मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

दामोदराष्टकम्

Also spelled: Damodarashtakam

3

पद्मपुराणम्

नमामीश्वरं सच्चिदानन्दरूपं

लसत्कुण्डलं गोकुले भ्राजमानम् ।

यशोदाभियोलूखलाद् धावमानं

परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥

॥१॥

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं

कराम्भोजयुग्मेन सातङ्कनेत्रम् ।

मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-

स्थितग्रैव-दामोदरं भक्तिबद्धम् ॥

॥२॥

इतीदृक् स्वलीलाभिरानन्दकुण्डे

स्वघोषं निमज्जन्तमाख्यापयन्तम् ।

तदीयेषिताज्ञेषु भक्तैर्जितत्वं

पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥

॥३॥

वरं देव मोक्षं न मोक्षावधिं वा

न चान्यं वृणेऽहं वरेषादपीह ।

इदं ते वपुर्नाथ गोपालबालं

सदा मे मनस्याविरास्तां किमन्यैः ॥

॥४॥

इदं ते मुखाम्भोजमत्यन्तनीलैर्-

वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या ।

मुहुश्चुम्बितं बिम्बरक्ताधरं मे

मनस्याविरास्ताम् अलं लक्षलाभैः ॥

॥५॥

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।

कृपादृष्टिवृष्ट्यातिदीनं बतानु

गृहाणेश माम् अज्ञमेध्यक्षिदृश्यः ॥

॥६॥

कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्

त्वया मोचितौ भक्तिभाजौ कृतौ च ।

तथा प्रेमभक्तिं स्वकं मे प्रयच्छ

न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥

॥७॥

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने ।

नमो राधिकायै त्वदीयप्रियायै

नमोऽनन्तलीलाय देवाय तुभ्यम् ॥

॥८॥

इति श्रीमत्पद्मपुराणे श्री-दामोदराष्टकं सम्पूर्णम्