द्वितीयकाण्डे अष्टमः प्रपाठकः
द्वितीयकाण्डे अष्टमः प्रपाठकः
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैर् वैश्वानरैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा
॥२.८.१॥प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् म उरुया विभाहि श्रोत्रं मे श्लोकयापः पिन्वौषधीर् जिन्व द्विपाद् अव चतुष्पात् पाहि दिवो वा वृष्टिम् एरय क्षत्रं वयो मयन्तं छन्दो विष्टम्भो वयो ऽधिपतिश् छन्दो मूर्धा वयः प्रजापतिश् छन्दो विश्वकर्मा वयः परमेष्ठी छन्दस् त्र्यविर् वयस् त्रिष्टुप् छन्दो दित्यवाड् वयो विराट् छन्दः पञ्चाविर् वयो गायत्री छन्दस् त्रिवत्सो वय उष्णिहा छन्दस् तुर्यवाड् वयो ऽनुष्टुप् छन्दः पष्ठवाड् वयो बृहती छन्द उक्षा वयः ककुप् छन्द ऋषभो वयः सतोबृहती छन्दो ऽनड्वान् वयः पङ्क्तिश् छन्दो धेनुर् वयो जगती छन्दो बस्तो वयो युवलं छन्दो वृष्णिर् वयो विशालं छन्दः पुरुषो वयस् तन्द्रं छन्दः सिंहो वयश् छदिश् छन्दो व्याघ्रो वयो ऽनाधृष्यं छन्दः
॥२.८.२॥इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् ।
पृष्ठेन द्यावापृथिवी आपृणान्तरिक्षं च विबाधस्व ॥
राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् आयुर् मे पाहि प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् मे पाहि श्रोत्रं मे पाहि मनो मे पिन्व वाचं मे जिन्वात्मानं मे पाहि ज्योतिर् मे यछ मा छन्दः प्रमा छन्दः प्रतिमा छन्दो ऽस्रीवीश् छन्दः पङ्क्तिश् छन्द उष्णिहा छन्दो गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दो विराट् छन्दो बृहती छन्दः पृथिवी छन्दो ऽन्तरिक्षं छन्दो द्यौश् छन्दो नक्षत्राणि छन्दः समा छन्दः कृषिश् छन्दो वाक् छन्दो मनश् छन्दो गौश् छन्दो ऽश्वश् छन्दो ऽजा छन्दो हिरण्यं छन्दो ऽग्निर् देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवतादित्या देवता मरुतो देवतेन्द्रो देवता वरुणो देवता बृहस्पतिर् देवता विश्वे देवा देवता मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरण्य् आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड् यन्त्र्य् असि यमनी धर्त्र्य् असि धरित्रीषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा
॥२.८.३॥इन्द्रो : फ़्न् एमेन्देद्। एद्।: इन्दो
ध्रुवासि : फ़्न् एमेन्देद्। एद्।: ध्रवासि।
आशुस् त्रिवृद् भान्तः पञ्चदशो व्योमा सप्तदशः प्रतूर्तिर् अष्टादशस् तपो नवदशो ऽभीवर्तः सविंशो धरुण एकविंशो वर्चो द्वाविंशः सम्भरणस् त्रयोविंशो योनिश् चतुर्विंशो गर्भाः पञ्चविम्श ओजस् त्रिणवो विराट् त्रिंशः क्रतुर् एकत्रिंशो विधृतिर् द्वात्रिंशः प्रतिष्ठा त्रयस्त्रिंशो ब्रध्नस्य विष्टपं चतुस्त्रिंशो नाकः षट्त्रिंशो वीवर्तो ऽष्टाचत्वारिंशो धर्त्रं चतुष्टोमः
॥२.८.४॥अग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोम इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रं स्पृतं पञ्चदशः स्तोमो नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रं स्पृतं सप्तदशः स्तोमो मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वातः स्पृत एकविंशः स्तोमो ऽदित्या भागो ऽसि पूष्ण आधिपत्यम् ओजः स्पृतं त्रिणवः स्तोमो वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विंशः स्तोम आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भाः स्पृताः पञ्चविंशः स्तोमः सवितुर् भागो सि बृहस्पतेर् आधिपत्यं समीचीर् दिशः स्पृताश् चतुष्टोमः स्तोमो यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजाः स्पृताश् चतुश्चत्वारिंशः स्तोम ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतं निशान्तं स्पृतं त्रयस्त्रिंशः स्तोमः
॥२.८.५॥एकयास्तुवत प्रजा अधीयन्त प्रजानां पतिर् अधिपतिर् आसीत् तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् सप्तभिर् अस्तुवत सप्तऋषयो ऽसृज्यन्त धाताधिपतिर् आसीन् नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपतिर् आसीद् एकादशभिर् अस्तुवतार्तवा असृज्यन्त ऋतवो ऽधिपतय आसंस् त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् पञदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीन् नवदशभिर् अस्तुवत शूद्रार्या असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम् एकविंशत्यास्तुवतैकशफम् असृज्यत वरुणो ऽधिपतिर् आसीत् त्रयोविंशत्यास्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् पञ्चविंशत्यास्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् सप्तविंशत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीन् नवविंशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा अनुव्यायंस् त उ एवाधिपतय आसन्न् एकत्रिंशतास्तुवत प्रजा असृज्यन्त यवाश् चायवाश् चाधिपतय आसंस् त्रयस्त्रिंशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत्
॥२.८.६॥अग्ने जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमना अहेडञ् शर्मंस् ते स्याम त्रिवरूथा उद्भौ ॥
सहसा जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान् ॥
चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणं षोडशी स्तोम ओजो द्रविणम् ॥
अग्नेः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणायजस्व ॥
तया देवतयाङ्गिरस्वद् द्रुवा सीदैवश् छन्दो वरिवश् छन्द आछच् छन्दो मनश् छन्दः शम्भूश् छन्दः परिभूश् छन्दः सिन्धुश् छन्दो व्यचश् छन्दः समुद्रं छन्दः सलिलं छन्दः ककुप् छन्दस् त्रिककुप् छन्दः काव्यं छन्दो ऽङ्कुपं छन्दो ऽक्षरपङ्क्तिश् छन्दः पदपङ्क्तिश् छन्दो विष्टारपङ्क्तिश् छन्दः क्षुरो भृजश् छन्दः पक्षश् छन्दः प्रछच् छन्दः संयच् छन्दो वियच् छन्दो बृहच् छन्दो रथन्तरं छन्दो निकायं छन्दो वीवधं छन्दो गिरश् छन्दो भृजश् छन्दः संस्तुप् छन्दो ऽनुष्टुप् छन्द एवश् छन्दो वरिवश् छन्दो वयश् छन्दो वयस्कृच् छन्दो विशालं छन्दो विष्पर्धाश् छन्दश् छदिश् छन्दो दूरोहणं छन्दस् तन्द्रं छन्दो ऽङ्कावङ्कं छन्दः
॥२.८.७॥रश्मिना क्षयाय क्षयं जिन्व प्रेत्या धर्मणे धर्म जिन्वान्वित्या दिवे दिवं जिन्व सन्धिनान्तरिक्षायान्तरिक्षं जिन्व प्रतिधिना पृथियै पृथिवीं जिन्व विष्टम्भेन वृष्ट्यै वृष्टिं जिन्व प्रवायाह्ने ऽहर् जिन्वानुवाय रात्र्यै रात्रीं जिन्वोशिजा वसुभ्यो वसून् जिन्व प्रकेतेन रुद्रेभ्यो रुद्रान् जिन्व सुदितिनादित्येभ्य आदित्यान् जिन्व तन्तुना प्रजाभ्यः प्रजा जिन्वौजसा पितृभ्यः पितॄन् जिन्व पृतनाषाहा पशुभ्यः पशून् जिन्व रेवतौषधीभ्या ओषधीर् जिन्वाभिजिता युक्तग्राव्णेन्द्रायेन्द्रं जिन्वाधिपतिना प्राणाय प्राणं जिन्व धरुणेनापानायापानं जिन्व संसर्पेण चक्षुषे चक्षुर् जिन्व वयोधसाधीतायाधीतं जिन्व त्रिवृता त्रिवृते त्रिवृज् जिन्व प्रवृता प्रवृते प्रवृज् जिन्व सवृता सवृते सवृज् जिन्वानूवृतानुवृते ऽनूवृज् जिन्व विरोहेण विरोहाय विरोहं जिन्व प्ररोहेण प्ररोहाय प्ररोहं जिन्व संरोहेण संरोहाय संरोहं जिन्वानूरोहेणानूरोहायानूरोहं जिन्व वसुकेन वसुकाय वसुकं जिन्व वेषश्रिया वेषश्रियै वेषश्रीं जिन्व वस्यष्ट्या वस्यष्ट्यै वस्यष्टिं जिन्वाक्रान्त्याक्रान्त्या उत्क्रान्तिं जिन्वोक्त्रान्त्योत्क्रान्त्या आक्रान्तिं जिन्व
॥२.८.८॥राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्यां श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नोतु रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं चा सादयन्तु विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्यां श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नोतु बृहत् साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा अधिपतयः सोमो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्यां श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नोतु वैरूपं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु स्वराड् अस्य् उदीची दिङ् मरुतस् ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविंशस् त्वा स्तोमः पृथिव्यां श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नोतु वैराजं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्व् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् विश्वे ते देवा अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नुतां शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु
॥२.८.९॥दिङ् : फ़्न् ⟨ दिश्
अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथकृत्स्नश् च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षांसि प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं पश्चा विदद्वसुस् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यव् आम्लोचन्ती च प्रम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पाः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ विश्वाची च घृताची चाप्सरसव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यऊर्वशी च पूर्वचित्तिश् चाप्सरसव् अवस्फूर्जद् धेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः
॥२.८.१०॥प्राच्या त्वा दिशा सादयाम्य् अग्निना देवेन देवतया गायत्रेण छन्दसाग्नेः शिरा उपदधामि गायत्रस्य छन्दसो ऽग्नेः शीर्ष्णाग्नेः शिरा उपदधामि दक्षिणया त्वा दिशा सादयामीन्द्रेण देवेन देवतया त्रैष्टुभेन छन्दसाग्नेः पक्षम् उपदधामि त्रैष्टुभस्य छन्दसो ऽग्नेः पक्षेणाग्नेः पक्षम् उपदधामि प्रतीच्या त्वा दिशा सादयामि विश्वेभिर् देवेभिर् देवतया जागतेन छन्दसाग्नेः पुछम् उपदधामि जागतस्य छन्दसो ऽग्नेः पुछेनाग्नेः पुछम् उपदधाम्य् उदीच्या त्वा दिशा सादयामि मित्रावरुणाभ्यां देवाभ्यां देवतयानुष्टुभेन छन्दसाग्नेः पक्षम् उपदधाम्य् आनुष्टुभस्य छन्दसो ऽग्नेः पक्षेणागेः पक्षम् उपदधाम्य् ऊर्ध्वया त्वा दिशा सादयामि बृहस्पतिना देवेन देवतया पाङ्क्तेन छन्दसाग्नेः पृष्ठम् उपदधामि पाङ्क्तस्य छन्दसो ऽग्नेः पृष्ठेनाग्नेः पृष्ठम् उपदधामि
॥२.८.११॥मधुश् च माधवश् च वासन्तिका ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।
वासन्तिका ऋतू अभिकल्पमाना इन्द्रम् इव देवा अभिसंविशन्तु ॥
शुक्रश् च शुचिश् च ग्रैष्मा ऋतू नभश् च नभस्यश् च वार्षिका ऋतू इषश् चोर्जश् च शारदा ऋतू सहश् च सहस्यश् च हैमन्तिका ऋतू तपश् च तपस्यश् च शैशिरा ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।
शैशिरा ऋतू अभिकलमाना इन्द्रम् इव देवा अभिसंविशन्तु
॥२.८.१२॥पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिर् असि स्तनयित्नुसनिर् असि वृष्टिसनिर् अस्य् अग्नेर् यान्य् अस्य् अग्नेर् अग्नेयान्य् असि वायोर् यान्य् असि वायोर् वायोयान्य् असि देवानां यान्य् असि देवानां देवयान्य् असि विश्वेषां देवानां यान्य् असि विश्वेषां देवानां देवयान्य् असि संयान्य् अस्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदाम्बा च बुला च नितत्नी च स्तनयन्ती चाभ्रयन्ती च मेघयन्ती च चुपुणीका सलिलाय त्वा मृदीकाय त्वा सतीकाय त्वा केताय त्वा सुकेताय त्वा सकेताय त्वा विवस्वते त्वा दिवे त्वा ज्योतिष आदित्येभ्यस् त्वा
॥२.८.१३॥उदपुरा नामास्य् अन्नेन विष्ठा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मनुष्यास् ते गोप्तारो ऽग्निर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदापराजिता नामासि ब्रह्मणा विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मरुतस् ते गोप्तारो वायुर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदाधिद्यौर् नामास्य् अमृतेन विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण विश्वे ते देवा गोप्तारः सूर्यो ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे भूर् असि भूमिर् असि प्रथो ऽसि पृथिव्य् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्रायाग्निष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन विश्वकर्मा सादयत्व् अन्तरिक्षस्य पृष्ठे ऽन्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीं रश्मीवतीम् आ या दिवं भास्या पृथिवीम् ओर्व् अन्तरिक्सं दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन ॥
प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्यस्थात् ।
आद् अस्य वातो अनुवाति शोचिर् अध स्मा ते व्रजनं कृष्णम् अस्तु ॥
आयोष् ट्वा सदने सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे सहस्रस्य मासि सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्य सम्मासि सहस्रस्योन्मासि साहस्रो ऽसि सहस्राय त्वेमा मे अग्ना इष्टका धेनवः सन्त्व् एका च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च प्रयुतं च प्रयुतं चायुतं च ओ अर्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्ना इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतुष्ठाः स्थ ऋतावृधो घृतश्चुतो मधुश्चुता ऊर्जस्वतीः पयस्वतीः स्वधायिनीः कुलायिनीस् ता मे अग्ना इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिंल् लोके
॥२.८.१४॥