द्वितीयकाण्डे एकादशः प्रपाठकः
द्वितीयकाण्डे एकादशः प्रपाठकः
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्मांश् च सत्यश् च ऋतपाश् चात्यंहा ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्तिमित्रश् च दूरेऽमित्रश् च गण ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारय ईडृङ् चैतादृङ् च सदृङ् च प्रतिसदृङ् च मितश् च सम्मितश् च सभरा ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षासा एतन मितासश् च सम्मितासो न ऊतये सभरसो मरुतो यज्ञे अस्मिन्न् इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन्न् एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु
॥२.११.१॥वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसृतिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च मा आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूंषि च मे शरीराणि च मे ज्यैष्ठ्यं च मा आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघ्मा च मे वृद्धं च मे वृद्धिश् च मे
॥२.११.२॥सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे सूक्तं च मे सुकृतं च मे जातं च मे जनिष्यमाणं च मे वित्तं च मे वेद्यं च मे भूतं च मे भव्यं च म ऋद्धं च मा ऋद्धिश् च मे सुगं च मे सुपथं च मे कॢप्तं च मे क्रॢप्तिश् च मे मतिश् च मे सुमतिश् च मे शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे
॥२.११.३॥यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयुश् च म ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च मा औद्भेत्रं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितिश् च मे ऽक्षुच् च मे ऽन्नं च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे ऽणवश् च मे प्रियङ्गवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे मुद्गाश् च मे खर्वाश् च मे
॥२.११.४॥पर्वताश् च मे गिरयश् च मे सिकताश् च मे वनस्पतयश् च मे ऽश्मा च मे अमृत्तिका च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपु च मे श्यामं च मे लोहितायसं च मे ऽग्निश् च मा आपश् च म ओषधयश् च मे वीरुधश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे ऽर्थश् च मा एम च म इत्या च मे गतिश् च मे कर्म च मे शक्तिश् च मे वसु च मे वसतिश् च मे ऽग्निश् च मा इन्द्रश् च मे सोमश् च मा इन्द्रश् च मे सविता च मा इन्द्रश् च मे सरस्वती च मा इन्द्रश् च मे पूषा च मा इन्द्रश् च मे ऽदितिश् च मा इन्द्रश् च मे धाता च मा इन्द्रश् च मे त्वष्टा च मा इन्द्रश् च मे मित्रश् च मा इन्द्रश् च मे वरुणश् च मा इन्द्रश् च मे विष्णुश् च मा इन्द्रश् च मे बृहस्पतिश् च मा इन्द्रश् च मे वसवश् च मा इन्द्रश् च मे रुद्राश् च मा इन्द्रश् च म आदित्याश् च मा इन्द्रश् च मे मरुतश् च मा इन्द्रश् च मे पृथिवी च मा इन्द्रश् च मे ऽन्तरिक्षं च मा इन्द्रश् च मे द्यौश् च मा इन्द्रश् च मे नक्षत्राणि च मा इन्द्रश् च मे समा च मा इन्द्रश् च मे कृषिश् च मा इन्द्रश् च मे वृष्टिश् च मा इन्द्रश् च मे दिशश् च मा इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे ऽंशुश् च मे रश्मिश् च मे ऽधिपतिश् च मे ऽदाभ्यश् च म उपांशुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रायणश् च मे वैश्वदेवश् च म ऐन्द्राग्नश् च मे क्षुल्लकवैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पात्नीवतश् च मे हारियोजनश् च मे स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ऽधिषवणे च मे ग्रावाणश् च मे पूतभृच् च मे ऽपूतभृच् च मे बर्हिश् च मे वेदिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे
॥२.११.५॥अग्निश् च घर्मश् चार्कश् च सूर्यश् च प्राणश् चाश्वमेधश् चादितिश् च पृथिवी च दितिश् च द्यौश् च शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋतुश् च व्रतं च संवत्सरश् च तपश् चाहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् एका च तिस्रश् चा त्रयस्त्रिंशतश् चतस्रश् चाष्टौ चाष्टाचत्वारिंशतस् त्र्यविश् च त्र्यवी च दित्यवाट् च दित्यौही च पञ्चाविश् च पञ्चवी च त्रिवत्सश् च त्रिवत्सा च तुर्यवाट् च तुर्यौही च पष्ठवाट् च पष्ठौही चोक्षा च वशा च ऋषभश् च वेहच् च धेनुश् चानड्वांश् च स्तोमश् च यजुश् च ऋक् च साम च दीक्षा च तपश् च बृहच् च रथन्तरं चौषधयो वनस्पतयो दिशश् च मे यज्ञेन कल्पन्ताम् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा
॥२.११.६॥