द्वितीयकाण्डे द्वितीयः प्रपाठकः
द्वितीयकाण्डे द्वितीयः प्रपाठकः
यां त्वा जनो भूमिर् इति प्रमन्दते निरृतिं त्वाहं परिवेद विश्वतः ॥ इति निरृतिगृहीतो वा एष यो निरुद्धो निरृत्या एवैनं तेन मुञ्चत्य् एतद् वै विशम् अवागन्न् अथ वा अस्य राज्यम् अन्वगतं तद् यो ऽमी कृष्णा व्रीहयस् तं वारुणं घृते चरुं निर्वपेद् वरुणो वै देवानां राजा स राज्यस्यावगमयिता तम् एव भागधेयेनोपासरत् स एनं राज्यम् अवगमयत्य् एतद् वै नानाविश्यम् उभयीम् एवैतेन विशम् अवगछति दैवीं च मानुषीं च
॥२.२.१॥सौर्यं घृते चरुं निर्वपेञ् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः शतमानो रुक्मो रजतो ऽधस्तात् स्याच् छतमानो रुक्मो हरित उपरिष्टाद् इह वा असा आदित्य आसीत् तम् आभ्यां परिगृह्योपरिष्टाद् आसां प्रजानां न्यदधुर् उपरिष्टाद् वा असा आदित्य इमाः प्रजा अधिषद्यात्तीयं वै रजतासौ हरिण्य् आभ्याम् एवैनं परिगृह्योपरिष्टाद् आसां प्रजानां निदधात्य् उपरिष्टाद् इमाः प्रजा अधिषद्यात्ति पञ्च कृष्णलान्य् अपि प्रयाजेषु जुहुयाद् एतैर् वा असा आदित्य इमान् पञ्च ऋतून् अनु तेजस्वीमा एवैनं पञ्च दिशो ऽनु तेजस्विनं करोति प्राजापत्यं घृते चरुं निर्वपेञ् शतकृष्णलम् आयुष्कामो देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते देवाः प्रजापतिम् एवोपाधावंस् तान् वा एतया प्रजापतिर् अयाजयत् ततो देवा अमृतत्वम् अगछन्न् अमृतं वै हिरण्यम् अमृतम् आयुर् अमृतेनैवैष्व् अमृतम् आयुर् आप्त्वादधाद् य आयुष्कामः स्यात् तम् एतया याजयेद् एतद् वै मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एत्य् अमृतं वै हिरण्यम् अमृतम् आयुर् अमृतेनैवास्मिन्न् अमृतम् आयुर् आप्त्वा दधाति तेन स सर्वम् आयुर् एति न पुरायुषः प्रमीयते शतकृष्णलो भवति शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति चत्वारिचत्वारि कृष्णलान्य् अवद्यति समृद्ध्यै सर्वं ब्रह्मणे परिहर्तवा आह सर्वं ब्रह्मणि यज्ञं प्रतिष्ठापयति सर्वम् अस्मिन् ब्रह्मा वीर्यं दधात्य् अथो ब्रह्म वै ब्रह्मा ब्रह्मणैवास्मिन् ब्रह्मायुर् दधाति
॥२.२.२॥बार्हस्पत्यं चरुं निर्वपेत् पुरोधाकामस् तस्य बार्हस्पत्ये ज्योतिष्मती याज्यानुवाक्ये स्यातां ब्रह्म वै बृहस्पतिर् बार्हस्पत्यो ब्राह्मणो देवतया स्वाम् एव देवतां पुरोधाया उपासरत् स्वैनं देवता पुरोधां गमयति यद् वै लेलायद् वीव भाति तज् ज्योतिस् तस्माज् ज्योतिष्मती यदि नेव पुरोधां गछेद् ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् ब्रह्म चैव क्षत्रं च सयुजा अकस् ताजग् एनं पुरोदधते बार्हस्पत्यं चरुं निर्वपेत् पयसि ग्रामकामो वा पशुकामो वा तस्य बार्हस्पत्ये गणवती याज्यानुवाक्ये स्यातां यो बहुपुरुष्टस् तस्य गृहात् क्षीरम् आहरेयुः स्यात् स्वासां गवां दुग्धं स्याद् उदकं पुष्टिर् एवैषा सम्भ्रियते ब्रह्म वै बृहस्पतिर् बृहस्पतिश् छन्दांसि छन्दोभिर् बृहस्पतिर् गणी स्वां वा एतद् देवतां भूयिष्ठेनार्पयति सजातैर् एनं गणिनं करोति ब्राह्मणस्पत्यं चरुं निर्वपेत् सङ्ग्रामे तस्य ब्राह्मणस्पत्ये वीरवती वयस्वती याज्यानुवाक्ये स्यातां छदिर् दर्शे याजयेद् उद्बर्हिः प्रस्तरः स्याद् बाणवन्तः परिधयो वयांसि परं ग्रामम् आविशन्ति तथा विज्ञेयं जेष्यामा इति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्मैवोपासरद् ब्राह्मणस्पत्यं चरुं निर्वपेद् यत्र कामयेत ब्रह्मबलं स्याद् इति तस्य ब्राह्मणस्पत्ये मरुत्वती याज्यानुवाक्ये स्यातां ब्रह्म वै ब्रह्मणस्पतिर् विण् मरुतो ब्रह्मणि वा एतद् विशम् अधि विनाशयति द्रढिम्ने ऽशिथिरत्वाय
॥२.२.३॥लेलायद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
बार्हस्पत्यं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तान् बृहस्पतिश् चान्वैतां ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा अब्रवीद् अनेन मा याजयेति तेन वा एनम् अयाजयत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सौमापौष्णं चरुं निर्वपेद् गार्मुतं पशुकामः प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयंस् तेषां पूषणम् अधिपाम् अकरोत् ते यत्रावसंस् ततः शक्नो गर्मुद् अजायत तं वा आहरद् अनेन मे प्रतिष्ठेति स सोमो ऽब्रवीन् मम वा अकृष्टपच्यम् इति तं सौमापौष्णं निरवपत् तं पशव उपावर्तन्त यः पशुकामः स्यात् तम् एतेन याजयेद् उप हैनं पशवा आवर्तन्ते यदा हि स तम् एतेनायाजयद् अथ तं पशव उपावर्तन्त सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयति प्राजापत्यं चरुं निर्वपेद् गार्मुतं पशुकामः पृश्नीनां गवां दुग्धे पृश्नीनां गवाम् आज्यं स्यात् तत्रापि गोमूत्रस्याश्चोतयेयुः पृश्निर् वै यद् अदुहत् स गर्मुद् अभवद् इयं वै पृश्निर् वाग् वा तस्या वा एतञ् शिरो यद् गर्मुतस् तस्माद् एतद् आण्डम् इव पीयूष इव तं प्राजापत्यं चरुं निर्वपेत् पशुकामः प्राजापत्या वै पशवः प्रजापतिः पशूनां प्रजनयिता तम् एव भागधेयेनोपासरत् सो ऽस्मै पशून् प्रजनयति वास्त्वमयं रौद्रं चरुं निर्वपेद् यत्र रुद्रः प्रजाः शमायेत वास्तोर् वै वास्त्वं जातं वास्त्वमयं खलु वै रुद्रस्य स्वेनैवैनं भागधेयेन शमयति तया निषादस्थपतिं याजयेत् सा हि तस्येष्टिः कूतं दक्षिणा कर्णो वा गर्दभः
॥२.२.४॥परमेष्ठिने द्वादशकपालं निर्वपेद् यः कामयेत परमेष्ठी स्याम् इति परमेष्ठी वा एष देवानां यः परमेष्ठी परमेष्ठी राजन्यो मनुष्याणां तम् एव भागधेयेनोपासरत् स एनं परमेष्ठिनं करोति तस्मै धनुश् च तिस्रश् च प्रयछेत् ॥ अग्निष् टे तेजः प्रयछत्व् इन्द्र इन्द्रियं पित्र्यां बन्धुताम् ॥ इत्य् अग्निर् एवास्मै तेजः प्रयछतीन्द्रं इन्द्रियं पित्र्यां बन्धुतां वैश्वदेवं द्वादशकपालं निर्वपेद् भ्रातृव्यवांस् तं बर्हिषदं कृत्वा समया स्फ्येन व्य्·हेत् ॥ इदम् अहं मां चामुं च व्य्·हामि ॥ इति यं द्विष्यात् तं यद् अधो ऽवमृद्येत यच् च स्फ्य आश्लिष्येत् तद् विष्णव उरुक्रमायावद्येद् विष्णुर् एवैना अन्तरा विक्रमते तं पुनः समूहेत् ॥ इदम् अहं मां चामुं च समूहामि ॥ इति यो ऽस्य प्रियः स्यात् तं वैश्वदेवीर् वा इमाः प्रजास् ताभिर् एवेतरं व्यूहति ताभिर् आत्मानं समूहतीन्द्राण्यै चरुं निर्वपेत् सेनायाम् उत्तिष्ठन्त्यां सेना वा इन्द्राणी ब्रह्मणैवैनां पुरस्तान् मुखतो जित्यै संश्यति बल्बजा अपीध्मे स्युः शक्नो वा एते ऽध्युत्थिता न्यायेनैवैनाम् अभिनयति यत् तस्यां सेनायां विन्देत सा दक्षिणा वाचस्पतये चरुं निर्वपेञ् श्रीकामो यो वै वाचो ऽध्यक्षः स वाचस्पतिस् तञ् श्रीकरणम् एवैतत्
॥२.२.५॥अग्नये वसुमते सतीनानाम् अष्टाकपालं निर्वपेत् सोमाय रुद्रवते श्यामाकं चरुम् इन्द्राय मरुत्वते नैवारम् एकादशकपालं वरुणायादित्यवते यवमयं चरुं देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतया बृहस्पतिर् अयाजयत् सञ्ज्ञान्यात इन्द्रम् एवाभिसमावर्तन्तेन्द्रम् अभिसमजानत तद् य एतया यजते तम् एवाभिसमावर्तन्ते तम् अभिसञ्जानते तद् आहुर् ऐन्द्र एकादशकपालः कार्या इतीन्द्रं हि ते ऽभिसमावर्तन्तेन्द्रम् अभिसमजानत ॥
श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्रीष्टे। च्फ़्। ३।७।१०:९०।१
सञ्ज्ञानं नो दिवा पशोः सञ्ज्ञानं नक्तम् अर्वतः ।
सञ्ज्ञानं नः स्वेभ्यः सञ्ज्ञानम् अरणेभ्यः सञ्ज्ञानम् अश्विना युवम् इहास्मभ्यं नियछतम् ॥
सम् इन्द्र राया सम् इषा रभेमहि सं वाजैः पुरुश्चन्द्रैर् अभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्ववत्या रभेमहि ॥
गोअग्रयाश्ववत्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥
सं वो मनांसि सं व्रता सम् आकूतीर् अनंसत ।
अमी ये विव्रताः स्थ तान् वः सन्नमयामसि ॥
समाना वा आकूतानि समाना हृदयानि वः ।
समानम् अस्तु वो मनो यथा वः सुसहासति ॥
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तम् एषाम् ।
समानं क्रतुम् अभिमन्त्रयध्वं समानेन वो हविषा जुहोमि ॥
सङ्गछध्वं सञ्जानीध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सञ्जानाना उपासते
॥२.२.६॥आग्नेयम् अष्टाकपालं निर्वपेत् सावित्रं चरुं वायव्यां यवागूं प्रतिधुग् वा भौमम् एककपालं यस्य हिरण्यं नश्येद् यो वा हिरण्यं विन्देद् अग्निर् वा अग्रे हिरण्यम् अविन्दत् स सवित्रामन्त्रयत न खलु वै किञ्चन वायुनानभिगतम् अस्त्य् अस्यां वै स तद् अविन्दद् वित्त्या एवाग्नेयः प्रसवाय सावित्रो ऽभिनीत्यै वायव्याथ यद् भौमो ऽस्यां हि स तद् अविन्दद् एते वै प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै प्रयछन्ति स यदा विन्देद् अथैतेभ्य एव निर्वपेद् यैर् एवाविन्दत् तान् भागिनः करोत्य् अहिंसायै प्रजापतिर् वै सोमाय राज्ञे दुहितॄर् अददान् नक्षत्राणि स रोहिण्याम् एवावसन् नेतरासु ता अनुपेयमानाः पुनर् अगछंस् तं राजयक्ष्मेणाग्रहयत् स निरस्रवत् तस्माद् राजयक्ष्मगृहीतो निःस्रवति स वै प्रजापतिम् एवोपाधावत् तं प्रजापतिर् अब्रवीद् ऋतं ब्रूहीति स ऋतम् अब्रवीद् यथा सर्वास्व् एव समावद् वसानीति तस्माद् एष सर्वास्व् एव समावद् वसति तस्मै वै प्रजापतिः प्रायश्चित्तिम् ऐछत् तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत् तेनास्मै प्रायश्चित्तिम् अविन्दत् सो ऽमुम् आप्यायमानम् अन्वाप्यायत वसीयान् अभवद् यो राजयक्ष्मगृहीतः स्यात् तस्मा अमावास्यायां वैश्वदेवं चरुं निर्वपेद् एतेन वै स तस्मै प्रायश्चित्तिम् अविन्दत् तेनैवास्मै प्रायश्चित्तिं विन्दत्य् अमुम् एवाप्यायमानम् अन्वाप्यायते वसीयान् भवति
॥२.२.७॥प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत् स इन्द्रो ऽब्रवीद् यद् अतिरिच्यते तन् ममेति तद् वा इन्द्रियम् एवात्यरिच्यत तद् इमांल् लोकान् ऊर्ध्वम् अनूदश्रयत तन् नैकेनाप्नोन् न द्वाभ्यां तत् तृतीयेनाप्त्वावारुन्द्ध यत् त्रयः पुरोडाशा भवन्त्य् एभ्यो वा एतल् लोकेभ्य इन्द्रियं वीर्यम् आप्त्वावरुन्द्ध उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तर उत्तरो हि लोको ज्यायान् इन्द्राय राज्ञे प्रथम इन्द्राय स्वराज्ञे मध्यम इन्द्रायाधिराजायोत्तम एतानि वै सर्वाणीन्द्रो ऽभवद् राज्यं स्वाराज्यम् आधिराज्यम् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद प्रथमाम् अनूच्य मध्यमया यजेन् मध्यमाम् अनूच्योत्तमया यजेद् उत्तमाम् अनूच्य प्रथमया यजेद् एवम् अस्य सर्वा अनुवाक्या भवन्ति सर्वा याज्या एषां लोकानां प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यईन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत् तेजस्कामस् तेजो वै घर्मस् तेजः सूर्यस् तेज एवावरुन्द्ध इन्द्रायेन्द्रियवता एकादशकपालं निर्वपेत् पशुकाम इन्द्रियं वै पशव इन्द्र इन्द्रियस्य प्रदाता तम् एव भागधेयेनोपासरत् सो ऽस्मा इन्द्रियं पशून् प्रयछति
॥२.२.८॥एतल् : फ़्न् एमेन्देद्। एद्।: एतं
इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेन् निरुद्धं याजयेद् अन्तं वा एष गतो यो निरुद्धो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत जने म ऋध्येतेत्य् अन्तो वा एषा ऋद्धीनां यज् जनो ऽन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तेनैवास्मा अन्ते कल्पयति वशा दक्षिणा वशं मा नयाद् इतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् गतश्रीर् यदा वै श्रियो ऽन्तं गछत्य् अथ पापीयान् भवत्य् अन्तो ऽर्को ऽन्तो ऽश्वमेधो ऽन्तम् एवालब्ध न पापीयान् भवतीन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं निर्वपेद् यः कामयेत महायज्ञो मोपनमेद् इत्य् एते वा इन्द्रस्य यज्ञिये तन्वौ यद् अर्कश् चाश्वमेधश् च ते एवालब्ध ताभ्यां महायज्ञम् आलभत इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेद् इन्द्राय मन्युमते मनस्वता एकादशकपालम् इन्द्रायेन्द्रियवता एकादशकपालम् इन्द्रायार्कवते ऽश्वमेधवता एकादशकपालं भूतिकामं याजयेद् इदं वा इन्द्रस्य घर्मश् च सूर्यश् चेदम् अस्य मन्युश् च मनश् चेदम् अस्येन्द्रश् चेन्द्रियं चेदम् अस्यार्कश् चाश्वमेधश् चैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद
॥२.२.९॥इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् आमयाविनं यजयेद् एषा वा इन्द्रस्य भेषजा तनूर् यद् अंहोमुक् तम् एव भागधेयेनोपासरत् स एनम् अंहसो मुञ्चतीन्द्राय त्रात्र एकादशकपालं निर्वपेद् यो ज्यान्या मारणाद् अपरोधाद् वा बिभीयाद् इन्द्रो वै त्रातेन्द्रो ऽपरोद्धा तम् एव भागधेयेनोपासरत् स एनं त्रायत इन्द्रायान्वृजवा एकादशकपालं निर्वपेज् ज्येष्ठबन्धुर् इन्द्रियं वै ज्येष्ठबन्धुर् इन्द्रियेणैवैनान् अन्वृजून् कुरुत इन्द्राय प्रबभ्रायैकादशकपालं निर्वपेत् सङ्ग्रामे प्रवभ्रो वा इन्द्रो वृत्राय वज्रं प्राहरत् प्रबभ्र एवैभ्यो वज्रं प्रहरतीन्द्राय वैमृधायैकादशकपालं निर्वपेत् सङ्ग्रामे मृधो वा एष विहन्ति यः सङ्ग्रामं जयति मृध एव विहत इन्द्रायाभिमातिघ्न एकादशकपालं निर्वपेत् सङ्ग्रामे ऽभिमातीर् वा एष हन्ति यः स्माग्रामं जयत्य् अभिमातीर् एव हत इन्द्रायाभिमातिषाहा एकादशकपालं निर्वपेद् यः कामयेत विषहेयाभयं मे स्याद् इतीन्द्रो वै वृत्राय वज्रम् उदयछत् तं दानवा नान्वमन्यन्त तम् एतेन भागधेयेनान्वमन्यन्त ततो वै सो ऽभिमातीर् अहन् वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यः सङ्ग्रामं जयति तद् वार्त्रघ्नम् एवैतत्
॥२.२.१०॥वैमृधायैकादशकपालं : फ़्न् एमेन्देद्। एद्।: वै मृधायैकादशकपालं
ऐन्द्रम् एककपालं निर्वपेन् निरुद्धं याजयेद् आ प्रेहि परमस्याः परावता इति याज्यानुवाक्ये स्यातां परावतं वा एष गतो यो निरुद्धः परावत एवैनम् अध्य् आप्त्वावगमयत्य् ऐन्द्रं त्रयोदशकपालं निर्वपेन् निरुद्धं याजयेद् अतिरिक्तं वै त्रयोदशम् अतिरिक्तो निरुद्धो ऽतिरिक्ताद् एवैनम् अतिरिक्तम् आप्त्वावगमयतीन्द्राय वज्रिणा एकादशकपालं निर्वपेद् इन्द्राय वृत्रघ्न एकादशकपालम् इन्द्राय वृत्रतूरा एकादशकपालं यस्य भ्रातृव्यः सोमेन यजेत वज्रं वा एष भ्रातृव्यायोञ्श्रयति यः सोमेन यजते यद् वज्रिणे वज्रेणैवास्य वज्रं स्तृणुते यद् वृत्रघ्ने भ्रातृव्यो वै वृत्रो हन्त्य् एवैनं यद् वृत्रतूरे भ्रातृव्यो वै वृत्रस् तरत्य् एवैनम् इन्द्राय क्षेत्रञ्जयायैकादशकपालं निर्वपेद् यः क्षेत्रे पशुषु वा विवदेतेन्द्रो वै देवानां क्षेत्रञ्जयस् तम् एव भागधेयेनोपासरत् सो ऽस्मै क्षेत्रं पशून् जयतीन्द्रायाधिराजायैकादशकपालं निर्वपेद् यत्र राजानः सदृशा इव स्युर् इन्द्रो वै देवानाम् अधिराजस् तम् एव भागधेयेनोपासरत् स एनम् आधिराज्यं गमयति
॥२.२.११॥इन्द्राय मन्युमते मनस्वता एकादशकपालं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियत इन्द्रियेण जयति वीर्यं चैवैष्व् इन्द्रियं च जित्यै दधाति मन्यवे चरुं निर्वपेत् सङ्ग्रामे मन्युना वै वीर्यं क्रियते वीर्यम् एवैषु जित्यै दधाति यं जीवग्राहं गृह्णीयुस् तं विकृन्तेयुर् मन्योः स्विद् एव सत्यम् अकर् इन्द्राय मनस्वता एकादशकपालं निर्वपेद् यः कामयेत पुन्यः स्याम् अनाधृष्य इति मनो वै श्रीस् त्विषिः श्रियम् एवास्मिंस् त्विषिं दधाति संवत्सरं नु पुरा मनसो न कीर्तयेत् संवत्सरेण वा अनाप्तम् आप्यते संवत्सरेणैवास्मा आप्त्वा श्रियं त्विषिं दधाति
॥२.२.१२॥यस्य सान्नाय्यं चन्द्रमा अभ्युदियाद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये मध्यमास् तम् अग्नये दात्रे ऽष्टाकपालं निर्वपेद् ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुं ये क्षोदिष्ठास् तं विष्णवे शिपिविष्टाय शृते चरुम् अग्निर् वै मध्यमस्य दातेन्द्रो ज्येष्ठस्य प्रदाताथ यत् क्षोदिष्ठं तञ् शिपिविष्टं तद् आप्नोति पशून् एव सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति स वै पशून् एवाभ्यतिरिच्यते यः पशुकामः स्यात् सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् ये पुरोडाश्याः स्युस् तांस् त्रेधा कुर्याद् ये क्षोदिष्ठास् तम् अग्नये सनिमते ऽष्टाकपालं निर्वपेद् ये मध्यमास् तं विष्णवे शिपिविष्टाय शृते चरुं ये स्थविष्ठास् तम् इन्द्राय प्रदात्रे दधंश् चरुम् अग्निर् एवास्मै तद् विन्दति यद् इह विष्णुस् तद् यद् अन्तरिक्ष इन्द्रस् तद् यद् दिवि सत्वानो गा इछन्ति यद् एते तण्डुला विभाज्यन्ते सत्वानो वा एत एष्टारो ऽभिरोद्धार एवाग्नेयम् अष्टाकपालं निर्वपेद् गतश्रीस् तस्य गौर् धेनुर् दक्षिणा स प्राङ् प्रयाय वैष्णवं त्रिकपालं तस्य वडबा धेनुर् दक्षिणा स प्राङ् प्रयाय गिरिं गत्वापो वा प्रजापत्यं घृते चरुं तस्य पुरुषी धेनुर् दक्षिणा यद् आग्नेय इमां तेनाक्रमते यद् वैष्णवो ऽन्तरिक्षं तेन यत् प्राजापत्यो ऽमुं तेन लोकं यत् प्राङ् प्रयात्य् अभि स्विद् एवाक्रमीद् यद् गिरिं गछत्य् अपो वान्तं स्विद् एवागन् यत् तिस्रो धेनवो दक्षिणा त्रयो वा इमे लोका इमान् अस्मै लोकान् धेनुर् अकर् इमान् अस्मै लोकान् प्रदापयति प्रत्तान् ह वा अस्मा इमांल् लोकान् दुहे य एवं वेद सौमेन्द्रं चरुं निर्वपेञ् श्यामाकं सोमवामिन इन्द्रो वै त्वष्टुः सोमम् अपिबद् अनुपहूयमानस् तस्योर्ध्वः सोमपीथो ऽपतत् ते श्यामाका अभवन्त् सोमपीथेन वा एष व्यृध्यते यः सोमं वमिति यत् सौम्यः सोमपीथेनैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति यद् ऐन्द्र इन्द्रियेणैवैनं वीर्येण समर्धयति शिथिर इव हि वा एतस्य सोमपीथो ऽथैष सोमं वमिति यञ् श्यामाकतण्डुलैः श्रीणाति सोमपीथस्य धृत्यै
॥२.२.१३॥