् अहं तान् वलगान् उद्वपामि यान् मे सबन्धुर् यान् असबन्धुर् निचखान ये नाभिदघ्ने निरस्तो वलगः सत्रराड् अस्य् अशस्तिहेदम् अहं तान् वलगान् उद्वपामि यान् मे भ्रातृव्यो यान् अभ्रातृव्यो निचखान ये अंसदघ्ने निरस्तो वलगः सर्वराड् अस्य् अरातीयतो हन्तेदम् अहं तान् वलगान् उद्वपामि यान् मे सजन्यो यान् असजन्यो निचखान ये शीर्षदघ्ने निरस्तो वलगः ॥
सम्मृश इमान् आयुषे वर्चसे च देवानां निधिर् असि द्वेषोयवनः ।
युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम ॥
देवानाम् इदं निहितं यद् अस्त्य् अथाभाहि प्रदिशश् चतस्रः ।
कृण्वानो अन्यं अधरान्त् सपत्नान्
॥१.२.१०॥पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥
उञ्श्रयस्व वनस्पते सजूर् देवेन बर्हिषा ।
नितानस् त्वा मारुतो निहन्तु मित्रावरुणौ ध्रुवेण धर्मणा ॥
ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥
घृतेन द्यावापृथिवी आपृण विश्वजनस्य छायासि ॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
इन्द्राय त्वेन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवो ऽस्य् ऐन्द्रम् असीन्द्राय त्वा रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् रक्षोहणं त्वा वलगहनम् अवसिञ्चामि वैष्णवं रक्षोहणं त्वा वलगहनम् अवस्तृणामि वैष्णवं रक्षोघ्नी वां वलगघ्नी उपदधामि वैष्णवी रक्षोघ्नी वां वलगघ्नी पर्यूहामि वैष्णवी रक्षोहणं त्वा वलगहनम् आस्तृणामि वैष्णवम्
॥१.२.११॥विभूर् असि प्रवाहणो वह्निर् असि हव्यवाहनः श्वात्रो ऽसि प्रचेतास् तुथो ऽसि विश्ववेदा अवस्युर् असि दुवस्वान् अङ्घारिर् असि बम्भारिर् उशिग् असि कविः शुन्ध्युर् असि मार्जालीयः सम्राड् असि कृशानुः परिषद्यो ऽस्य् आस्तव्यो नभो ऽसि प्रतक्वासम्मृष्टो ऽसि हव्यसूदनः सगरो ऽसि विश्ववेदा ऋतधामासि स्वर्ज्योतिः समुद्रो ऽसि विश्वव्यचा अजो ऽस्य् एकपाद् अहिर् असि बुध्न्यः कव्यो ऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस् ते अस्तु मा मा हिंसीः
॥१.२.१२॥त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः ।
उरु यन्तासि वरूथम् ॥ स्वाहा ॥
जुषाणो अप्तुर् आज्यस्य वेतु ॥ स्वाहा ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥
उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियंसत् पातं नो द्यावापृथिवी उपस्थे ॥
उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद देव सवितर् एष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् एतत् त्वं देव सोम देवान् उपावृतेदम् अहं मनुष्यान्त् सह रायस्पोषेण प्रजया चोपावर्ते नमो देवेभ्यः स्वधा पितृभ्यो निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् अग्ने व्रतपते या तव तनूर् मय्य् अभूद् एषा सा त्वय्य् अग्ने व्रतपते या मम तनूस् त्वय्य् अभूद् इयं सा मयि पुनर् नौ व्रतपते व्रतिनोर् व्रतानि यथायथं नौ व्रतपते व्रतिनोर् व्रतानि वि व्रतानि सृजावहै
॥१.२.१३॥उपावृत : फ़्न् ⟨ उपावृतस्
उपावृत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: लिएस् उपावृत्त स्तत्त् उपावृत
उपावृत : फ़्न् च्फ़्। ३।९।१:११३।१४: उपावृता इति। अवृतस् स्ग्२ अओरिस्त्
अत्य् अन्यान् अगां नान्यान् उपागाम् अर्वाक् त्वा परेभ्यः परो ऽवरेभ्यो ऽविदं तं त्वा जुषामहे देवयज्यायै जुष्टं विष्णवे विष्णवे त्वा ॥
उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥
यं त्वाम् अयं स्वधितिस् तिग्मतेजाः प्रणिनाय महते सौभगाय ।
दिवम् अग्रेण मा हिंसीर् अन्तरिक्षं मध्येन पृथिव्या सम्भव भ्राजं गछ ।
वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेम ॥
पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥
स्वावेशो ऽस्य् अग्रेगा नेत्πणाम् अधि त्वा स्थास्यति तस्य वित्स्व ॥
घृतेन द्यावापृथिवी आपृण देवस् त्वा सविता मध्वानक्तु ॥
इन्द्रस्य चषालम् असि सुपिप्पला ओषधीस् कृधि दिवम् अग्रेणोत्तभानान्तरिक्षं मध्येनापृण पृथिवीम् उपरेण दृम्ह ॥
ता ते धामान्य् उश्मसि गमध्यै गावो यत्र भूरिशृङ्गा अयासः ।
अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अवभाति भूरि ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥
ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥
तद् विष्णोः परमं पदं शच्या पश्यन्ति सूरयः ।
दिवीव चक्षुर् आततम् ॥
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानं मनुष्याः सह रायस्पोषेण प्रजया च व्ययन्तां दिवः सानूपेष दिवं ते धूमो गछत्व् अन्तरिक्षं ज्योतिः पृथिवीं भस्म स्वाहा
॥१.२.१४॥इषे त्वोपावीर् अस्य् उपो देवान् दैवीर् विशः प्रागुर् वह्नय उशिजो बृहस्पते धारया वसूनि हव्या ते स्वदं देव त्वष्टर् वसु रणे रेवती रमध्वं देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चाम्य् अमुष्मै त्वा जुष्टं धर्षा मानुषा अद्भ्यस् त्वौषधीभ्यो जुष्टं प्रोक्षाम्य् अनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यो ऽनुमानावह देवान् देवायते यजमानायापां पेरुर् असि स्वात्तं सद् धविर् आपो देवीः स्वदन्तु सं ते वायुर् वातेन गछतां सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा घृतेनाक्तौ पशूंस् त्रायेथाम् ॥
मानुषास् : फ़्न् प्: मानुषः
ये बध्यमानम् अनु बध्यमाना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष् टं अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
टं : फ़्न् प्: तान्।
रेवति प्रेधा यज्ञपतिम् आविशोरो अन्तरिक्ष सजूर् देवेन वातेन ॥
त्मनास्य हविषो यज सम् अस्य तन्वा भव ।
वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धाः ॥
स्वर्विद् असि स्वर् वित्त्वा स्वर् इहि स्वर् मह्यं स्वः पशुभ्यो लोकविद् असि लोकं वित्त्वा लोकम् इहि लोकं मह्यं लोकं पशुभ्यो नाथविद् असि नाथं वित्त्वा नाथम् इहि नाथं मह्यं नाथं पशुभ्यो गातुविद् असि गातुं वित्त्वा गातुम् इहि गातुं मह्यं गातुं पशुभ्यः ॥
न वा एतन् म्रियसे नोत रिष्यसि देवं इद् एषि पथिभिः शिवेभिः ।
यत्र यन्ति सुकृतो नापि दुष्कृतस् तत्र त्वा देवः सविता दधातु ॥
शमितार उपेतन यज्ञं देवेभिर् अन्वितम् ।
पाशात् पशुं प्रमुञ्चत बन्धाद् यज्ञपतिं परि ॥
अदितिः पाशान् प्रमुमोक्त्व् एतान् पशोः पाशान् पशुपतेर् अधि ।
यो नो द्वेष्ट्य् अधरः स पद्यतां तस्मिन् पाशान् प्रतिमुञ्चाम एतान्
॥१.२.१५॥एतान् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
नमस् त आतानानर्वा प्रेहि यजमानाय घृतस्य कुल्याम् अनु सह रायस्पोषेण देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म वाचम् अस्य मा हिंसीः प्राणम् अस्य मा हिंसीश् चक्षुर् अस्य मा हिंसीः श्रोत्रम् अस्य मा हिंसीर् यत् ते क्रूरं यद् आस्थितं तद् एतेन शुन्धस्व देवेभ्यः शुम्भस्व गात्राण्य् अस्य मा हिंसीश् चरित्रान् अस्य मा हिंसीर् नाभिम् अस्य मा हिंसीर् मेढ्रम् अस्य मा हिंसीः पायुम् अस्य मा हिंसीः शम् अद्भ्यः ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥
पृथिव्यै त्वा रक्षसां भागो ऽसीदम् अहं रक्षो ऽवबाध इदम् अहं रक्षो ऽधमं तमो नयामीषे त्वोर्जे त्वा देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ॥
घृतेन द्यावापृथिवी प्रोर्णुवाताम् अमुष्मै त्वा जुष्टं नमः सूर्यस्य सन्दृशे ॥
उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् वायोः स्तोकानां प्रयुता द्वेषांसि स्वाहोर्ध्वनभसं मारुतं देवं गछतम्
॥१.२.१६॥द्वेषांसि : फ़्न् च्फ़्। ३।१०।१:१३१।२
स्वाहोर्ध्वनभसं : फ़्न् च्फ़्। ३।१०।१:१३१।२
जुष्टं देवेभ्यो हव्यं घृतावद् अमुष्मै त्वा जुष्टं रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिण्वन् वातस्य त्वा ध्राज्यै पूष्णो रंह्या ऊष्मणो ऽव्यथिषे ऽपाम् ओषधीनां रसो घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा त्वा वाताय दिशः प्रदिश आदिशो विदिश उद्दिशो दिश ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यद् ऐन्द्रो ऽपानो अङ्गे अङ्गे निबोभुवद् ऐन्द्रो व्यानो अङ्गे अङ्गे विबोभुवत् ॥
देव त्वष्टर् भूरि ते सत् समेतु सलक्ष्म यद् विषुरूपं बभूव ।
देवत्रा यन्तम् अवसे सखायो अनु त्वा माता पितरो मदन्तु
॥१.२.१७॥समुद्रं गछ स्वाहान्तरिक्षं गछ स्वाहा देवं सवितारं गछ स्वाहाहोरात्रे गछ स्वाहा मित्रावरुणौ गछ स्वाहा द्यावापृथिवी गछ स्वाहा छन्दांसि गछ स्वाहा सोमं गछ स्वाहा यज्ञं गछ स्वाहा दिव्यं नभो गछ स्वाहाग्निं वैश्वानरं गछ स्वाहा मनो हार्दिं यछौषधीभ्यस् त्वा ॥
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्न्या वरुणेति शपामहै ।
ततो वरुण नो मुञ्च ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
सुमित्रा ना आपा ओषधयः सन्तु दुर्मित्रास् तस्मै सन्तु ।
यो अस्मान् द्वेष्टि यं च वयं द्विष्मः
॥१.२.१८॥