अनुवाक 1
प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॑।
स ए॒तं दश॑होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत्।
ततो॒ वै स प्र॒जा अ॑सृजत।
ता अ॑स्माथ्सृ॒ष्टा अपा᳚क्रामन्।
ता ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
यः का॒मये॑त॒ प्रजा॑ये॒येति॑।
स दश॑होतारं॒ मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात्।
प्र॒जाप॑ति॒र्वै दश॑होता॥१॥
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते।
मन॑सा जुहोति।
मन॑ इव॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
पू॒र्णया॑ जुहोति।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
न्यू॑नया जुहोति।
न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत।
प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚॥२॥
द॒र्भ॒स्त॒म्बे जु॑होति।
ए॒तस्मा॒द्वै योनेः᳚ प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प्र॒जा असृ॑जत।
तस्मा॑दे॒व योनेः॒ प्रजा॑यते।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा।
उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते।
ग्रहो॑ भवति।
प्र॒जानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚।
यं ब्रा᳚ह्म॒णं वि॒द्यां वि॒द्वाꣳसं॒ यशो॒ नर्च्छेत्॥३॥
सोऽर॑ण्यं प॒रेत्य॑।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑।
ब्रा॒ह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑।
चतु॑र्होतॄ॒न्व्याच॑क्षीत।
ए॒तद्वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑।
यच्चतु॑र्होतारः।
तदे॒व प्र॑का॒शं ग॑मयति।
तदे॑नं प्रका॒शं ग॒तम्।
प्र॒का॒शं प्र॒जानां᳚ गमयति।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे॥४॥
अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः।
अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा।
उ॒प॒द्र॒ष्टु॒मत्ये॒वैनं॒ यश॑ ऋच्छति।
ई॒श्व॒रन्तं यशोर्तो॒रित्या॑हुः।
यस्यान्ते᳚ व्या॒चष्ट॒ इति॑।
वर॒स्तस्मै॒ देयः॑।
यदे॒वैनं॒ तत्रो॑प॒नम॑ति।
तदे॒वाव॑ रुन्धे॥५॥
अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात्।
प्रजा॑तमे॒वैन॒मा ध॑त्ते।
तेनै॒वोद्द्रुत्या᳚ग्निहो॒त्रं जु॑हुयात्।
प्रजा॑तमे॒वैन॑ज्जुहोति।
ह॒विर्नि॑र्व॒फ्स्यं दश॑होतारं॒ व्याच॑क्षीत।
प्रजा॑तमे॒वैनं॒ निर्व॑पति।
सा॒मि॒धे॒नीर॑नुव॒क्ष्यं दश॑होतारं॒ व्याच॑क्षीत।
सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते।
अथो॑ य॒ज्ञो वै दश॑होता।
य॒ज्ञमे॒व त॑नुते॥६॥
अ॒भि॒चरं॒ दश॑होतारं जुहुयात्।
नव॒ वै पुरु॑षे प्रा॒णाः।
नाभि॑र्दश॒मी।
सप्रा॑णमे॒वैन॑म॒भि च॑रति।
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम्।
याव॑त्प्रा॒णाः।
याव॑दे॒वास्यास्ति॑।
तद॒भि च॑रति।
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚।
ए॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीतम्।
निर्ऋ॑तिगृहीत ए॒वैनं॒ निर्ऋ॑त्या ग्राहयति।
यद्वा॒चः क्रू॒रम्।
तेन॒ वष॑ट्करोति।
वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति।
ता॒जगार्ति॒मार्च्छ॑ति॥७॥
अनुवाक 2
प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑।
स ए॒तं चतु॑र्होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स द॑र्शपूर्णमा॒साव॑सृजत।
ताव॑स्माथ्सृ॒ष्टावपा᳚क्रामताम्।
तौ ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः।
चतु॑र्होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात्।
द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते॥८॥
ग्रहो॑ भवति।
द॒र्॒श॒पू॒र्ण॒मा॒सयोः᳚ सृ॒ष्टयो॒र्धृत्यै᳚।
सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑।
स ए॒तं पञ्च॑होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत।
तान्य॑स्माथ्सृ॒ष्टान्यपा᳚क्रामन्।
तानि॒ ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः॥९॥
पञ्च॑होतारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते।
ग्रहो॑ भवति।
चा॒तु॒र्मा॒स्यानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚।
सो॑ऽकामयत पशुब॒न्धꣳ सृ॑जे॒येति॑।
स ए॒तꣳ षड्ढो॑तारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स प॑शुब॒न्धम॑सृजत।
सो᳚स्माथ्सृ॒ष्टोऽपा᳚क्रामत्।
तं ग्रहे॑णागृह्णात्॥१०॥
तद्ग्रह॑स्य ग्रह॒त्वम्।
प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः।
षड्ढो॑तारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते।
ग्रहो॑ भवति।
प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚।
सो॑ऽकामयत सौ॒म्यम॑ध्व॒रꣳ सृ॑जे॒येति॑।
स ए॒तꣳ स॒प्तहो॑तारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत॥११॥
सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत्।
तं ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
दी॒क्षि॒ष्यमा॑णः।
स॒प्तहो॑तारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
सौ॒म्यमे॒वाध्व॒रꣳ सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते।
ग्रहो॑ भवति।
सौ॒म्यस्या᳚ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚।
दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत्।
तमे॑ताव॒च्छः सम॑भरन्॥१२॥
यथ्स॑म्भा॒राः।
ततो॒ वै तेभ्यो॑ य॒ज्ञः प्राभ॑वत्।
यथ्स॑म्भा॒रा भव॑न्ति।
य॒ज्ञस्य॒ प्रभू᳚त्यै।
आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे।
य॒ज्ञ॒मु॒खं वा आ॑ति॒थ्यम्।
मु॒ख॒त ए॒व य॒ज्ञꣳ स॒म्भृत्य॒ प्र त॑नुते।
अय॑ज्ञो॒ वा ए॒षः।
यो॑ऽप॒त्नीकः॑।
न प्र॒जाः प्रजा॑येरन्।
पत्नी॒र्व्याच॑ष्टे।
य॒ज्ञमे॒वाकः॑।
प्र॒जानां᳚ प्र॒जन॑नाय।
उ॒प॒सथ्सु॒ व्याच॑ष्टे।
ए॒तद्वै पत्नी॑नामा॒यत॑नम्।
स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति॥१३॥
अनुवाक 3
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
स त्रि॒वृत॒ꣴ॒ स्तोम॑मसृजत।
तं प॑ञ्चद॒शः स्तोमो॑ मध्य॒त उद॑तृणत्।
तौ पू᳚र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम्।
पू॒र्व॒प॒क्षं दे॒वा अन्वसृ॑ज्यन्त।
अ॒प॒र॒प॒क्षमन्वसु॑राः।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः।
यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑॥१४॥
तं पू᳚र्वप॒क्षे या॑जयेत्।
वसी॑याने॒व भ॑वति।
यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑।
तम॑परप॒क्षे या॑जयेत्।
पापी॑याने॒व भ॑वति।
तस्मा᳚त्पूर्वप॒क्षो॑ऽपरप॒क्षात्क॑रु॒ण्य॑तरः।
प्र॒जाप॑ति॒र्वै दश॑होता।
चतु॑र्होता॒ पञ्च॑होता।
षड्ढो॑ता स॒प्तहो॑ता।
ऋ॒तवः॑ संवथ्स॒रः॥१५॥
प्र॒जाः प॒शव॑ इ॒मे लो॒काः।
य ए॒वं प्र॒जाप॑तिं ब॒होर्भूयाꣳ॑सं॒ वेद॑।
ब॒होरे॒व भूया᳚न्भवति।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत।
स इन्द्र॒मपि॒ नासृ॑जत।
तं दे॒वा अ॑ब्रुवन्।
इन्द्रं॑ नो जन॒येति॑।
सो᳚ऽब्रवीत्।
यथा॒ऽहं यु॒ष्माꣴस्तप॒साऽसृ॑क्षि।
ए॒वमिन्द्रं॑ जनयध्व॒मिति॑॥१६॥
ते तपो॑ऽतप्यन्त।
त आ॒त्मन्निन्द्र॑मपश्यन्।
तम॑ब्रुवन्।
जाय॒स्वेति॑।
सो᳚ऽब्रवीत्।
किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑।
ऋ॒तून्थ्सं॑वथ्स॒रम्।
प्र॒जाः प॒शून्।
इ॒माँल्लो॒कानित्य॑ब्रुवन्।
तं वै माऽऽहु॑त्या॒ प्र ज॑नय॒तेत्य॑ब्रवीत्॥१७॥
तं चतु॑र्होत्रा॒ प्राज॑नयन्।
यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑।
स चतु॑र्होतारं जुहुयात्।
प्र॒जाप॑ति॒र्वै चतु॑र्होता।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति।
आऽस्य॑ वी॒रो जा॑यते।
वी॒रꣳ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन्।
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पर्धन्त।
व॒यं पूर्वे॑ सुव॒र्गं लो॒कमि॑याम व॒यं पूर्व॒ इति॑॥१८॥
त आ॑दि॒त्या ए॒तं पञ्च॑होतारमपश्यन्।
तं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रेऽजुहवुः।
ततो॒ वै ते पूर्वे॑ सुव॒र्गं लो॒कमा॑यन्।
यः सु॑व॒र्गका॑मः॒ स्यात्।
स पञ्च॑होतारं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रे जुहुयात्।
सं॒व॒थ्स॒रो वै पञ्च॑होता।
सं॒व॒थ्स॒रः सु॑व॒र्गो लो॒कः।
सं॒व॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑।
सु॒व॒र्गं लो॒कमे॑ति।
ते᳚ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान्॥१९॥
क्व॑ स्थ।
क्व॑ वः स॒द्भ्यो ह॒व्यं व॑क्ष्याम॒ इति॑।
छन्दः॒ स्वित्य॑ब्रुवन्।
गा॒य॒त्रि॒यां त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑।
तस्मा॒च्छन्दः॑ सु स॒द्भ्य आ॑दि॒त्येभ्यः॑।
आ॒ङ्गी॒र॒सीः प्र॒जा ह॒व्यं व॑हन्ति।
वह॑न्त्यस्मै प्र॒जा ब॒लिम्।
ऐन॒मप्र॑तिख्यातं गच्छति।
य ए॒वं वेद॑।
द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑।
त्रय॑ इ॒मे लो॒काः।
अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः।
ए॒तस्मि॒न्वा ए॒ष श्रि॒तः।
ए॒तस्मि॒न्प्रति॑ष्ठितः।
य ए॒वमे॒तꣴ श्रि॒तं प्रति॑ष्ठितं॒ वेद॑।
प्रत्ये॒व ति॑ष्ठति॥२०॥
अनुवाक 4
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स ए॒तं दश॑होतारमपश्यत्।
तेन॑ दश॒धाऽऽत्मानं॑ वि॒धाय॑।
दश॑होत्राऽतप्यत।
तस्य॒ चित्तिः॒ स्रुगासी᳚त्।
चि॒त्तमाज्यम्᳚।
तस्यै॒ताव॑त्ये॒व वागासी᳚त्।
ए॒तावान्॑ यज्ञक्र॒तुः।
स चतु॑र्होतारमसृजत।
सो॑ऽनन्दत्॥२१॥
असृ॑क्षि॒ वा इ॒ममिति॑।
तस्य॒ सोमो॑ ह॒विरासी᳚त्।
स चतु॑र्होत्राऽतप्यत।
सो॑ऽताम्यत्।
स भूरिति॒ व्याह॑रत्।
स भूमि॑मसृजत।
अ॒ग्नि॒हो॒त्रं द॑र्शपूर्णमा॒सौ यजूꣳ॑षि।
स द्वि॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स भुव॒ इति॒ व्याह॑रत्॥२२॥
सो᳚ऽन्तरि॑क्षमसृजत।
चा॒तु॒र्मा॒स्यानि॒ सामा॑नि।
स तृ॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स सुव॒रिति॒ व्याह॑रत्।
स दिव॑मसृजत।
अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑।
ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः।
इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जाः प॒शव॒श्छन्दाꣳ॑सि॒ प्राजा॑यन्त।
य ए॒वमे॒ताः प्र॒जाप॑तेः प्रथ॒मा व्याहृ॑तीः॒ प्रजा॑ता॒ वेद॑॥२३॥
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते।
स पञ्च॑होतारमसृजत।
स ह॒विर्नावि॑न्दत।
तस्मै॒ सोम॑स्त॒नुवं॒ प्राय॑च्छत्।
ए॒तत्ते॑ ह॒विरिति॑।
स पञ्च॑होत्राऽतप्यत।
सो॑ऽताम्यत्।
स प्र॒त्यङ्ङ॑बाधत।
सोऽसु॑रानसृजत।
तद॒स्याप्रि॑यमासीत्॥२४॥
तद्दु॒र्वर्ण॒ꣳ॒ हिर॑ण्यमभवत्।
तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑।
स द्वि॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स प्राङ॑बाधत।
स दे॒वान॑सृजत।
तद॑स्य प्रि॒यमा॑सीत्।
तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑।
य ए॒वꣳ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑॥२५॥
सु॒वर्ण॑ आ॒त्मना॑ भवति।
दु॒र्वर्णो᳚ऽस्य॒ भ्रातृ॑व्यः।
तस्मा᳚थ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं भा॒र्यम्᳚।
सु॒वर्ण॑ ए॒व भ॑वति।
ऐनं॑ प्रि॒यं ग॑च्छति॒ नाप्रि॑यम्।
स स॒प्तहो॑तारमसृजत।
स स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमै᳚त्।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत।
त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रत्य॑तिष्ठत्।
ए॒क॒वि॒ꣳ॒शेन॒ रुच॑मधत्त॥२६॥
स॒प्त॒द॒शेन॒ प्राजा॑यत।
य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते।
स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमे॑ति।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते।
त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रति॑ तिष्ठति।
ए॒क॒वि॒ꣳ॒शेन॒ रुचं॑ धत्ते।
स॒प्त॒द॒शेन॒ प्र जा॑यते।
तस्मा᳚थ्सप्तद॒शः स्तोमो॒ न नि॒र्॒हृत्यः॑।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः।
प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजा᳚त्यै॥२७॥
अनुवाक 5
दे॒वा वै वरु॑णमयाजयन्।
स यस्यै॑यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑यत्।
ताम॑व्लीनात्।
ते᳚ऽब्रुवन्।
व्या॒वृत्य॒ प्रति॑गृह्णाम।
तथा॑ नो॒ दक्षि॑णा॒ न व्ले᳚ष्य॒तीति॑।
ते व्या॒वृत्य॒ प्रत्य॑गृह्णन्।
ततो॒ वै तान्दक्षि॑णा॒ नाव्ली॑नात्।
य ए॒वं वि॒द्वान्व्या॒वृत्य॒ दक्षि॑णां प्रतिगृ॒ह्णाति॑।
नैनं॒ दक्षि॑णा व्लीनाति॥२८॥
राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह।
आ॒ग्ने॒यं वै हिर॑ण्यम्।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति।
सोमा॑य॒ वास॒ इत्या॑ह।
सौ॒म्यं वै वासः॑।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति।
रु॒द्राय॒ गामित्या॑ह।
रौ॒द्री वै गौः।
स्वयै॒वैनां᳚ दे॒वत॑या॒ प्रति॑गृह्णाति।
वरु॑णा॒याश्व॒मित्या॑ह॥२९॥
वा॒रु॒णो वा अश्वः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति।
प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह।
प्रा॒जा॒प॒त्यो वै पुरु॑षः।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
मन॑वे॒ तल्प॒मित्या॑ह।
मा॒न॒वो वै तल्पः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
उ॒त्ता॒नाया᳚ङ्गीर॒सायान॒ इत्या॑ह।
इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः॥३०॥
अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति।
वै॒श्वा॒न॒र्यर्चा रथं॒ प्रति॑ गृह्णाति।
वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
तेना॑मृत॒त्वम॑श्या॒मित्या॑ह।
अ॒मृत॑मे॒वाऽऽत्मन्ध॑त्ते।
वयो॑ दा॒त्र इत्या॑ह।
वय॑ ए॒वैनं॑ कृ॒त्वा।
सु॒व॒र्गं लो॒कं ग॑मयति।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह॥३१॥
यद्वै शि॒वम्।
तन्मयः॑।
आ॒त्मन॑ ए॒वैषा परी᳚त्तिः।
क इ॒दं कस्मा॑ अदा॒दित्या॑ह।
प्र॒जाप॑ति॒र्वै कः।
स प्र॒जाप॑तये ददाति।
कामः॒ कामा॒येत्या॑ह।
कामे॑न॒ हि ददा॑ति।
कामे॑न प्रतिगृ॒ह्णाति॑।
कामो॑ दा॒ता कामः॑ प्रतिग्रही॒तेत्या॑ह॥३२॥
कामो॒ हि दा॒ता।
कामः॑ प्रतिग्रही॒ता।
कामꣳ॑ समु॒द्रमावि॒शेत्या॑ह।
स॒मु॒द्र इ॑व॒ हि कामः॑।
नेव॒ हि काम॒स्यान्तोऽस्ति॑।
न स॑मु॒द्रस्य॑।
कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह।
येन॒ कामे॑न प्रतिगृ॒ह्णाति॑।
स ए॒वैन॑म॒मुष्मिँ॑ल्लो॒के काम॒ आग॑च्छति।
कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णेत्या॑ह।
काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मिँ॑ल्लो॒के दक्षि॑णामिच्छति।
न प्र॑तिग्रही॒तरि॑।
य ए॒वं वि॒द्वान्दक्षि॑णां प्रतिगृ॒ह्णाति॑।
अ॒नृ॒णामे॒वैनां॒ प्रति॑ गृह्णाति॥३३॥
अनुवाक 6
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑।
यद्द॑श॒ममहः॑।
द॒श॒मेऽह᳚न्थ्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ति।
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा।
अ॒न्नाद्य॒मव॑ रुन्धते।
ति॒सृभिः॑ स्तुवन्ति।
त्रय॑ इ॒मे लो॒काः।
ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते।
पृश्ञि॑वतीर्भवन्ति।
अन्नं॒ वै पृश्ञि॑॥३४॥
अन्न॑मे॒वाव॑ रुन्धते।
मन॑सा॒ प्रस्तौ॑ति।
मन॒सोद्गा॑यति।
मन॑सा॒ प्रति॑ हरति।
मन॑ इव॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
दे॒वा वै स॒र्पाः।
तेषा॑मि॒यꣳ राज्ञी᳚।
यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॒वन्ति॑।
अ॒स्यामे॒व प्रति॑ तिष्ठन्ति॥३५॥
चतु॑र्होतॄ॒न्॒ होता॒ व्याच॑ष्टे।
स्तु॒तमनु॑शꣳसति॒ शान्त्यै᳚।
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑।
यद्द॑श॒ममहः॑।
ए॒तत्खलु॒ वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑।
यच्चतु॑र्होतारः।
द॒श॒मेऽह॒ꣴ॒श्चतु॑र्होतॄ॒न्व्याच॑ष्टे।
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा।
प॒र॒मं दे॒वानां॒ गुह्यं॒ ब्रह्माव॑ रुन्धे।
तदे॒व प्र॑का॒शं ग॑मयति॥३६॥
तदे॑नं प्रका॒शं ग॒तम्।
प्र॒का॒शं प्र॒जानां᳚ गमयति।
वाचं॑ यच्छति।
य॒ज्ञस्य॒ धृत्यै᳚।
य॒ज॒मा॒न॒दे॒व॒त्यं॑ वा अहः॑।
भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑।
अह्ना॒ रात्रिं॑ ध्यायेत्।
भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते।
यद्दिवा॒ वाचं॑ विसृ॒जेत्।
अह॒र्भ्रातृ॑व्या॒योच्छिꣳ॑षेत्।
यन्नक्तं॑ विसृ॒जेत्।
रात्रिं॒ भ्रातृ॑व्या॒योच्छिꣳ॑षेत्।
अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचं॒ विसृ॑जति।
ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिꣳ॑षति।
याव॑दादि॒त्यो᳚ऽस्त॒मेति॑॥३७॥
अनुवाक 7
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
ताः सृ॒ष्टाः सम॑श्लिष्यन्।
ता रू॒पेणानु॒प्रावि॑शत्।
तस्मा॑दाहुः।
रू॒पं वै प्र॒जाप॑ति॒रिति॑।
ता नाम्नाऽनु॒ प्रावि॑शत्।
तस्मा॑दाहुः।
नाम॒ वै प्र॒जाप॑ति॒रिति॑।
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑।
नाम्ना॒ चेद्ध्वये॑ते॥३८॥
मि॒त्रमे॒व भ॑वतः।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत।
स इन्द्र॒मपि॒ नासृ॑जत।
तं दे॒वा अ॑ब्रुवन्।
इन्द्रं॑ नो जन॒येति॑।
स आ॒त्मन्निन्द्र॑मपश्यत्।
तम॑सृजत।
तं त्रि॒ष्टुग्वी॒र्यं॑ भू॒त्वाऽनु॒ प्रावि॑शत्।
तस्य॒ वज्रः॑ पञ्चद॒शो हस्त॒ आप॑द्यत।
तेनो॒दय्यासु॑रान॒भ्य॑भवत्॥३९॥
य ए॒वं वेद॑।
अ॒भि भ्रातृ॑व्यान्भवति।
ते दे॒वा असु॑रैर्वि॒जित्य॑।
सु॒व॒र्गं लो॒कमा॑यन्।
ते॑ऽमुष्मिँ॑ल्लो॒के व्य॑क्षुध्यन्।
ते᳚ऽब्रुवन्।
अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑।
ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्यम्᳚।
आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्।
ए॒तेना॒मुत्र॑ कल्प॒येति॑॥४०॥
तस्य॒ वा इ॒यं कॢप्तिः॑।
यदि॒दं किं च॑।
य ए॒वं वेद॑।
कल्प॑तेऽस्मै।
स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति।
य ए॒वं वेद॑।
उपै॑नं य॒ज्ञो न॑मति।
सो॑ऽमन्यत।
अ॒भि वा इ॒मे᳚ऽस्माल्लो॒काद॒मुं लो॒कं क॑मिष्यन्त॒ इति॑।
स वाच॑स्पते॒ हृदिति॒ व्याह॑रत्।
तस्मा᳚त्पु॒त्रो हृद॑यम्।
तस्मा॑द॒स्माल्लो॒काद॒मुं लो॒कं नाभि का॑मयन्ते।
पु॒त्रो हि हृद॑यम्॥४१॥
अनुवाक 8
दे॒वा वै चतु॑र्होतृभिर्य॒ज्ञम॑तन्वत।
ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त।
अ॒भि सु॑व॒र्गं लो॒कम॑जयन्।
य ए॒वं वि॒द्वाꣴश्चतु॑र्होतृभिर्य॒ज्ञं त॑नु॒ते।
वि पा॒प्मना॒ भ्रातृ॑व्येण जयते।
अ॒भि सु॑व॒र्गं लो॒कं ज॑यति।
षड्ढो᳚त्रा प्राय॒णीय॒मा सा॑दयति।
अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता।
घ्नन्ति॒ खलु॒ वा ए॒तथ्सोमम्᳚।
यद॑भिषु॒ण्वन्ति॑॥४२॥
ऋ॒जु॒धैवैन॑म॒मुं लो॒कं ग॑मयति।
चतु॑र्होत्राऽऽति॒थ्यम्।
यशो॒ वै चतु॑र्होता।
यश॑ ए॒वाऽऽत्मन्ध॑त्ते।
पञ्च॑होत्रा प॒शुमुप॑सादयति।
सु॒व॒र्ग्यो॑ वै पञ्च॑होता।
यज॑मानः प॒शुः।
यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति।
ग्रहा᳚न्गृही॒त्वा स॒प्तहो॑तारं जुहोति।
इ॒न्द्रि॒यं वै स॒प्तहो॑ता॥४३॥
इ॒न्द्रि॒यमे॒वाऽऽत्मन्ध॑त्ते।
यो वै चतु॑र्होतॄननुसव॒नं त॒र्पय॑ति।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
उपै॑नꣳ सोमपी॒थो न॑मति।
ब॒हि॒ष्प॒व॒मा॒ने दश॑होतारं॒ व्याच॑क्षीत।
माध्यं॑ दिने॒ पव॑माने॒ चतु॑र्होतारम्।
आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम्।
पि॒तृ॒य॒ज्ञे षड्ढो॑तारम्।
य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम्।
अ॒नु॒स॒व॒नमे॒वैनाꣴ॑स्तर्पयति॥४४॥
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
उपै॑नꣳ सोमपी॒थो न॑मति।
दे॒वा वै चतु॑र्होतृभिः स॒त्रमा॑सत।
ऋद्धि॑परिमितं॒ यश॑स्कामाः।
ते᳚ऽब्रुवन्।
यन्नः॑ प्रथ॒मं यश॑ ऋ॒च्छात्।
सर्वे॑षान्न॒स्तथ्स॒हास॒दिति॑।
सोम॒श्चतु॑र्होत्रा।
अ॒ग्निः पञ्च॑होत्रा।
धा॒ता षड्ढो᳚त्रा॥४५॥
इन्द्रः॑ स॒प्तहो᳚त्रा।
प्र॒जाप॑ति॒र्दश॑होत्रा।
तेषा॒ꣳ॒ सोम॒ꣳ॒ राजा॑नं॒ यश॑ आर्च्छत्।
तन्न्य॑कामयत।
तेनापा᳚क्रामत्।
तेन॑ प्र॒लाय॑मचरत्।
तं दे॒वाः प्रै॒षैः प्रैष॑मैच्छन्।
तत्प्रै॒षाणां᳚ प्रैष॒त्वम्।
नि॒विद्भि॒र्न्य॑वेदयन्।
तन्नि॒विदा᳚न्निवि॒त्त्वम्॥४६॥
आ॒प्रीभि॑राप्नुवन्।
तदा॒प्रीणा॑माप्रि॒त्वम्।
तम॑घ्नन्।
तस्य॒ यशो॒ व्य॑गृह्णत।
ते ग्रहा॑ अभवन्।
तद्ग्रहा॑णां ग्रह॒त्वम्।
यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚।
तस्य॒ त्वे॑व गृ॑ही॒ताः।
ते᳚ऽब्रुवन्।
यो वै नः॒ श्रेष्ठोऽभू᳚त्॥४७॥
तम॑वधिष्म।
पुन॑रि॒मꣳ सु॑वामहा॒ इति॑।
तं छन्दो॑भिरसुवन्त।
तच्छन्द॑सां छन्द॒स्त्वम्।
साम्ना॒ समान॑यन्।
तथ्साम्नः॑ साम॒त्वम्।
उ॒क्थैरुद॑स्थापयन्।
तदु॒क्थाना॑मुक्थ॒त्वम्।
य ए॒वं वेद॑।
प्रत्ये॒व ति॑ष्ठति॥४८॥
सर्व॒मायु॑रेति।
सोमो॒ वै यशः॑।
य ए॒वं वि॒द्वान्थ्सोम॑मा॒गच्छ॑ति।
यश॑ ए॒वैन॑मृच्छति।
तस्मा॑दाहुः।
यश्चै॒वं वेद॒ यश्च॒ न।
तावु॒भौ सोम॒माग॑च्छतः।
सोमो॒ हि यशः॑।
तं त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः।
यः सोमे॒ सोमं॒ प्राहेति॑।
तस्मा॒थ्सोमे॒ सोमः॒ प्रोच्यः॑।
यश॑ ए॒वैन॑मृच्छति॥४९॥
अनुवाक 9
इ॒दं वा अग्रे॒ नैव किं च॒ नाऽऽसी᳚त्।
न द्यौरा॑सीत्।
न पृ॑थि॒वी।
नान्तरि॑क्षम्।
तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑।
तद॑तप्यत।
तस्मा᳚त्तेपा॒नाद्धू॒मो॑ऽजायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नाद॒ग्निर॑जायत।
तद्भूयो॑ऽतप्यत॥५०॥
तस्मा᳚त्तेपा॒नाज्ज्योति॑रजायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नाद॒र्चिर॑जायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नान्मरी॑चयोऽजायन्त।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नादु॑दा॒रा अ॑जायन्त।
तद्भूयो॑ऽतप्यत।
तद॒भ्रमि॑व॒ सम॑हन्यत।
तद्व॒स्तिम॑भिनत्॥५१॥
स स॑मु॒द्रो॑ऽभवत्।
तस्मा᳚थ्समु॒द्रस्य॒ न पि॑बन्ति।
प्र॒जन॑नमिव॒ हि मन्य॑न्ते।
तस्मा᳚त्प॒शोर्जाय॑माना॒दापः॑ पु॒रस्ता᳚द्यन्ति।
तद्दश॑हो॒ताऽन्व॑सृज्यत।
प्र॒जाप॑ति॒र्वै दश॑होता।
य ए॒वं तप॑सो वी॒र्यं॑ वि॒द्वाꣴस्तप्य॑ते।
भव॑त्ये॒व।
तद्वा इ॒दमापः॑ सलि॒लमा॑सीत्।
सो॑ऽरोदीत्प्र॒जाप॑तिः॥५२॥
स कस्मा॑ अज्ञि।
यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑।
यद॒फ्स्व॑वाप॑द्यत।
सा पृ॑थि॒व्य॑भवत्।
यद्व्यमृ॑ष्ट।
तद॒न्तरि॑क्षमभवत्।
यदू॒र्ध्वमु॒दमृ॑ष्ट।
सा द्यौर॑भवत्।
यदरो॑दीत्।
तद॒नयो॑ रोद॒स्त्वम्॥५३॥
य ए॒वं वेद॑।
नास्य॑ गृ॒हे रु॑दन्ति।
ए॒तद्वा ए॒षां लो॒कानां॒ जन्म॑।
य ए॒वमे॒षां लो॒कानां॒ जन्म॒ वेद॑।
नैषु लो॒केष्वार्ति॒मार्च्छ॑ति।
स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत।
स इ॒मां प्र॑ति॒ष्ठां वि॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स ज॒घना॒दसु॑रानसृजत॥५४॥
तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
सा तमि॑स्राऽभवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚न्तर्वा॑नभवत्।
स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत।
तस्मा॑दि॒मा भूयि॑ष्ठाः।
प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत॥५५॥
ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
सा जोथ्स्ना॑ऽभवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत।
तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्॥५६॥
तामपा॑हत।
सो॑ऽहोरा॒त्रयोः᳚ स॒न्धिर॑भवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स मुखा᳚द्दे॒वान॑सृजत।
तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
तदह॑रभवत्॥५७॥
ए॒ते वै प्र॒जाप॑ते॒र्दोहाः᳚।
य ए॒वं वेद॑।
दु॒ह ए॒व प्र॒जाः।
दिवा॒ वै नो॑ऽभू॒दिति॑।
तद्दे॒वानां᳚ देव॒त्वम्।
य ए॒वं दे॒वानां᳚ देव॒त्वं वेद॑।
दे॒ववा॑ने॒व भ॑वति।
ए॒तद्वा अ॑होरा॒त्राणां॒ जन्म॑।
य ए॒वम॑होरा॒त्राणां॒ जन्म॒ वेद॑।
नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति॥५८॥
अस॒तोऽधि॒ मनो॑ऽसृज्यत।
मनः॑ प्र॒जाप॑तिमसृजत।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
तद्वा इ॒दं मन॑स्ये॒व प॑र॒मं प्रति॑ष्ठितम्।
यदि॒दं किं च॑।
तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑।
व्यु॒च्छन्ती᳚व्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति।
प्रजा॑यते प्र॒जया॑ प॒शुभिः॑।
प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति।
य ए॒वं वेद॑॥५९॥
अनुवाक 10
प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रं दे॒वाना᳚म्।
तं प्राहि॑णोत्।
परे॑हि।
ए॒तेषां᳚ दे॒वाना॒मधि॑पतिरे॒धीति॑।
तं दे॒वा अ॑ब्रुवन्।
कस्त्वमसि॑।
व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑।
सो᳚ऽब्रवीत्।
कस्त्वमसि॑ व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑।
अथ॒ वा इ॒दं तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत्॥६०॥
यद॒स्मिन्ना॑दि॒त्ये।
तदे॑नमब्रवीत्।
ए॒तन्मे॒ प्रय॑च्छ।
अथा॒हमे॒तेषां᳚ दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑।
को॑ऽहꣴ स्या॒मित्य॑ब्रवीत्।
ए॒तत्प्र॒दायेति॑।
ए॒तथ्स्या॒ इत्य॑ब्रवीत्।
यदे॒तद्ब्रवी॒षीति॑।
को ह॒ वै नाम॑ प्र॒जाप॑तिः।
य ए॒वं वेद॑॥६१॥
वि॒दुरे॑नं॒ नाम्ना᳚।
तद॑स्मै रु॒क्मं कृ॒त्वा प्रत्य॑मुञ्चत्।
ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत्।
य ए॒वं वेद॑।
अधि॑पतिरे॒व स॑मा॒नानां᳚ भवति।
सो॑ऽमन्यत।
किं किं॒ वा अ॑कर॒मिति॑।
स च॒न्द्रं म॒ आह॒रेति॒ प्राल॑पत्।
तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम्।
य ए॒वं वेद॑॥६२॥
च॒न्द्रवा॑ने॒व भ॑वति।
तं दे॒वा अ॑ब्रुवन्।
सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑।
तथ्सूर्य॑स्य सूर्य॒त्वम्।
य ए॒वं वेद॑।
नैनं॑ दभ्नोति।
कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒यं प्रत्य॑स्था॒दिति॑।
तदिन्द्र॑स्येन्द्र॒त्वम्।
य ए॒वं वेद॑।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति॥६३॥
अ॒यं वा इ॒दं प॑र॒मो॑ऽभू॒दिति॑।
तत्प॑रमे॒ष्ठिनः॑ परमेष्ठि॒त्वम्।
य ए॒वं वेद॑।
प॒र॒मामे॒व काष्ठां᳚ गच्छति।
तं दे॒वाः स॑म॒न्तं पर्य॑विशन्।
वस॑वः पु॒रस्ता᳚त्।
रु॒द्रा द॑क्षिण॒तः।
आ॒दि॒त्याः प॒श्चात्।
विश्वे॑ दे॒वा उ॑त्तर॒तः।
अङ्गि॑रसः प्र॒त्यञ्चम्᳚॥६४॥
सा॒ध्याः परा᳚ञ्चम्।
य ए॒वं वेद॑।
उपै॑नꣳ समा॒नाः संवि॑शन्ति।
स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत्।
ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
द॒क्षि॒ण॒तः पर्या॑यन्।
स द॑क्षिण॒तः पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः॥६५॥
प॒श्चात्पर्या॑यन्।
स प॒श्चात्पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः।
मुखं॑ प॒श्चात्।
उ॒त्त॒र॒तः पर्या॑यन्।
स उ॑त्तर॒तः पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः।
मुखं॑ प॒श्चात्॥६६॥
मुख॑मुत्तर॒तः।
ऊ॒र्ध्वा उदा॑यन्।
स उ॒परि॑ष्टा॒न्न्य॑वर्तयत।
ताः स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत्।
ततो॒ वै तस्मै᳚ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य।
य ए॒वं वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑।
प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति।
तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य।
अ॒न्ना॒द ए॒व भ॑वति॥६७॥
अनुवाक 11
प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स ए॒तं दश॑होतारमपश्यत्।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत्।
यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स दश॑होतारं॒ प्रयु॑ञ्जीत।
ब॒होरे॒व भूया᳚न्भवति।
सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑।
स दश॑होतु॒श्चतु॑र्होतारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त॥६८॥
तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत।
यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑।
स चतु॑र्होतारं॒ प्रयु॑ञ्जीत।
आऽस्य॑ वी॒रो जा॑यते।
सो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॑।
स चतु॑र्होतुः॒ पञ्च॑होतारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत्।
यः का॒मये॑त पशु॒मान्थ्स्या॒मिति॑।
स पञ्च॑होतारं॒ प्रयु॑ञ्जीत॥६९॥
प॒शु॒माने॒व भ॑वति।
सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑।
स पञ्च॑होतुः॒ षड्ढो॑तारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्त्यृ॒तवो᳚ऽस्मा अकल्पन्त।
यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑।
स षड्ढो॑तारं॒ प्रयु॑ञ्जीत।
कल्प॑न्तेऽस्मा ऋ॒तवः॑।
सो॑ऽकामयत सोम॒पः सो॑मया॒जी स्या᳚म्।
आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑॥७०॥
स षड्ढो॑तुः स॒प्तहो॑तारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति सोम॒पः सो॑मया॒ज्य॑भवत्।
आऽस्य॑ सोम॒पः सो॑मया॒ज्य॑जायत।
यः का॒मये॑त सोम॒पः सो॑मया॒जी स्या᳚म्।
आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑।
स स॒प्तहो॑तारं॒ प्रयु॑ञ्जीत।
सो॒म॒प ए॒व सो॑मया॒जी भ॑वति।
आऽस्य॑ सोम॒पः सो॑मया॒जी जा॑यते।
स वा ए॒ष प॒शुः प॑ञ्च॒धा प्रति॑ तिष्ठति॥७१॥
प॒द्भिर्मुखे॑न।
ते दे॒वाः प॒शून् वि॒त्वा।
सु॒व॒र्गं लो॒कमा॑यन्।
ते॑ऽमुष्मिँ॑ल्लो॒के व्य॑क्षुध्यन्।
ते᳚ऽब्रुवन्।
अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑।
ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्यम्᳚।
आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्।
ए॒तेना॒मुत्र॑ कल्प॒येति॑।
तस्य॒ वा इ॒यं कॢप्तिः॑॥७२॥
यदि॒दं किं च॑।
य ए॒वं वेद॑।
कल्प॑तेऽस्मै।
स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति।
य ए॒वं वेद॑।
उपै॑नं य॒ज्ञो न॑मति।
यो वै चतु॑र्होतृणां नि॒दानं॒ वेद॑।
नि॒दान॑वान्भवति।
अ॒ग्नि॒हो॒त्रं वै दश॑होतुर्नि॒दानम्᳚।
द॒र्॒श॒पू॒र्ण॒मा॒सौ चतु॑र्होतुः।
चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः।
प॒शु॒ब॒न्धः षड्ढो॑तुः।
सौ॒म्यो᳚ऽध्व॒रः स॒प्तहो॑तुः।
ए॒तद्वै चतु॑र्होतृणां नि॒दानम्᳚।
य ए॒वं वेद॑।
नि॒दान॑वान्भवति॥७३॥