skipLink.label

प्रथम काण्ड, प्रपाठक 1

प्रथम काण्ड, प्रपाठक 1

प्रथमकाण्डे प्रथमः प्रपाठकः

प्रथमकाण्डे प्रथमः प्रपाठकः

इषे त्वा सुभूताय वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या देवेभ्या इन्द्राय भागं मा वः स्तेन ईशत माघशंसो धुर्वा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि

॥१.१.१॥

गोषद् असि प्रत्युष्टं रक्षः प्रत्युष्टारातिः ॥

प्रेयम् अगाद् धिषणा बर्हिर् अछ मनुना कृता स्वधया वितष्टा ।

तयावहन्ते कवयः पुरस्तात् ॥

देवानां परिषूतम् असि विष्णोः स्तुपो ऽतिसृष्टो गवां भागो देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामि ॥

अतस् त्वं बर्हिः शतवल्शं विरोह सहस्रवल्शा वि वयं रुहेम ॥

अयुपिता योनिर् अदित्या रास्नासीन्द्राण्याः सन्नहनं पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थाद् इन्द्रस्य त्वा बाहुभ्याम् उद्यछे बृहस्पतेर् मूर्ध्नाहराम्य् उर्व् अन्तरिक्षं वीह्य् अदित्यास् त्वा पृष्ठे सादयामि

॥१.१.२॥

शुन्धध्वं दैव्याय कर्मणे वसूनां पवित्रम् असि शतधारं सहस्रधारम् अछिद्रतनु ॥

द्यौर् असि पृथिव्य् असि मातरिश्वनो घर्मः ॥

विश्वहोतुर् धामन्त् सीद ॥

पोषाय त्वादित्या रास्नासि काम् अधुक्षः सा विश्वायुर् अस्त्व् असौ काम् अधुक्षः सा विश्वभूर् अस्त्व् असौ काम् अधुक्षः सा विश्वकर्मास्त्व् असौ हुतः स्तोको हुतो द्रप्सो ऽग्ने पाहि विप्रुषः सुपचा देवेभ्यो हव्यं पचाग्नये त्वा बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् इन्द्राय त्वा भागं सोमेनातनच्मि विष्णो हव्यं रक्षस्वापो जागृत

॥१.१.३॥

वेषाय वां कर्मणे वां सुकृताय वां देवीर् आपो ऽग्रेगुवो ऽग्रेणीयो ऽग्रे ऽस्य यज्ञस्य प्रेताग्रं यज्ञं नयताग्रं यज्ञपतिं युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये प्रोक्षिताः स्थ संसीदन्तां दैवीर् विशो वानस्पत्यासि वर्षवृद्धम् अस्य् उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर

॥१.१.४॥

देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् विष्णोः क्रमो ऽस्य् उरु वाताय मित्रस्य वश् चक्षुषा प्रेक्षे देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपाम्य् अमुष्मै वो जुष्टान् इदं देवानाम् इदम् उ नः सह दृंहन्तां दुर्याः स्वाहा द्यावापृथिवीभ्यां निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् उर्व् अन्तरिक्षं वीह्य् अदित्या व उपस्थे सादयामि

॥१.१.५॥

देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।

वसोः सूर्यस्य रश्मिभिः ॥

अग्नये वो जुष्टान् प्रोक्षाम्य् अमुष्मै वो जुष्टान् यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् अदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु पृथुग्रावासि वानस्पत्यः प्रति त्वादित्यास् त्वग् वेत्त्व् अग्नेर् जिह्वासि वाचो विसर्जनम् आयुषे वो बृहद्ग्रावासि वानस्पत्यो देवेभ्यो हव्यं शमीष्व सुशमि शमीष्व कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेषम् आवदोर्जम् आवद रायस्पोषम् आवद

॥१.१.६॥

वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्तु परापूतं रक्षः परापूतारातिः प्रविद्धो रक्षसां भागो ऽदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वा पार्वती वेत्त्व् अदित्याः स्कम्भो ऽसि धान्यम् असि धिनुहि देवान् प्राणाय त्वापानाय त्वा व्यानाय त्वा दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वो मित्रस्य वश् चक्षुषावेक्षे देवो वः सविता हिरण्यपाणिर् उपगृह्णातु

॥१.१.७॥

निर्दग्धं रक्षो निर्दग्धारातिः समुद्रं मा धाग् ध्रुवम् असि पृथिवीं दृंहापाग्ने ऽग्निम् आमादं जहि निः क्रव्यादं नुदस्वाग्ने देवयजनं वह धरुणम् अस्य् अन्तरिक्षं दृम्ह धर्त्रम् असि दिवं दृम्ह धर्मासि विश्वा विश्वानि दृम्ह चिद् असि परिचिद् असि विश्वासु दिक्षु सीद सजातान् अस्मै यजमानाय परिवेशय सजाता इमं यजमानं परिविशन्तु वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् ॥

यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।

पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम्

॥१.१.८॥

देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामि ॥

देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।

वसोः सूर्यस्य रश्मिभिः ॥

सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन ।

सं रेवतीर् जगतीः शिवाः शिवाभिः समसृक्षतापः ॥

सीदन्तु विशो जनयत्यै त्वा घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतां सं ते तन्वा तन्वः पृच्यन्ताम् ॥

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।

दधद् रत्नानि दाशुषे ॥

देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या अग्ने ब्रह्म गृह्णीष्व

॥१.१.९॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुस् तिग्मतेजाः पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि मा वः शिवा ओषधयो मूलं हिंसिषं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि द्रप्सस् ते दिवं मा स्कान् व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि वसवस् त्वा परिगृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परिगृह्णन्तु जागतेन छन्दसापाररुं पृथिव्या अदेवयजनं सत्यसद् अस्य् ऋतसद् असि घर्मसद् असि ॥

पुरा क्रूरस्य विसृपो विरप्शिन उदादाय पृथिवीं जीरदानुम् ।

ताम् ऐरयंश् चन्द्रमसि स्वधाभिस् तां धीरासः कवयो ऽनुदिश्यायजन्त

॥१.१.१०॥

प्रत्युष्टं रक्षः प्रत्युष्टारातिर् आयुः प्राणं मा निर्मार्जीश् चक्षुः श्रोत्रं मा निर्मार्जीर् वाचं पशून् मा निर्मार्जीर् यज्ञं प्रजां मा निर्मार्जीस् तेजो ऽसि शुक्रम् असि ज्योतिर् अस्य् अमृतम् असि वैश्वदेवम् असि ॥

हविर् असि वैश्वानरम् उन्नीतशुष्मं सत्यौजाः ।

सहो ऽसि सहस्वारातिं सहस्व पृतनायतः ॥

सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि हविषो हविः सत्यस्य सत्यं सत्याभिघृतं सत्येन त्वाभिघारयाम्य् अदब्धेन त्वा चक्षुषावेक्षे रायस्पोषाय सुप्रजास्त्वाय ॥

धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।

देववीत्यै त्वा गृह्णामि ॥

देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म कृष्णो ऽस्य् आखरेष्ठो ऽग्नये घृतं भव वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामि बर्हिर् असि वेद्यै त्वा जुष्टं प्रोक्षामि स्वाहा पितृभ्यो घर्मपावभ्यः

॥१.१.११॥

आखरेष्ठस् : फ़्न् सन्धि इस् स्त्रन्गे। एद्।: आखरेष्ठा अग्नये। प्: आखरेष्ठः।

पूषा ते ग्रन्थिं विष्यतु विष्णोः स्तुपो ऽस्य् उरु प्रथस्वोर्णम्रदं स्वासस्थं देवेभ्यो गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषमाणो यजमानस्य परिधिर् इड ईडित इन्द्रस्य बाहुर् असि दक्षिणो यजमानस्य परिधिर् इड ईडितो मित्रावरुणौ त्वोत्तरतः परिधत्तां यजमानस्य परिधिर् असीड ईडितः ॥

नित्यहोतारं त्वा कवे द्युमन्तः समिधीमहि ॥

वर्षिष्ठे अधि नाके पृथिव्याः सूर्यस् त्वा रश्मिभिः पुरस्तात् पातु कस्याश्चिद् अभिशस्त्या विश्वजनस्य विधृती स्थो वसूनां रुद्राणाम् आदित्यानां सदो ऽसि स्रुचां योनिर् द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदान्तरिक्षम् असि जन्मनोपभृन् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद पृथिव्य् असि जन्मना ध्रुवा नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद ऋषभो ऽसि शाक्वरो वषट्कारस्य त्वा मात्रायां सादयामि ॥

ध्रुवा असदन्न् ऋतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि ॥

पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् ॥

विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि

॥१.१.१२॥

सूयमे मे ऽद्य स्तं स्वावृतौ सूपावृतव् अग्नाविष्णू विजिहाथां मा मा हिंसिष्टं लोकं मे लोककृतौ कृणुतं मा मोदोषिष्टम् आत्मानं मे पातं शिवौ भवतम् अद्य नो विष्णोः स्थामासीत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥

ऊर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेः ।

इन्द्रवान्त् स्ववान् बृहद्भाः ॥

वीहि मधोर् घृतस्य स्वाहा सं ज्योतिषा ज्योतिः ॥

वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभत् ।

अथा सपत्नान् इन्द्रो मे निग्राभेणाधरं अकः ॥

उद्ग्राभश् च निग्राभश् च ब्रह्म देवं अवीवृधत् ।

अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

वसुर् अस्य् उपावसुर् असि विश्वावसुर् अस्य् अप्तुभी रिहाणा व्यन्तु वयो वशा पृश्निर् भूत्वा मरुतो गछ ततो नो वृष्ट्यावत ॥

संस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः ।

इमां वाचम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥

देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा

॥१.१.१३॥