द्वितीयकाण्डे द्वादशः प्रपाठकः
द्वितीयकाण्डे द्वादशः प्रपाठकः
पयस्वतीः प्रदिशः सन्तु मह्यम्
॥२.१२.१॥ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरसो मुदा नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट् संहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयो नामेषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसा ऊर्जो नाम भुजी सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरसा एष्टयो नाम बृहस्पतिर् विश्वकर्मेन्द्रो गन्धर्वस् तस्य मरुतो ऽप्सरसा ओजो नाम प्रजापतिः परमेष्ठी मनो गन्धर्वस् तस्य ऋक्सामाण्य् अप्सरसः स्तवा नामामृडयो दूरेहेतिर् मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरवो नाम स नो भुवनस्य पते यस्य त उपरि गृहा विराट्पते ऽस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यछ यस्य ते विश्वा आशा अप्सरसः प्लीया नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट्
॥२.१२.२॥समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा सजूर् अब्दा आयवभिः सजूर् उषा आरुणीभिः सजोषा अश्विना दंसोभिः सजूः सूरा एतशेन सजूर् वैश्वानर इडया घृतेन स्वाहा ॥
इडया : फ़्न् एमेन्देद्। एद्।: ईडया। च्फ़्। ३।४।४:४९।११
अग्निं युनज्मि शवसा घृतेन दिव्यं सुपर्णं वयसं बृहन्तम् ।
तेन वयं पतेम ब्रध्नस्य विष्टपं स्वो रुहाणा अधि नाक उत्तमे ॥
इमौ ते पक्षा अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् अग्ने ।
ताभ्यां वयं पतेम सुकृताम् उलोकं यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥
इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥
दिवो मूर्धासि नाभिः पृथिव्या ऊर्ग् अपाम् ओषधीनाम् ।
विश्वायुः शर्म सप्रथा नमस् पथे विश्वस्य मूर्धन्न् अधितिष्ठसि श्रितः ॥
समुद्रे ते हृदयम् अन्तर् आयुर् अपो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।
धत्ताद् अस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागदां देवतासु ॥
इष्टो यज्ञो भृगुभिर् द्रविणोदा यत्तिभिर् आशीर्दा वसुभिः ।
इष्टो अग्निर् आहुतः पिपर्तु न इष्टं हविः स्वगेदं देवेभ्यो नमः
॥२.१२.३॥यत्तिभिर् : फ़्न् १।४।१:४८।४: यतिभिर्
येना ऋषयस् तपसा सत्रम् आसतेन्धाना अग्निं स्वर् आभरन्तः ।
यम् आहुर् मनवः स्तीर्णबर्हिषं तस्मिन्न् अहं निदधे नाके अग्निम् ॥
स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।
तं पत्नीभिर् अनुगछेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः ॥
अयम् अग्निर् वीरतमो वयोधाः सहस्रीयो ज्योतताम् अप्रयुछन् ।
विभ्राजमानः सलिलस्य मध्या उप प्रयाहि दिव्यानि धामन् ॥
अग्ने च्यवस्व सम् अनु प्रयाह्य् आविष् पथो देवयानान् कृणुष्व ।
इदमिदं सुकृतम् आरभस्व यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥
सम्प्रच्यवध्वम् उप सं प्रयाताविष् पथो देवयानान् कृणुध्वम् ।
एभिः सुकृतैर् अनुगछेम देवा यत्र नः पूर्वे पितरः परेताः ॥
उद्बुध्यस्वाग्ने प्रतिजागृह्य् एनम् इष्टापूर्ते संसृजेथाम् अयं च ।
पुनः कृण्वन्तः पितरो युवानो ऽन्वातांसुस् तव तन्तुम् एतम् ॥
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे ॥
अयं ते
॥२.१२.४॥समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशश् चतस्रः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
मा च रिषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ॥
त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ॥
इहैवाग्ने अधिधारया रयिं मा त्वा निक्रन् पूर्वचित्तौ निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥
क्षत्रेणाग्ने स्वेन संरभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमेष्ठेयाय राज्ञाम् अग्ने विहष्यो दीदिहीह ॥
अति निहो अति सृधो अत्य् अचित्तिम् अति निरृतिम् अद्य ।
विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
व्य् अमीवाः प्रमुञ्चन् मानुषाणां शिवेभिर् अद्य परिपाहि नो वृधे ॥
बृहस्पते सवितर् बोधयैनं संशितं चित् सन्तरं संशिशाधि ।
वर्धयैनं महते सौभगाय विश्वे चैनम् अनुमदन्तु देवाः ॥
अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः ।
प्रत्यूहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्
॥२.१२.५॥ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपाद् असुरो विश्ववेदा देवो देवेभ्यो देवयानान्
पथो अनक्तु मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानः ॥
नराशंसो अग्निः सुकृद् देवः सविता विश्ववारः ।
अछायम् एति शवसा घृतेन ॥
ईडानो वह्निर् नमसाग्निं स्रुचो अध्वरेषु प्रयत्सु ।
स यक्षद् अस्य महिमानम् अग्नेः ।
स ईं मन्द्रा सुप्रयसा स्तरीमन् । बर्हिषो मित्रमहाः ।
वसुश् चेतिष्ठो वसुधातमश् च ॥
द्वारो देवीर् अन्व् अस्य विश्वा व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योना उषासानक्ता ।
इमं यज्ञम् अवताम् अध्वरं नः ॥
दैव्या होतारा ऊर्ध्वम् इमम् अध्वरं नो ऽग्नेर् जिह्वाभिगृणीतम् ।
कृणुतं नः स्विष्टम् ॥
तिस्रो देवीर् बर्हिर् एदं स्योनम् इडा सरस्वती मही ।
भारती गृणाना ॥
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टः सुवीर्यम् ।
रायस्पोषं विष्य नाभिम् अस्मे ॥
वनस्पते ऽवसृजा रराणस् त्मना देवेभ्यः ।
अग्निर् हव्यं शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेदा इन्द्राय देवेभ्यः ।
विश्वे देवा हविर् इदं जुषन्ताम्
॥२.१२.६॥