skipLink.label

द्वितीय काण्ड, प्रपाठक 7

द्वितीय काण्ड, प्रपाठक 7

द्वितीयकाण्डे सप्तमः प्रपाठकः

द्वितीयकाण्डे सप्तमः प्रपाठकः

आनुष्टुभेन छन्दसा

॥२.७.१॥

प्रतूर्तं वाजिन्न् आद्रव वरिष्ठाम् अनु संवतम् ।

दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥

युञ्जाथां रासभं युवम् अस्मिन् यामे वृषण्वसू ।

अग्निं भरन्ता अस्मयुम् ॥

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।

सखाया इन्द्रम् ऊतये ॥

प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् रुद्रस्य गाणपत्यान् मयोभूर् एहि ॥

उर्व् अन्तरिक्षं वीहि ॥

स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥

अग्निं पुरीष्यम् अङ्गिरस्वद् आभराग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमो ऽग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥

अन्व् अग्निः ॥

आगत्य वाज्य् अध्वानं सर्वा मृधो विधूनुते ।

अग्निं सधस्थे महति चक्षुषा निचिकीषति ॥

आक्रम्य वाजिन् पृथिवीम् अग्निम् इछ रुचा त्वम् ।

भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयम् ॥

द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मानतरिक्षं समुद्रो योनिः ।

विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यतः ॥

उत्क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।

वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥

उदक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकं सुकृतं पृथिव्याः ।

ततः खनेम सुप्रतीकम् अग्निं स्वो रुहाणा अधि नाक उत्तमे ॥

आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।

पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नं रभसं दृशानम् ॥

आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषस्व ।

मर्यश्रीः स्पृहयद्वर्णो अग्निर् नाभिधृषे तन्वा जर्हृषाणः ॥

परि वाजपतिः ॥

परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।

धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।

त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतं शिवं प्रजाभ्यो ऽहिंसन्तं पृथिव्याः सधस्थे अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः

॥२.७.२॥

अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।

वर्धमानो मह आ च पुष्करे दिवो मात्रया वरिणा प्रथस्व ॥

शर्म च स्थो वर्म च स्थो अछिद्रे बहुले उभे ।

व्यचस्वती संवसेथां भर्तम् अग्निं पुरीष्यम् ॥

संवसेथां स्वर्विदा समीची उरसा त्मना ।

अग्निं भरिष्यन्ती अन्ता रोचमानम् अजस्रम् इत् ॥

पुरीष्यो ऽसि विश्वभरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ने ॥

त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निरमन्थत ।

मूर्ध्नो विश्वस्य वाघतः ॥

तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः ।

वृत्रहणं पुरन्दरम् ॥

तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।

धनञ्जयं रणेरणे ।

सीद होतः स्व उलोके चिकित्वान्त् सादया यज्ञं सुकृतस्य योनौ ।

देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥

नि होता होतृषदने विदानस् त्वेषो दीदिवं असदत् सुदक्षः ।

अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥

संसीदस्व महं असि शोचस्व देववीतमः ।

वि धूमम् अग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥

जनिष्व हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु ।

दमेदमे सप्त रत्ना दधानो ऽग्निर् होता निषसाद यजीयान् ॥

अयम् इह ॥

इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम्महेमा मनीषया ।

भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ॥

अयं ते

॥२.७.३॥

अपो देवीर् उपसृजा मधुमतीर् अयक्ष्माय प्रजाभ्यः ।

तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः ॥

सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।

यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥

सुजातो ज्योतिषा शर्म वरूथम् आसदत् स्वः ।

वासो अग्ने विश्वरूपं संव्ययस्व विभावसो ॥

उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।

दृशा च भासा बृहता सुशिक्मनाग्ने याहि सुशस्तिभिः ॥

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।

ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघाद्भिर् विह्वयामहे ॥

सजातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृता ओषधीषु ।

चित्रः शिशुष् परि तमांस्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥

स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् ।

पृथुर् भव सुषदस् त्वम् अग्नेः पुरीष्यवाहनः ॥

शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।

मा द्यावापृथिवीं हिंसीर् मान्तरिक्षं मा वनस्पतीन् ॥

प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।

भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ॥

वृषाग्निं वृषणं भरन्न् अपां गर्भं समुद्रियम् ।

अग्ना आयाहि वीतये ॥

ऋतं सत्यम् ऋतं सत्यम् अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः

॥२.७.४॥

ओषधयः प्रतिगृभ्णीताग्निम् एतं शिवम् आयन्तम् अभ्य् अत्र युष्मान् ।

व्यस्यन् विश्वा अनिरा अमीवा निषीदन् नो अप दुर्मतिं जहि ॥

ओषधयः प्रतिमोदध्वम् एनं पुष्पवतीः सुपिप्पलाः ।

अयं वो गर्भ ऋत्वियः प्रत्नं सधस्थम् आसदत् ॥

वि पाजसा पृथुना शोशुचानो बाधस्व रिपून् रक्षसो अमीवाः ।

सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥

आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।

महे रणाय चक्षसे ॥

यो वः शिवतमो रसस् तस्य भाजयतेह नः ।

उशतीर् इव मातरः ॥

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।

आपो जनयथा च नः ॥

मित्रः संसृज्या पृथिवीं भूमिं च ज्योतिषा स्वः ।

सुजातं जातवेदसम् अयक्ष्माय त्वा संसृजामि प्रजाभ्यः ॥

रुद्राः संसृज्या पृथिवीं बृहज् ज्योतिः समीधिरे ।

तेषां भानुर् अजस्रा इञ् शुक्रो देवेषु रोचते ॥

संसृष्टां वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।

हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥

सिनीवाली सुकपर्दा सुकरीरा स्वोपशा ।

सा तुभ्यम् अदिते मह्य् ओखां ददातु हस्तयोः ॥

उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।

माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भा आ

॥२.७.५॥

मखस्य शिरो ऽसि वसवस् त्वा कृण्वन्तु गायत्रेण् छन्दसाङ्गिरस्वद् उखे ध्रुवासि पृथिव्य् असि धारया मयि प्रजां रायश्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवास्य् अन्तरिक्षम् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्यास् त्वा कृण्वन्तु जागतेन छन्दसाग्ङ्गिरस्वद् उखे ध्रुवासि द्यौर् असि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानाय विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे ध्रुवासि दिशो ऽसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् अस्मै यजमानायादित्या रास्नास्य् अदितिष् टे बिलं गृभ्णातु ॥

कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।

तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इति ॥

वसवस् त्वा धूपयन्त्व् अङ्गिरस्वद् रुद्रास् त्वा धूपयन्त्व् अङ्गिरस्वद् आदित्यास् त्वा धूपयन्त्व् अङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् बृहस्पतिष् ट्वा धूपयत्व् अङ्गिरस्वद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवट देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखे धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्द्धाम् उखे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखे वरुत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखे जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखे ॥

मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।

द्युम्नं चित्रश्रवस्तमम् ॥

देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।

सुबाहुर् उत शक्त्या ॥

उत्तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ।

अव्यथमाना पृथिव्य् आशा दिशा आपृण ॥

मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥

वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वद् उखे रुद्रास् त्वाछृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वद् उख आदित्यास् त्वाछृन्दन्तु जागतेन छन्दसाङ्गिरस्वद् उखे विश्वे त्वा देवा वैश्वानरा आछृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् उखे

॥२.७.६॥

आकूतम् अग्निं प्रयुजं स्वाहा मनो मेधाम् अग्निं प्रयुजं स्वाहा चित्तं विज्ञातम् अग्निं प्रयुजं स्वाहा वाचो विधृतम् अग्निं प्रयुजं स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा ॥

विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।

विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥

मा सु भित्था मा सु रिषो दृंहस्व वीरयस्व सु ।

अम्ब धृष्णु वीरयस्वाग्निश् चेदं करिष्यथः ॥

दृंहस्व देवि पृथिवि स्वस्तये आसुरी माया स्वधया कृतासि ।

जुष्टं देवेभ्य इदम् अस्तु हव्यम् अरिष्टा त्वम् उदिहि यज्ञे अस्मिन् ॥

द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।

सहसस् पुत्रो अद्भुतः ॥

परस्या अधि संवतो ऽवरं अभ्यातर ।

यत्राहम् अस्मि तं अव ॥

परमस्याः परावतो रोहिदश्व इहागहि ।

पुरीष्यः पुरुप्रियो अग्ने त्वं तरा मृधः ॥

यद् अग्ने यानि कानि चा ते दारूणि दध्मसि ।

सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति ।

सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

रात्रींरात्रीम् अप्रयावं भरन्तो ऽश्वायेव तिष्ठते घासम् अस्मै ।

रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥

नाभा पृथिव्याः समिधानो अग्निं रायस्पोषाय बृहते हवामहे ।

इरम्मदं बृहदुक्थं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥

याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत ।

ये स्तेना ये च तस्करास् तांस् ते अग्ने अपिदधाम्य् आस्ये ॥

ये जनेषु मलिम्लवः स्तेनासस् तस्करा वने ।

ये कक्षेष्व् अघायवस् तांस् ते दधामि जम्भयोः ॥

दंष्ट्राभ्यां मलिम्लून् अग्ने जम्भाभ्यां तस्करं उत ।

हनुभ्यां स्तेनान् भगवस् तांस् त्वं खाद मुखादितम् ॥

यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।

निन्दाद् यो अस्मान् दिप्साच् च सर्वांस् तान् मृस्मृसा कुरु ॥

उद् एषां बाहून् अतिरम् उद् वर्चो अथो बलम् ।

क्षिणोमि ब्रह्मणामित्रान् उन्नयामि स्वं अहम् ॥

संशितं मे ब्रह्म संशितं वीर्यं बलम् ।

संशितं क्षत्रं मे जिष्णु यस्याहम् अस्मि पुरोहितः ॥

ब्रह्म क्षत्रं सयुजा न व्यथेते ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।

क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि

॥२.७.७॥

दृशानो रुक्म उरुया विभाति दुर्मर्षम् आयुः श्रिये रुचानः ।

अग्निर् अजरो ऽभवत् सहोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥

नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकं समीची ।

द्यावाक्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥

विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।

वि नाकम् अक्शत् सविता वरेण्यो ऽनु प्रयाणम् उषसो विराजति ॥

सुपर्णो ऽसि गरुत्मांस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ स्तोम आत्मा छन्दांस्य् अङ्गानि यजूंषि नाम साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ॥

सुपर्णो ऽसि गरुत्मान् दिवं गछ स्वः पत ॥

विष्णोः क्रमो ऽसि सपत्नहा गायत्रं छन्दा आरोह पृथिवीम् अनुविक्रमस्व विष्णोः क्रमो ऽस्य् अभिमातिहा त्रैष्टुभं छन्दा आरोहान्तरिक्षम् अनुविक्रमस्व विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्दा आरोह दिवम् अनुविक्रमस्व विष्णोः क्रमो ऽसि शत्रूयत्ऽ हन्तानुष्टुभं छन्दा आरोह दिशो ऽनुविक्रमस्व ॥

अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षमा रेरिहद् वीरुधः समञ्जन् ।

सद्यो जज्ञानो वि हीम् इद्धो अक्शद् आ रोदसी भानुना भात्य् अन्तः ॥

अग्ने ऽभ्यावर्तिन्न् अग्ने अङ्गिरः पुनर् ऊर्जा सह रय्या ॥

आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलत् ।

विशस् त्वा सर्वा वान्छन्त्व् अस्मे राष्ट्राणि धारय ॥

उद् उत्तमं वरुण पाशम् अस्मत् ॥

अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।

अग्निर् भानुना रुशता स्वङ्गा आ जातो विश्वा सद्मान्य् अप्राः ॥

हंसः शुचिषत् ॥

सीद त्वं मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।

मैनाम् अर्चिषा मा तपसाभिशोचीर् अन्तर् अस्यां शुक्रज्योतिर् विभाहि ॥

अन्तर् अग्ने रुचा त्वम् उखायां सदने स्वे ।

तस्यै त्वं हरसा तपन् जातवेदः शिवो भव ॥

शिवो भूत्वा मह्यम् अग्ने अथा सीद शिवस् त्वम् ।

शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः

॥२.७.८॥

दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयं परि जातवेदाः ।

तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जनते स्वाधीः ॥

विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा ।

विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आबभूथ ॥

समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्ना ऊधन् ।

तृतीये त्वा रजसि तस्थितांसम् ऋतस्य योनौ महिषा अगृभ्णन् ॥

श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।

वसुः सूनुः सहसो अप्सु राजा विभात्य् अग्र उषसाम् इधानः ॥

उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो निधायि ।

इयर्ति धूमम् अरुषो भरिभ्रद् उञ् शुक्रेण शोचिषा द्याम् इनक्षन् ॥

अक्रन्दद् अग्निः ॥

विश्वस्य जज्ञे भुवनस्य राजा रोदसी अपृणाज् जायमानः ।

वीडुं चिद् अद्रिम् अभिनत् परायन् जना यद् अग्निम् अयजन्त पञ्च ॥

नक्तोषासा ॥

यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने ।

प्र तं नय प्रतरं वस्यो अछाभि द्युम्नं देवहितं यविष्ठ्य ॥

आ तं भज सौश्रवसेष्व् अग्न उक्थौक्था आभज शस्यमाने ।

प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥

त्वाम् अग्ने यजमाना अनु द्यून् दूतं कृण्वाना अयजन्त हव्यैः ।

त्वया सह द्रविणम् इछमाना व्रजं गोमन्तम् उशिजो विवव्रुः ॥

अस्ताव्य् अग्निर् नृणां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।

अद्वेष्ये द्यावापृथिवी हुवे देवा धत्त रयिम् अस्मे सुवीरम्

॥२.७.९॥

उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः ।

स नो भव शिवस् त्वं सुप्रतीको विभावसुः ॥

प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।

बृहद्भिर् भानुभिर् भासन् मा हिंसीस् तन्वा प्रजाः ॥

अक्रन्दद् अग्निः ॥

समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।

आस्मिन् हव्या जुहोतन ॥

प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।

अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥

आपो देवीः प्रतिगृभ्णीत भस्मैतत् स्योने कृणुध्वं सुरभा उलोके ।

तस्मै नमन्तां जनयः सनीडा मातेव पुत्रं बिभृता स्व् एनत् ॥

अप्स्व् अग्ने सधिष् टव सौषधीर् अनुरुध्यसे ।

गर्भः सञ्जायसे पुनः ॥

गर्भो ऽस्य् ओषधीनां गर्भो वनस्पतीनाम् ।

गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥

प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।

सङ्गत्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥

पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।

शेषे मातुर् यथोपस्थे अन्तर् अस्यां शिवतमः ॥

पुनर् ऊर्जा सह रय्या ॥

बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।

निन्दति त्वो अनु त्वो ववन्द वन्दारुं ते तन्वं वन्दे अग्ने ॥

स बोधि सूरिर् मघवा वसुदावा वसुपतिः ।

युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम

॥२.७.१०॥

अपेत वीत वि च सर्पतातो ये ऽत्र स्थं पुराणा ये च नूतनाः ।

अदाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् अस्मै ॥

अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि सञ्ज्ञानम् असि कामधरणं मयि ते कामधरणं भूयात् ॥

अयं सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।

सहस्रियं वाजम् अत्यं न सप्तिं ससवान्त् संस्तूयसे जातवेदः ॥

अग्ने दिवो अर्णम् अछा जिगास्य् अछा देवं ऊचिषे धिष्ण्या ये ।

याः परस्ताद् रोचनाः सूर्यस्य याश् चावस्ताद् उपतिष्ठन्ता आपः ॥

अग्ने यत् ते दिवि वर्चः पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु ।

येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षः ॥

पुरीष्यासो अग्नयः प्रवणेन सजोषसः ।

जुषन्तां हव्यम् आहुतम् अनमीवा इषो महीः ॥

इडाम् अग्ने पुरुडंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥

अयं ते ॥

चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद चितः स्थ परिचितः स्थोर्ध्वश्रितः श्रयध्वम् ॥

समितं सङ्कल्पेथां सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।

इषम् ऊर्जम् अभि संवसानौ ॥

सं वां मनांसि सं व्रता सम् उ चित्तान्य् आकरम् ।

अग्ने पुरीष्याधिपा भव त्वं ना इषम् ऊर्जं यजमानाय धेहि ॥

त्वम् अग्ने पुरीष्यो रयिमान् पुष्टिमं असि ।

शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥

भवतं नः ॥

मातेव पुत्रं पृथिवी पुरीष्यम् अग्निं स्वे योना अभार् उखा ।

तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा विमुञ्चतु

॥२.७.११॥

असुन्वन्तम् अयजमानम् इछ स्तेनस्येत्याम् अन्विहि तस्करस्य ।

अन्यम् अस्मद् इछ सा त इत्या नमो देवि निरृते तुभ्यम् अस्तु ॥

नमः सु ते निरृते तिग्मतेजो ऽयस्मयं विचृता बन्धम् एतम् ।

यमेन त्वं यम्या संविदानोत्तमे नाके अधि रोहयैनम् ॥

यद् अद्य ते ॥

यं ते देवी निरृतिर् आबबन्ध पाशं ग्रीवास्व् अविचर्त्यम् ।

तं ते विष्याम्य् आयुषो नु मध्ये ऽथा जीवः पितुम् अद्धि प्रमुक्तः ॥

यद् अस्य पारे रजसो महश् चित्रं ज्योतिर् अजायत ।

तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानर ॥ स्वाहा भूत्यै नमः ॥

निवेशनः सङ्गमनो वसूनां विश्वा रूपाण्य् अभिचष्टे शचीभिः ।

देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥

येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः ।

येनाङ्गिरसो महिमानम् आनशुस् तेन यन्तु यजमानाः स्वस्ति ॥

पूषा युनक्तु सविता युनक्तु बृहस्पतिर् वो युनक्तु ।

अग्नेस् तेजसा सूर्यस्य वर्चसा ॥

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।

धीरा देवेषु सुम्नया ॥

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।

गिरा च श्रुष्टिः सभरा असन् नो नेदीया इत् सृण्यः पक्वम् आयत् ॥

लाङ्गलं पवीरवं सुशेवं सोमपित्सरु ।

उद् इद् वपतु गाम् अविं प्रस्थावद् रथवाहनं प्रफर्व्यं च पीवरीम् ॥

शुनं सुफाला वितुदन्तु भूमिं शुनं कीनाशो अभ्येतु वाहैः ।

शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तनास्मे ॥

शुनासीरा : फ़्न् एमेन्देद्। एद्।: शनासीरा

शुनं नरो लाङ्गलेनानडुद्भिर् भगः फालैः सीरपतिर् मरुद्भिः ।

पर्जन्यो बिजम् ईरयानो धिनोतु शुनासीरा कृणुतं धान्यं नः ॥

शुनासीरा प्रकृषतं कृणुतं धान्यं बहु ।

भूमिर् इयम् ऋत्वियवती तां फाला उपजिघ्नतु ॥

घृतेन सीता मधुना समज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।

ऊर्जो भागं मधुमत् पिन्वमानास्मान्त् सीते पयसाभ्याववृत्स्व ॥

उद् योजनम् अन्तर्यामम् ईषां खृगल्यं शवम् ।

अष्ट्रां ताडं प्रतीनाहा उभे मण्डूक्यौ युजे ॥

उदस्थाद् गोजिद् अश्वजिद् धिरण्यजित् सूनृतया परीवृतः ।

एकचक्रेण सविता रथेनोर्जो भागं पृथिव्या यात्य् आपृणन् ॥

इमाम् इन्द्र हस्तच्युतिं सच्युतिं जघनच्युतिम् ।

ससूतिम् इन्द्र सग्धितिम् ऊर्जं सपीतिम् उत्कृषे ॥

उष्टारयोः पील्वयोर् अथो आबन्धनीययोः ।

सर्वेषां विद्म वो नाम वाहाः कीलालपेशसः ॥

विमुच्यध्वम् अघ्न्या देवयाना अतारिष्ट तमसस् पारम् अस्य ।

ज्योतिर् आपाम

॥२.७.१२॥

या ओषधयः प्रथमजा देवेभ्यस् त्रियुगं पुरा ।

मन्वे नु बभ्रूणाम् अहं शतं धामानि सप्त च ॥

शतं वो अम्ब धामानि सहस्रम् उत वो रुहः ।

अथा शतक्रतो यूयम् इमं मे अगदं कृत ॥

पुष्पवतीः प्रसूवरीः फलिनीर् अफला उत ।

अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥

ओषधीर् इति मातरस् तद् वो देवीर् उपब्रुवे ।

रपांसि विघ्नतीर् इत रपश् चातयमानाः ॥

अश्वत्थे वो निवेशनं पर्णे वो वसतिः कृता ।

गोभाजा इत् किलासथ यत् सनवाथ पूरुषम् ॥

यद् ओषधयः सङ्गछन्ते राजानः समिता इव ।

विप्रः स उच्यते कवी रक्षोहामीवचातनः ॥

निष्कृतिर् नाम वो माताथा त्वम् असि सङ्कृतिः ।

सराः पतत्रिणीः स्थन यद् आमयति निष्कृत ॥

अश्वावतीं सोमवतीम् ऊर्जयन्तीम् उदोजसम् ।

आयुक्षि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥

यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे ।

आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

उञ् शुष्मा ओषधीनां गावो गोष्ठाद् इवेरते ।

धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥

अति विश्वाः परिष्ठाः स्तेन इव व्रजम् अक्रमुः ॥

ओषधयः प्राचुच्यवुर् यत् किञ्च तन्वो रपः ॥

यास् त आविविशुर् आत्मानं या आतस्थुः परुःपरुः ।

तास् ते यक्ष्मं विबाधन्ताम् उग्रो मध्यमशीर् इव ॥

साकं यक्ष्म प्रपत चाषेण किकिदीव्या ।

साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत ।

ताः सर्वाः संविदाना ओषधयः प्रावत वाचं मे ॥

याः फलिनीर् या अफला अकोशा याश् च कोशिनीः ।

बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ॥

अवपतन्तीर् अवदन् दिव ओषधयस् परि ।

यं जीवम् अश्नवामहे न स रिष्याति पूरुषः ॥

दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।

समुद्रान् नद्यो वेशन्तांस् ते नो मुञ्चन्त्व् अंहसः ॥

ब्रूमो राजानं वरुणं धातारम् उत पूषणम् ।

त्वष्टारम् अग्रीयं ब्रूमस् ते नो मुञ्चन्त्व् अंहसः

॥२.७.१३॥

मा नो हिंसीज् जनिता यः पृथिव्या यो दिवं सत्यधर्मा व्यानट् ।

यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥

अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह ।

वपां ते अग्निर् इषितो अरोहत् ॥

अग्ने यञ् शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।

तद् देवेभ्यो भरामसि ॥

इषम् ऊर्जम् अहम् इत आदि घृतस्य धारां महिषस्य योनिम् ।

आ नो गोषु विशत्व् ओषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥

कामं कामदुघे धुक्ष्व प्रजाभ्या ओषधीभ्यः ।

इन्द्रायाग्नये पूष्णे मित्राय वरुणाय च ॥

अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो ।

बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥

पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।

पुत्रो मातरा विचरन्न् उपावस्य् ओभे पृणासि रोदसी ॥

इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य ।

स दर्शतस्य वपुषो विराजसि पृणक्षि सानसिं रयिम् ॥

ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।

त्व एषः सन्दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥

ऋतावानं महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः ।

श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैवं मानुषा युजा ॥

इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।

रातिं वामस्य सुभगां महीम् इषं दधासि सानसिं क्रतुम् ॥

आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।

भवा वाजस्य सङ्गथे ॥

सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।

आप्यायमानो आमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व

॥२.७.१४॥

ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः ।

स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।

स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

अद्भ्यः सम्भृतः पृथिव्या रसाच् च विश्वकर्मणः समवर्तताधि ।

तस्य त्वष्टा विदधद् रूपम् एति तत् पुरुषस्य देवम् आजानम् अग्रे ॥

द्रप्सश् चस्कन्द ॥

नमो अस्तु सर्पेभ्यो ये केच पृथिवीम् अनु ।

ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥

य इषवो यातुधानानां ये वनस्पतीनाम् ।

ये ऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

ये अमी रोचने दिवो ये वा सूर्यस्य रश्मिषु ।

ये अप्सु षदांसि चक्रिरे तेभ्यः सर्पेभ्यो नमः ॥

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवं इभेन ।

तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥

तव भ्रमास आशुया पतन्त्य् अनुस्पृश धृषता शोशुचानः ।

तपोभिर् अग्ने जुह्वा पतङ्गान् असन्दितो विसृज विष्वग् उल्काः ॥

प्रति स्पशो विसृजा तूर्णितमो भवा पायुर् विशो अस्या अदब्धः ।

यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आदधर्षीत् ॥

उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्रं ओषतात् तिग्महेते ।

यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥

ऊर्ध्वो भव प्रतिविध्याध्य् अस्मद् आविः कृणुष्व दैव्यान्य् अग्ने ।

अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्रमृणीहि शत्रून् ॥

अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः ।

मूर्धा कवी रयीणाम् ॥

अग्नेष् ट्वा तेजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

इन्द्रस्य त्वौजसा सादयामि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ध्रुवासि धरुणास्तृता विश्वकर्मणा सुधृता मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृम्ह तेजो ऽसि तेजो मे यछ पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि ज्योतिर् असि ज्योतिर् मे यछान्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि स्वर् असि स्वर् मे यछ दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि ॥

यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।

ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥

काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषस् परि ।

एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ॥

या शतेन प्रतनोषि सहस्रेण विरोहसि ।

तस्यै ते देवीष्टके विधेम हविषा वयम्

॥२.७.१५॥

यास् ते अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।

ताभिर् नो अद्य सर्वाभी रुचे जनाय नस् कृधि ॥

या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।

इन्द्राग्नी ताभिः सर्वाभी रुचं नो धेहि बृहस्पते ॥

विराड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयद् भूर् असि भुवनस्य रेता इष्टका स्वर्गो लोको मनसा त्वान्वारोहाम्य् अग्निर् ज्योतिर् ज्योतिर् अग्निस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद सूर् असि सुवनस्य रेता इष्टका स्वर्गो लोको वाचा त्वान्वारोहामि सूर्यो ज्योतिर् ज्योतिः सूर्यस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद बृहस्पतिष् ट्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछाग्निष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ वायुष् टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय विश्वं ज्योतिर् यछ सूर्यस् ते ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

अषाढासि सहमाना सहस्वारातिं सहस्व पृतनायतः ।

सहस्रवीर्यासि सा मा जिन्व ॥

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।

माध्वीर् नः सन्त्व् ओषधीः ॥

मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः ।

मधु द्यौर् अस्तु नः पिता ॥

मधुमान् नो वनस्पतिर् मधुमं अस्तु सूर्यः ।

माध्वीर् गावो भवन्तु नः ॥

अपां त्वा गह्मन्त् सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे ऽनु त्वा दिव्या वृष्टिः सचतां मा त्वा सूर्यो ऽभिताप्सीन् माग्निर् वैश्वानरो ऽछिन्नपत्रः प्रजा अनुवीक्षस्व ॥

त्रीन्त् समुद्रान्त् समसृपत् स्वर्गो ऽपां पतिर् वृषभ इष्टकानाम् ।

तत्र गछ यत्र पूर्वे परेताः पुरीषं वसानः सुकृतस्य लोकम् ॥

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।

पिपृतां नो भरीमभिः ॥

इदं विष्णुः ॥

अध स्मा ते वनस्पते वातो विवात्य् अग्रम् इत् ।

उतो न्व् इन्द्राय पातवे सुनु सोमम् उलूखल ॥

नक्तोषासा ॥

स्यूता देवेभिर् अमृतेनागाद् उखा स्वसारम् अधि वेदिम् अस्थात् ।

सत्यं पूर्वैर् ऋषिभिः संविदानो अग्निः प्रविद्वं इह तत् कृणोतु ।

पृथिवि पृथिव्यां सीद मातुर् मातरि माता ।

स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥

निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।

साम्राज्याय सुक्रतुः ॥

क्रतुं देवानां महिमानम् ईमहे अग्निं सधस्थे सदनेष्व् अद्भुतम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निदधे पुरीष्यम् ॥

न्यधुर् मात्रायां कवयो वयोधसो अग्निं सधस्थे सदनेष्व् अच्युतम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् निहितं पुरीष्यम् ॥

समिध्यमानं समिधा समिन्धते अग्निं सधस्थे सदनेषु सुक्रतुम् ।

वैश्वानरं ब्रह्मणा विश्वव्यचसं स्तोमस्य धामन् पवमानम् आभृतम्

॥२.७.१६॥

अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।

अरं वहन्त्य् आशवः ॥

युक्ष्वा हि देवहूतमं अश्वं अग्ने रथीर् इव ।

नि होता पूर्व्यः सदः ॥

सम् इत् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः ।

घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्ये अग्नेः ॥

ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वाभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य चाग्निस् तेजसा तेजस्वान् रुक्मो वर्चसा वर्चस्वान् सहस्रदा असि सहस्राय त्वा ॥

आदित्यं गर्भं पयसा समङ्ग्धि सहस्रस्य प्रतिमां विश्वरूपम् ।

परिवृङ्ग्धि हरसा माभिशोचीः शतायुषं कृणुहि चीयमानः ॥

वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानं सलिलस्य मध्ये ।

शिशुं नदीनां हरिम् अद्रिबुध्नम् अग्ने मा हिंसीः परमे व्योमन् ॥

अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः ।

स पर्वभिर् ऋतुशः कल्पमानो गां मा हिंसीर् अदितिं विराजम् ॥

त्वष्टुर् वरुत्रीं वरुणस्य नाभिम् अविं जज्ञानां रजसः परस्मात् ।

महीं साहस्रीम् असुरस्य मायाम् अग्ने मा हिंसीः परमे व्योमन् ॥

यो अग्निर् अग्नेस् तपसो ऽधि जातः शोकात् पृथिव्या उत वा दिवस् परि ।

य इमाः प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥

इमं मा हिंसीर् द्विपादं पशुं सहस्राक्षो मेधाय चीयमानो मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मयुं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं मा हिंसीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गौरं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमं साहस्रं शतधारम् उत्सं व्यच्यमानं सलिलस्य मधे घृतं दुहानाम् अदितिं जनायाग्ने मा हिंसीः परमे व्योमन् ॥

गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद गवयं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् इमम् ऊर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदां त्वष्टुर् देवानां प्रथमं जनित्रम् अग्ने मा हिंसीः परमे व्योमन् ॥

मेषम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद मेषं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछत्व् अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो अपश्यज् जनितारम् अग्रे तेन देवा देवताम् अग्रम् आयंस् तेन रोहम् आयन्न् उप मेध्यासः शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वं निषीद शरभं ते शुग् ऋछतु यं द्विष्मस् तं ते शुग् ऋछतु

॥२.७.१७॥

अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वायने सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वा भस्मनि सादयामि समुद्रे त्वा सदने सादयाम्य् अर्णवे त्वा सदने सादयामि सलिले त्वा सदने सादयाम्य् अपां त्वा क्षये सादयाम्य् अपां त्वा सध्रिषु सादयाम्य् अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा पाथसि सादयामि गायत्रेण त्वा छन्दसा सादयामि त्रैष्टुभेन त्वा छन्दसा सादयामि जागतेन त्वा छन्दसा सादयाम्य् आनुष्टुभेन त्वा छन्दसा सादयामि पाङ्क्तेन त्वा छन्दसा सादयामि

॥२.७.१८॥

अयं पुरो भूस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्या गायत्रं गायत्राद् उपांशुर् उपांशोस् त्रिवृत् त्रिवृतो रथन्तरं वसिष्ठा ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यो ऽयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुब् ग्रैष्मी त्रिष्टुभः स्वारं स्वाराद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् भरद्वाजा ऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यो ऽयं पश्चा विश्वव्यचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्समम् ऋक्समाञ् शुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं जमदग्निर् ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्य इदम् उत्तरात् स्वस् तस्य श्रोत्रं सौवं शरञ् श्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभ ऐडम् ऐडान् मन्थी मन्थिन एकविम्श एकविंशाद् वैराजं विश्वामित्रा ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्य इयम् उपरि मतिस् तस्या वाङ् मात्या हेमन्तो वाच्यः पङ्क्तिर् हैमन्ती पङ्क्त्या निधनवन् निधनवत आग्रायण आग्रयणात् त्रिणवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते विश्वकर्मा ऋषिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः

॥२.७.१९॥

प्राची दिग् वसन्त ऋतुर् अग्निर् देवता ब्रह्म द्रविणं गायत्री छन्दो रथन्तरं साम त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिः सानगा ऋषिस् त्र्यविर् वयः कृतम् अयानां पुरोवातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

दक्षिणा दिग् ग्रीष्म ऋतुर् इन्द्रो देवता क्षत्रं द्रविणं त्रिष्टुप् छन्दो बृहत् साम पञ्चदशः स्तोमः स उ सप्तदशवर्तनिः सनातना ऋषिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

प्रतीची दिग् वर्षा ऋतुर् विश्वे देवा देवता विड् द्रविणं जगती छन्दो वैरूपं साम सप्तदशः स्तोमः स उ एकविंशवर्तनिर् अहभूना ऋषिस् त्रिवत्सो वयो द्वापरो ऽयानां पश्चाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

उदीची दिक् शरद् ऋतुर् मित्रावरुणौ देवता पुष्टं द्रविणम् अनुष्टुप् छन्दो वैराजं सामैकविंशः स्तोमः स उ त्रिणववर्तनिः पुराणा ऋषिस् तुर्यवाड् वयो ऽभिभवो ऽयानाम् उत्तराद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥

ऊर्ध्वा दिग् घेमन्तशिशिरा ऋतू बृहस्पतिर् देवता फलं द्रविणं पङ्क्तिश् छन्दः शाक्वररैवते सामनी त्रिणवः स्तोमः स उ त्रयस्त्रिंशवर्तनिः सुपर्णा ऋषिः पष्ठवाड् वय आस्कन्दो ऽयानाम् उपरिष्टाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ

॥२.७.२०॥