द्वितीयकाण्डे षष्ठः प्रपाठकः
द्वितीयकाण्डे षष्ठः प्रपाठकः
श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् वरो दक्षिणा श्वो भूत आग्नावैष्णव एकादशकपालो ऽनड्वान् वामनो दक्षिणा श्वो भूते ऽग्नीषोमीया एकादशकपालो हिरण्यं दक्षिणा श्वो भूत ऐन्द्राग्न एकादशकपालो ऽनड्वान् ऋषभो दक्षिणा श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधि वासः क्षौमं दक्षिणा
॥२.६.१॥ऐन्द्राग्नम् एकादशकपालं निर्वपेद् आग्नेन्द्रं वा वैश्वदेवश् चरुः सौम्यः श्यामाकश् चरुर् द्यावापृथिवीया एककपालो वत्सः प्रथमजो दक्षिणा सीरं द्वादशायोगं दक्षिणोष्टारो वानड्वान्
॥२.६.२॥आग्नेयो ऽष्टाकपालो वारुणो यवमयश् चरुर् रौद्रो गावीधुकश् चरुर् ऐन्द्रं दधि धेनुर् अनड्वाही दक्षिणापां न्ययनाद् अपामार्गान् आहरन्ति तान्त् सक्तून् कृत्वा दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण जुहोति ॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् इन्द्रस्यौजसा रक्षोहासि स्वाहा हतं रक्षो ऽवधिष्म रक्षः ॥
वरो दक्षिणा ॥
ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा दक्षिणात्सदो यमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ये देवा उपरिषदो ऽवस्वद्वन्तः सोमनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेदम् अहं रक्षो ऽभिसमूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षो ऽग्नये पुरःसदे स्वाहा यमाय दक्षिणात्सदे स्वाहा मरुद्भ्यः पश्चात्सद्भ्यः स्वाहा मित्रावरुणाभ्याम् उत्तरात्सद्भ्यां स्वाहा सोमायोपरिषदे ऽवस्वद्वते रक्षोघ्ने स्वाहा रथः पञ्चवाही दक्षिणा
॥२.६.३॥अनुमत्यै चरुर् राकायै चरुः सिनीवाल्यै चरुः कुह्वै चरुर् धात्रे द्वादशकपालः पष्ठौही दक्षिणाग्नावैष्णव एकादशकपाल ऐन्द्रावैष्णावश् चरुर् वैष्णवस् त्रिकपालो वामनो दक्षिणा सौमापौष्ण एकादशकपाल ऐन्द्रापौष्णश् चरुः पौष्णश् चरुः श्यामो दक्षिणाग्नये वैश्वानराय द्वादशकपालो वारुणो यवमयश् चरुर् हिरण्यं चाश्वश् च दक्षिणा
॥२.६.४॥बार्हस्पत्यश् चरुर् ब्रह्मणो गृहे शितिपृष्ठो दक्षिणैन्द्र एकादशकपालो राज्ञो गृह ऋषभो दक्षिणादित्यश् चरुर् महिष्या गृहे धेनुर् दक्षिणा नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृहे श्येनी वण्डापस्फुरा दक्षिणाग्नेयो ऽष्टाकपालः सेनान्यो गृहे हिरण्यं दक्षिणाश्विनो द्विकपालः सङ्ग्रहीतुर् गृहे सवत्यौ दक्षिणा सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे श्येतो दक्षिणा वारुणो यवमयो दशकपालः सूतस्य गृहे बभ्रुर् महानिरष्टो दक्षिणा मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृहे पृश्निः पष्ठौही दक्षिणा पौष्णश् चरुर् भागदुघस्य गृहे श्यामो दक्षिणा वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृहे सर्वायसानि दक्षिणा रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चासिर् वालापितस्थो दक्षिणा शबलो वा त्रिवत्सो ऽभिधानी वा केसरपाशा
॥२.६.५॥इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् इन्द्राय सुत्राम्णा एकादशकपालम् ऋषभो दक्षिणा स्वयंरुग्णाया अश्वत्थशाखायाः पात्रं भवत्य् अथ श्वेतां श्वेतवत्सां दुहन्ति तत् स्वयं मूर्छति स्वयं मथ्यते स्वयंविलीनम् आज्यं भवत्य् अथ मैत्राबार्हस्पत्यं हविर् निर्वपन्ति ये क्षोदिष्ठास् तण्डुलास् तं बार्हस्पत्यं चरुं शृतं कुर्वन्ति तत्र तत् पात्रम् अपिधायाज्यम् आसिच्य ये स्थविष्ठास् तण्डुलास् तान् आवपन्त्य् उभौ सह शृतौ कुर्वन्ति मैत्रेण पूर्वेण प्रचरन्त्य् अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्याग्नये गृहपतय आपतन्तानाम् अष्टाकपालं निर्वपेत् सोमाय वनस्पतये श्यामाकं चरुं सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालं बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय हायनानाम् एकादशकपालं मित्राय सत्यस्य पतये नाम्बानां चरुं वरुणाय धर्मस्य पतये यवमयं चरुं रुद्राय पशुपतये गावीधुकं चरुम् ॥
सविता त्वा प्रसवानां सुवताम् अग्निर् गार्हपत्यानां सोमो वनस्पतीनां बृहस्पतिर् वाचाम् इन्द्रो ज्यैष्ठ्यानां मित्रः सत्यानां वरुणो धर्मणां रुद्रः पशूनां ते देवा असपत्नम् इमं सुवध्वम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि महते क्षत्राय महते जानराज्याय शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्मांश् च सत्यश् च ऋतपाश् चात्यंहा ऋतजिच् च स्त्यजिच् च सेनजिच् च सुषेणश् चान्तिमित्रश् च दूरेऽमित्रश् च गण ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः
॥२.६.६॥देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा देवीर् आपो अपां नपाद् राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त वृषोर्मिर् असि वृषसेनो ऽस्य् अपां पतिर् अस्य् अप्रहावरीः स्थ परिवाहिणीः स्थौजस्विनीः स्थ मान्दाः स्थ व्रजक्षितः स्थ सूर्यवर्चसः स्थ सूर्यत्वचसः स्थ मरुताम् ओजः स्थ वशाः स्थ शक्वरीः स्थ विश्वभृतः स्थ जनभृतो ऽपाम् ओषधीनां रसः श्रविष्ठाः स्थ राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त
॥२.६.७॥देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ॥
अपो देवीर् मधुमतीर् अगृभ्णाम् ऊर्जस्वती राजसूयाश् चितानाः ।
याभिर् मित्रावरुणा अभ्यषिञ्चंस् ताभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् ॥
शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामि ॥
देवो वः सविता पुनात्व् अछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥
स्वाहा राजसूयाः ॥
सधमादो द्युम्न्या ऊर्जा एका अनाधृष्टा अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपां शिशुर् मातृतमास्व् अन्तः ॥
रुद्र यत् ते गिरिपरं नाम तस्मिन् हुतम् असि यमेष्टम् असि स्वाहा सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्तु
॥२.६.८॥क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् अस्य् आवित्तो अग्निर् गृहपतिर् आवित्ता इन्द्रो वृद्धश्रवा आवित्तौ मित्रावरुणौ धृतव्रतव् आवित्ते द्यावापृथिवी ऋतावृधव् आवित्तः पूषा विश्ववेदा आवित्ता देव्य् अदितिर् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशि महते क्षत्राय महते जानराज्यायैष ते जनते राजा सोमो ऽस्माकं ब्राह्मणानां राजेन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याच् छत्रुबाधनाः स्थ पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्ध्वं दिग्भ्य एनं पात मित्रो ऽसि वरुणो ऽसि ॥
हिरण्यवर्णम् उषसो व्युष्टा अयःस्थूणम् उदितौ सूर्यस्य ।
आरोहथो वरुण मित्र गर्तं ततश् चक्राथे अदितिं दितिं च
॥२.६.९॥समिधम् आतिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथन्तरं सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आतिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदशः स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणं प्राचीम् आतिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदशः स्तोमो वैरूपं साम विश्वे देवा देवता विड् द्रविणम् उदीचीम् आतिष्ठानुष्टुप् त्वा छन्दसाम् अवत्व् एकविंशः स्तोमो वैराजं साम मित्रावरुणौ देवता पुष्टं द्रविणम् ऊर्ध्वाम् आतिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिंशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता फलं द्रविणं सोमस्य त्विषिर् असि त्विषिमत् तवेव मे त्विषिर् भूयात् ॥
प्रत्यस्तं नमुचेः शिरो ऽवेष्टा दन्दशूकाः ।
मृत्योः पाहि दिदिवः पाहि
॥२.६.१०॥अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहांशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीन्द्रस्य योनिर् असि जनयाति द्यून् पाहि ॥
समाववृत्रन्न् अधराग् उदक् ता अहिं बुध्न्यम् अन्वीयमानाः ।
ताः पर्वतस्य वृषभस्य पृष्ठान् नावो वियन्ति सुसिचो न वाणीः ॥
इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेन् मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि विष्णोः क्रमो ऽसि सपत्नहा मरुतां प्रसवे जयाप्तं मनः सम् इन्द्रियेणैष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेत्
॥२.६.११॥इयद् अस्य् आयुर् अस्य् आयुर् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मे धेह्य् ऊर्ग् अस्य् ऊर्जं मयि धेहि मित्रो ऽसि वरुणो ऽसि सद् असि सम् अहं विश्वैर् देवैर् नमो मात्रे पृथिव्यै मा मां माता पृथिवी हिंसीत् ॥
प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोत् ।
शुचेर् मित्रस्य व्रत्या अभूमामन्महि महद् ऋतस्य नाम ॥
सर्वे व्राता वरुणस्याभूम नि मित्रयुर् अरतीन् अतारीत् ।
अशूशुभन्त यज्ञिया ऋतेन नि त्रितो जरिमाणं न आनट् ॥
स्योनासि सुषदा स्योनाम् आसीद सुषदाम् आसीद ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥
अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहा ॥
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥
ब्रह्मा३ंस् त्वं ब्रह्मासि सवितासि सत्यसवो ब्रह्मा३ंस् त्वं ब्रह्मासि मित्रो ऽसि सुशेवो ब्रह्मासीन्द्रो ऽसि सत्यौजा ब्रह्मा३ंस् त्वं ब्रह्मासि वरुणो ऽसि विश्वौजाः ॥
एष वज्रस् तेन मे रध्य दिशो अभ्यभूद् अयम् ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
यस्मै कं जुहुमस् तन् नो अस्तु ॥
असा अमुष्य पुत्रो ऽमुष्यासौ पुत्रः ॥
वयं स्याम पतयो रयीणाम्
॥२.६.१२॥अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहा ॥
सावित्रो ऽष्टाकपालः श्येतो दक्षिणा सारस्वतश् चरुर् धेनुर् दक्षिणा पौष्णश् चरुः श्यामो दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वारुणो यवमयो दशकपालो बभ्रुर् महानिरष्टो दक्षिणा त्वाष्ट्रो ऽष्टाकपालो ऽंसेपाञ् शुण्ठो ऽधिरूढाकर्णो वा दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यम् अष्टापृडं दक्षिणा सौम्यश् चरुर् बभ्रुर् दक्षिणा वैष्णवस् त्रिकपालो वामनो दक्षिणाग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश् चरुः शितिपृष्ठो दक्षिणैन्द्र एकादशकपाल ऋषभो दक्षिणा वैश्वदेवश् चरुः पिशङ्गो दक्षिणा मैत्रावरुण्य् आमिक्षा वशा दक्षिणाग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालो बार्हस्पत्यश् चरुर् अग्नये वैश्वानराय द्वादशकपालस् त्वाष्ट्रो ऽष्टाकपालो दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतस् चरुः पौष्णश् चरुर् मैत्रश् चरुर् वारुणश् चरुर् अदित्यै चरुः क्षेत्रस्य पतये चरुः सव्यो रथवाहनवाहो दक्षिणा मारुती पृश्निः पष्ठौही गर्भिण्य् आदित्याजा मलिहा गर्भिणी सवित्रे प्रसवित्रे सतीनानाम् अष्टाकपालो ऽश्विभ्यां पूष्ण एकादशकपालः सरस्वत्यै सत्यवाचे चरुर् दण्ड उपानहौ शुष्कदृतिः सा दक्षिणा
॥२.६.१३॥