द्वितीयकाण्डे चतुर्थः प्रपाठकः
द्वितीयकाण्डे चतुर्थः प्रपाठकः
विश्वरूपो वै त्वाष्ट्र आसीत् त्रिशीर्षासुराणां स्वस्रीयः स सोमम् एकेन शीर्ष्णापिबत् सुराम् एकेनान्नम् एकेनावयत् स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति तेन समलभत तेन युगशरम् अपतत् स तक्षाणं तिष्ठन्तम् अब्रवीद् आधावेमान्य् अस्य शीर्षाणि छिन्द्धीति तस्य तक्षोपस्कन्द्य परशुना शीर्षाण्य् अछिनत् तस्मात् तक्ष्णे शिरो धृतं तस्माद् अस्यान्नम् अन्नाद्यं तस्य यत् सोमपं शिरा आसीत् स कपिञ्जलो ऽभवद् यत् सुरापं स कलविङ्को येनान्नम् आवयत् स तित्तिरिः स वै त्वष्टा पुत्रे हते सोमम् आहरद् ऋत इन्द्रं तम् अधः शतशले ऽसुनोद् अथो आहुः सहस्रशला इति तस्मिन् वा इन्द्र उपहवम् ऐछत तन् नोपाह्वयत तं प्रासहादाय नाड्या निरपिबत् स सोमपीथेन व्यार्ध्यत तस्मात् सोमो नानुपहूतेन पेयः सोमपीथेन ह व्यर्धुको भवति यद् इतो ऽमुच्यत तौ सिंहा अभवतां यद् इतस् तौ व्याघ्रौ यद् इतस् तौ वृकौ यत् प्रथमं निरष्टीवत् तत् कुवलम् अभवद् यद् द्वितीयं तद् बदरं यत् तृतीयं तत् कर्कन्धुर् यद् अधस्तात् सा सुरा तं वा एतयाश्विना अयाजयतां सौत्रामण्या स यैर् एव तद् इन्द्रियैर् वीर्यैर् व्यार्ध्यत तान्य् अस्मिन्न् आप्त्वाधत्तां सोमेनातिपुपुवानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यं सोमो ऽतिपवते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति राजसूयेनाभिषिषिचानं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति भूतिकामं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो ऽलं भूत्यै सन् न भवति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति ज्योगामयाविनं याजयेद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य ज्योग् आमयति यावद् एवेन्द्रियं वीर्यं तद् अस्मिन्न् आप्त्वा दधाति नानार्तेन यष्टव्यम् इत्य् आहुर् आर्तयज्ञ इव ह्य् एष तद् आहुर् यष्टव्यम् एव सर्वो हि पुरुषा आर्तः सर्वो बुभूषति यद् आश्विन्य् अश्विनौ ह्य् अभिषज्यतां यत् सारस्वती वाग् वै सरस्वती वाचा ह्य् अभिषज्यतां यद् ऐन्द्रीन्द्रे हि तौ तानीन्द्रियाणि वीर्याण्य् आप्त्वाधत्ताम्
॥२.४.१॥अन्नाद्यं : फ़्न् थिस् स्होउल्द् बे अन्नाद्यम्।
सीसेन क्लीबात् कार्यानृतं वै सीसम् अनृतं क्लीबो ऽनृतं सुरानृतेनैवानृताद् अनृतं क्रीणाति तद् आहुः कार्या वडबा दक्षिणेति सृत्वरीव ह्य् एषा सृत्वरी वडबाश्विनं प्रथमम् आलभन्ते ऽथ सारस्वतीम् अथैन्द्रम् एवम् एव वपाभिश् चरतीन्द्र एवैषु तद् अधिभवत्य् ऐन्द्रः पुनः प्रचरतां प्रथमो भवतीन्द्रं वा एतत् पुनर् आलभन्ते सेन्द्रियत्वायैन्द्री वपानाम् उत्तमा भवत्य् ऐन्द्रः पुरोडाशानां प्रथमो वीर्यं वा इन्द्रो वीर्य एवैनम् अभिसन्धत्तः प्रसवाय सावित्रो निर्वरुणत्वाय वारुणो मध्यतो ह्य् एष वरुणगृहीतः पश्चाद् वा एषा सृष्टा प्रतीचीनशीर्ष्णी यद् उपरिष्टात् पुरोडाशो भवत्य् अपिहित्या अछिद्रत्वाय सह समवत्तं भवति सहेडाम् उपह्वयन्ते संहित्यय् अथो इडाया अविदोहाय यद् वै सौत्रामण्याव्यृद्धं तद् अस्याः समृद्धं यद् अन्यदेवत्याः पुरोडाशा भवन्त्य् अन्यदेवत्याः पशवस् तद् अस्या व्यृद्धं सत् समृद्धम् अर्धं वै प्रजापतेर् आत्मनो धैर्यम् आसीद् अर्धं माल्व्यं यद् धैर्यं तत् पुरस्ताद् अकुरुत यन् माल्व्यं तत् पश्चात् पर्यौहत यद् धैर्यं सोमो वै स ततो ब्राह्मणम् असृजत तस्माद् ब्राह्मणः सर्व एव ब्रह्माभि धीरो यन् माल्व्यं सुरा वै सा ततो राजन्यम् असृजत तस्माज् ज्यायांश् च कनीयांश् च स्नुषा च श्वशुरश् च सुरां पीत्वा विलालपत आसते माल्व्यं हि तत् पाप्मा वै माल्व्यं तस्माद् ब्राह्मणः सुरां न पिबेत् पाप्मनात्मानं नेत् संसृजा इति तद् उतैतद् राष्ट्रीयाय ब्राह्मणं ब्रूयात् तद् य एवं विद्वान्त् सुरां पिबति न हैनं द्रूणात्य् एषा वै प्रजापतेर् वीर्यवती तनूर् वीर्यं प्रजापतिर् वीर्यम् अस्मिन् दधाति
॥२.४.२॥ततो यः सोमो ऽत्यरिच्यत तम् अग्ना उपप्रावर्तयत् ।
स्वाहेन्द्रशत्रुर् वर्धस्व ॥
इतीन्द्रस्याहैनं शत्रुम् अचिकीर्षद् इन्द्रम् अस्य शत्रुम् अकरोत् तथा वाक् स्वयम् एव व्यैत् स यं सोमं प्रावर्तयद् यस्मिंश् चाग्ना उपप्रावर्तयत् ता अग्नीषोमौ देवते प्राणापाना अभिसमभवतां स यावद् ऊर्ध्वबाहुः पराविध्यत् तावति व्यरमत यदि वा प्रवणं तावद् आसीद् यदि वाग्नेर् अधि तावद् आसीत् स वा इषुमात्रम् एवाह्ना तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् अथो आहुर् अहोरात्रे एवेषुमात्रं तिर्यङ्ङ् अवर्धतेषुमात्रम् अन्वङ्ङ् इत्य् अथो आहुर् अर्धमासम् अथो मासम् अथो संवत्सरम् इति स वा इमाः सर्वाः स्नोत्याः पर्यशयत् तस्माद् वा इन्द्रो ऽबिभेत् तस्माद् उ त्वष्टाबिभेत् तस्येन्द्रः प्रत्तिम् ऐछत् तम् अस्मै प्रायछत् तस्मै त्वष्टा वज्रम् असिञ्चत् तपो वै स वज्र आसीत् तम् उद्यमं नाशक्नोद् अथ वै तर्हि विष्णुर् अन्या देवतासीत् सो ऽब्रवीद् विष्णा एहीदम् आहरिष्यावो येनायम् इदम् इति स त्रेधात्मानं विन्यधत्ताभिपर्यावर्ताद् अबिभेद् अस्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयं स यद् अस्यां तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥
अधा मा ॥ इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् अन्तरिक्षे तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीर् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥
द्विर् माधाः ॥
इति तद् विष्णवे ऽतिप्रायछत् तद् विष्णुः प्रत्यगृह्णात् ॥
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
इति सो ऽवेद् अस्ति वावास्मिन्न् अन्तर् वीर्यम् इति स यद् दिवि तृतीयम् आसीत् तेन वज्रम् उदयछद् विष्ण्वनुष्ठितः स वज्रम् उद्यतं दृष्ट्वाबिभेत् सो ऽब्रवीद् अस्ति वा इदं त्यस्मिन्न् अन्तर् वीर्यं तत् ते प्रदास्यामि मा मा वधीः ॥
सन्धां नु सन्दधावहै यथा त्वाम् एव प्रविशानीति सो ऽब्रवीद् यन् मां प्रविशेः किं मे ततः स्याद् इति सो ऽब्रवीत् त्वाम् एवेन्धीय तव भोगाय त्वां प्रविशेयम् इति तद् वा अस्मै प्रायछत् तत् प्रत्यगृह्णात् ॥
त्रिर् माधाः ॥ इति तद् वाव त्रैधातव्या सहस्रं वा अस्मै तत् प्रायछद् ऋचः सामानि यजूंषि यद् वा इदं किं च तत् त्रैधातव्या तद् आप्नोति पशून् एव
॥२.४.३॥उदरं वै वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यत् तप उपैति पाप्मानं वा एतत् स्तृणुते भ्रातृव्यं क्षुधम् एव तस्मिन् वा अवदेतां सेयम् अस्या अध्य् ऊर्ध्वा वाग् अवदत् ॥
उभा जिग्यथुर् न पराजयेथे न पराजिग्ये कतरश्चनैनोः ।
इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
इति सत्यम् आहेत्य् अब्रवीद् द्वे एव तृतीये आहर्तुर् एकं प्रतिग्रहीतुर् इति तौ वै तत्रैवातिष्ठेतां तस्माद् ऐन्द्रावैष्णवं त्रिरात्रस्य वा उपेप्सायै त्रैधातव्याह्रियते यावद् वै त्रिरात्रेणोपाप्नोति तावत् त्रैधातव्ययावरुन्द्धे तस्माद् आहुः सहस्रदक्षिणेत्य् उष्णिहाककुभा अन्वाह गायत्री वा उष्णिहाथ यान्य् एतानि चत्वार्य् अक्षराण्य् ऋच्य् अधि चतुष्पादो वा एते पशवो यथा वा इदं पुरोडाशे पुरोडाशो ऽध्य् एवं वा एतद् यद् ऋच्य् अध्य् अक्षराणि प्राणो वै गायत्री प्राणेन पशवो यता यद् उष्णिहाककुभा अन्वाह पशूनां यत्यै ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुछन् ॥
इति परिदधाति वीरतायय् अथो रूपताया एव यज् जगत्या परिदध्याद् अन्तं गछेद् अथ यत् त्रिष्टुभा परिदधाति तान्तं गछत्य् ओजो वै वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति
॥२.४.४॥सर्वाभ्यो देवताभ्यो यज्ञ आहृत्या इत्य् आहुः सर्वो वा एष यज्ञः सर्वाभ्यो हि देवताभ्यो यज्ञ आह्रियते सर्वाणि छन्दांस्य् अन्वाह सर्वाणि हि छन्दांसि यज्ञे प्रयुज्यन्ते ऽभिचरन्न् आहरेत् सर्वो वा एष यज्ञः सर्वेणैवैनं यज्ञेनाभिचरत्य् अदक्षिणस् तु स्यास् तत् स्विन् मेनिम् अकर् मेनिर् ह्य् अदक्षिणो ऽथ यो यक्ष्य इत्य् उक्त्वा न यजेत तम् एतेन याजयेत् सर्वो वा एष यज्ञः सर्वेणैवास्मै यज्ञेन प्रायश्चित्तिं विन्दत्य् उत्तरौत्तरः पुरोडाशो ज्यायान् भवत्य् उत्तरौत्तरो हि लोको ज्यायान् यथा वा इयम् एवम् असव् अथ वा अन्तरिक्षं नास्या रूपं नामुष्यास् तस्माद् यवमयो मध्यतो ऽथो एवम् इव ह्य् अन्तरिक्षस्य रूपं द्वादशकपालो भवति यद् वै त्रिस्त्रिस् तत् त्रैधातव्यायाः समृद्धं सर्वेषाम् अतिघातम् अवद्यत्य् अछम्बट्काराय यावता हि न प्राप्नुयात् तावता छम्बट्कुर्याद् एतद् वै तद् यद् आहुश् छम्बण् णासा इति वास इव वै यज्ञ ऊयते यत् तार्प्याणि विषीव्यन्ति यजुषां तद् रूपं यद् धेनवो दीयन्त उक्थामदानां तद् यद् धिरण्यं दीयते चन्द्रं गीयता इति वै सामाहुः साम्नां तद् रूपम् एतेन वै सृञ्जया अयजन्त ते श्रियो ऽन्तम् अगछंस् तस्मान् नातिबहु यष्टव्यम् ईश्वरो हि पराङ् अतिपत्तोर् यो वा एतेन यजते वि स छिनत्ति पुत्रो याजयितव्यो ऽनुसन्तत्यै
॥२.४.५॥णासा : फ़्न् एमेन्देद्। एद्।: णासा। च्फ़्। नोते ३
आग्नेयम् अष्टाकपालं निर्वपेद् ऐन्द्रम् एकादशकपालं बार्हस्पत्यं चरुं भूतिकामं याजयेद् इन्द्रो वै शिथिर इवामन्यत सो ऽग्निं च बृहस्पतिं चाब्रवीद् याजयतं मेति तं वा एतयाग्निश् च बृहस्पतिश् चायाजयतां तस्मिंस् तेजो ऽग्निर् अदधाद् इन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिस् तता इन्द्रो ऽभवद् यो भूतिकामः स्यात् तम् एतया याजयेत् तेज एवास्मिन्न् अग्निर् दधातीन्द्रियम् इन्द्रो ब्रह्म बृहस्पतिर् भवत्य् एव यद् अस्मिंश् त्रीणि वीर्याण्य् अधत्तां तस्मात् त्रिधातुर् ऐन्द्र इतरा अभिसंश्लेषयन्ति सेन्द्रियत्वाय
॥२.४.६॥पुरोवात जिन्व रावट् स्वाहा वातवान् वर्षन् भीम रावट् स्वाहा स्तनयन् वर्षन्न् उग्र रावाट् स्वाहातिरात्रं ववर्ष्वान् पूर्त रावट् स्वाहा बहु ह वा अयम् अवर्षीद् इति श्रुत रावट् स्वाहा तपति वर्षन् विराड् रावट् स्वाहा ऽवस्फूर्जन् विद्युद् वर्षंस् त्वेष रावट् स्वाहा नशन्य् अवस्फूर्जन् वर्षन् भूत रावट् स्वाहा ॥
ऽवस्फूर्जन् : ⟨ अवस्फूर्जन्
मान्दा वशा ज्योतिष्मतीर् अमस्वरीः शुन्धो अज्रा उन्दतीः सुफेनाः ।
मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह नो ऽवत ॥
वृष्णो अश्वस्य सन्दानम् असि वृष्ट्यै त्वोपनह्यामि ॥
देवा वसव्या अग्ने सोम सूर्यापो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
देवाः शर्मण्या मित्र वरुणार्यमन्न् अपो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
देवाः सपीतयो ऽपां नपान् नराशंसापो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
यत् पृथिवीं व्युन्दन्ति ॥
आयन् नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः ।
प्र पर्जन्यः सृजतां रोदसी अनु धन्वना यन्तु वृष्टयः ॥
उदीरयता मरुतः समुद्रतो दिवो वृष्टिं वर्षयता पुरीषिणः ।
न वो दस्रा उपदस्यन्ति धेनवः शुभे कम् अनु रथा अवृत्सत ॥
सृजा वृष्टिं दिव आद्भिः समुद्रं पृण ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास् त इदं क्षेत्रम् आविशत त इदं क्षेत्रम् अनुविविशत
॥२.४.७॥वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावंस् तान् वा एतया प्रजापतिर् अयाजयत् कारीर्या तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यत्र पर्जन्यो न वर्षेत् तद् एतया ज्येष्ठं वा पुरोहितं वा याजयेद् वृष्टिर् वा एतेभ्यो ऽन्नाद्यम् अपक्रामति यत्र पर्जन्यो न वर्षति यत् कारीर्या याजयन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् अष्टौ वातहोमा अष्टौ दिशा इति दिग्भ्य एवैतैर् वृष्टिम् आवर्तयन्ति मान्दा वशा ज्योतिष्मतीर् अमस्वरीर् इत्य् एतानि वा अपां नामधेयानि यथा वा इदं नामग्राहम् असा असा इति ह्वयत्य् एवं वा एतद् अपो नामधेयैश् च्यावयति वृष्णो अश्वस्य सन्दानम् असीति वृषा ह्य् अश्वो वृषा पर्जन्यः समृद्ध्यै वृष्ट्यै त्वोपनह्यामीति वृष्ट्यै ह्य् उपनह्यति देवा वसव्या अग्ने सोम सूर्येति देवताभिर् एवान्वहं वृष्टिम् अछैति यदि न वर्षेत् तत्रैव वसेयुर् अहोरात्राभ्याम् एव वृष्टिं च्यावयन्ति करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै मधूद्युतानि भवन्त्य् अपां वा एष ओषधीनां रसो ऽपाम् एवैना ओषधीनां रसेनाछैति रसेनैनाश् च्यावयत्य् अग्नये धामछदे ऽष्टाकपालं निर्वपेन् मारुतं सप्तकपालं सौर्यम् एककपालं वृष्टिकामं याजयेद् अग्निर् वा इतो वृष्टिम् ईट्टे मरुतो ऽमुतश् च्यावयन्ति तां सूर्यो रश्मिभिर् वर्षत्य् एते वै वृष्ट्याः प्रदातारस् तान् एव भागधेयेनोपासरत् ते ऽस्मै वृष्टिं प्रयछन्ति सृजा वृष्टिं दिव आद्भिः समुद्रं पृणेतीमाश् चैवामूश् च समस्राड् आभिर् अमूर् अछैति ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास् त इदं क्षेत्रम् आविशत त इदं क्षेरम् अनुविविशतेतीमान् एव लोकान् वृष्ट्यै सम्मृशति
॥२.४.८॥