अनुवाक 1
अङ्गि॑रसो॒ वै स॒त्रमा॑सत।
तेषां॒ पृश्ञि॑र्घर्म॒धुगा॑सीत्।
सर्जी॒षेणा॑जीवत्।
ते᳚ऽब्रुवन्।
कस्मै॒ नु स॒त्रमा᳚स्महे।
ये᳚ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑।
ते दि॒वो वृष्टि॑मसृजन्त।
याव॑न्तः स्तो॒का अ॒वाप॑द्यन्त।
ताव॑ती॒रोष॑धयोऽजायन्त।
ता जा॒ताः पि॒तरो॑ वि॒षेणा॑लिम्पन्॥१॥
तासां᳚ ज॒ग्ध्वा रुप्य॒न्त्यैत्।
ते᳚ऽब्रुवन्।
क इ॒दमि॒त्थम॑क॒रिति॑।
व॒यं भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरो᳚ऽब्रुवन्।
किं वो॑ भाग॒धेय॒मिति॑।
अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन्।
तेभ्य॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्।
यद्धु॒त्वा नि॒मार्ष्टि॑।
ततो॒ वै त ओष॑धीरस्वदयन्।
य ए॒वं वेद॑॥२॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः।
ते व॒थ्समु॒पावा॑सृजन्।
इ॒दं नो॑ ह॒व्यं प्रदा॑प॒येति॑।
सो᳚ऽब्रवी॒द्वरं॑ वृणै।
दश॑ मा॒ रात्री᳚र्जा॒तं न दो॑हन्।
आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रा॒णीति॑।
तस्मा᳚द्व॒थ्सं जा॒तं दश॒ रात्री॒र्न दु॑हन्ति।
आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रति।
वारे॑वृत॒ꣴ॒ ह्य॑स्य।
तस्मा᳚द्व॒थ्सꣳ सꣳ॑सृष्टध॒यꣳ रु॒द्रो घातु॑कः।
अति॒ हि स॒न्धान्धय॑ति॥३॥
अनुवाक 2
प्र॒जाप॑तिर॒ग्निम॑सृजत।
तं प्र॒जा अन्व॑सृज्यन्त।
तम॑भा॒ग उपा᳚स्त।
सो᳚ऽस्य प्र॒जाभि॒रपा᳚क्रामत्।
तम॑व॒रुरु॑थ्समा॒नोऽन्वै᳚त्।
तम॑व॒रुधं॒ नाश॑क्नोत्।
स तपो॑ऽतप्यत।
सो᳚ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑।
स र॒राटा॒दुद॑मृष्ट॥४॥
तद्घृ॒तम॑भवत्।
तस्मा॒द्यस्य॑ दक्षिण॒तः केशा॒ उन्मृ॑ष्टाः।
ताञ्ज्ये᳚ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः।
यद्र॒राटा॑दु॒दमृ॑ष्ट।
तस्मा᳚द्र॒राटे॒ केशा॒ न स॑न्ति।
तद॒ग्नौ प्रागृ॑ह्णात्।
तद्व्य॑चिकिथ्सत्।
जु॒हवा॒नी(३) मा हौ॒षा(३)मिति॑।
तद्वि॑चिकि॒थ्सायै॒ जन्म॑।
य ए॒वं वि॒द्वान् वि॑चि॒किथ्स॑ति॥५॥
वसी॑य ए॒व चे॑तयते।
तं वाग॒भ्य॑वदज्जु॒हुधीति॑।
सो᳚ऽब्रवीत्।
कस्त्वम॒सीति॑।
स्वैव ते॒ वागित्य॑ब्रवीत्।
सो॑ऽजुहो॒थ्स्वाहेति॑।
तथ्स्वा॑हाका॒रस्य॒ जन्म॑।
य ए॒वꣴस्वा॑हाका॒रस्य॒ जन्म॒ वेद॑।
क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्यम्᳚।
यस्यै॒वं वि॒दुषः॑ स्वाहाका॒रेण॒ जुह्व॑ति॥६॥
भोगा॑यै॒वास्य॑ हु॒तं भ॑वति।
तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत।
द्वि॒तीय॑मजुहोत्।
सोऽश्व॑मसृजत।
तृ॒तीय॑मजुहोत्।
स गाम॑सृजत।
च॒तु॒र्थम॑जुहोत्।
सोऽवि॑मसृजत।
प॒ञ्च॒मम॑जुहोत्।
सो॑ऽजाम॑सृजत॥७॥
सो᳚ऽग्निर॑बिभेत्।
आहु॑तीभि॒र्वै मा᳚ऽऽप्नो॒तीति॑।
स प्र॒जाप॑तिं॒ पुनः॒ प्रावि॑शत्।
तं प्र॒जाप॑तिरब्रवीत्।
जाय॒स्वेति॑।
सो᳚ऽब्रवीत्।
किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑।
तुभ्य॑मे॒वेदꣳ हू॑याता॒ इत्य॑ब्रवीत्।
स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत।
यद॑ग्निहो॒त्रम्॥८॥
तस्मा॑दग्निहो॒त्रमु॑च्यते।
तद्धू॒यमा॑नमादि॒त्यो᳚ऽब्रवीत्।
मा हौ॑षीः।
उ॒भयो॒र्वै ना॑वे॒तदिति॑।
सो᳚ऽग्निर॑ब्रवीत्।
क॒थं नौ॑ होष्य॒न्तीति॑।
सा॒यमे॒व तुभ्यं॑ जु॒हवन्॑।
प्रा॒तर्मह्य॒मित्य॑ब्रवीत्।
तस्मा॑द॒ग्नये॑ सा॒यꣳ हू॑यते।
सूर्या॑य प्रा॒तः॥९॥
आ॒ग्ने॒यी वै रात्रिः॑।
ऐ॒न्द्रमहः॑।
यदनु॑दिते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात्।
उ॒भय॑मे॒वाग्ने॒यꣴ स्या᳚त्।
उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति।
तथा॒ऽग्नये॑ सा॒यꣳ हू॑यते।
सूर्या॑य प्रा॒तः।
रात्रिं॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते।
अह्ना॒ प्रति॑ तिष्ठन्ति।
यथ्सा॒यं जु॒होति॑॥१०॥
प्रैव तेन॑ जायते।
उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति।
प्रत्ये॒व तेन॑ तिष्ठति।
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स ए॒तद॑ग्निहो॒त्रं मि॑थु॒नम॑पश्यत्।
तदुदि॑ते॒ सूर्ये॑ऽजुहोत्।
यजु॑षा॒ऽन्यत्।
तू॒ष्णीम॒न्यत्।
ततो॒ वै स प्राजा॑यत।
यस्यै॒वं वि॒दुष॒ उदि॑ते॒ सूर्ये᳚ऽग्निहो॒त्रं जुह्व॑ति॥११॥
प्रैव जा॑यते।
अथो॒ यथा॒ दिवा᳚ प्रजा॒नन्नेति॑।
ता॒दृगे॒व तत्।
अथो॒ खल्वा॑हुः।
यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः।
यस्तयो॑र॒न्यꣳ रा॒धय॑त्य॒न्यं न।
उ॒भौ वाव स तावृ॑च्छ॒तीति॑।
अ॒ग्निं वावाऽऽदि॒त्यः सा॒यं प्र वि॑शति।
तस्मा॑द॒ग्निर्दू॒रान्नक्तं॑ ददृशे।
उ॒भे हि तेज॑सी स॒म्पद्ये॑ते॥१२॥
उ॒द्यन्तं॒ वावाऽऽदि॒त्यम॒ग्निरनु॑ स॒मारो॑हति।
तस्मा᳚द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे।
यद॒ग्नये॑ सा॒यं जु॑हु॒यात्।
आ सूर्या॑य वृश्च्येत।
यथ्सूर्या॑य प्रा॒तर्जु॑हु॒यात्।
आऽग्नये॑ वृश्च्येत।
दे॒वता᳚भ्यः स॒मदं॑ दध्यात्।
अ॒ग्निर्ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेत्ये॒व सा॒यꣳ हो॑त॒व्यम्᳚।
सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ प्रा॒तः।
तथो॒भाभ्याꣳ॑ सा॒यꣳ हू॑यते॥१३॥
उ॒भाभ्यां᳚ प्रा॒तः।
न दे॒वता᳚भ्यः स॒मदं॑ दधाति।
अ॒ग्निर्ज्योति॒रित्या॑ह।
अ॒ग्निर्वै रे॑तो॒धाः।
प्र॒जा ज्योति॒रित्या॑ह।
प्र॒जा ए॒वास्मै॒ प्र ज॑नयति।
सूर्यो॒ ज्योति॒रित्या॑ह।
प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति।
ज्योति॑र॒ग्निः स्वाहेत्या॑ह।
प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ष्ठापयति॥१४॥
तू॒ष्णीमुत्त॑रा॒माहु॑तिं जुहोति।
मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै।
यदुदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात्।
यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यꣳ॑ हर॑न्ति।
ता॒दृगे॒व तत्।
क्वाऽऽह॒ तत॒स्तद्भव॒तीत्या॑हुः।
यथ्स न वेद॑।
यस्मै॒ तद्धर॒न्तीति॑।
तस्मा॒द्यदौ॑ष॒सं जु॒होति॑।
तदे॒व स॑म्प्र॒ति।
अथो॒ यथा॒ प्रार्थ॑मौष॒सं प॑रि॒वेवे᳚ष्टि।
ता॒दृगे॒व तत्॥१५॥
अनुवाक 3
रु॒द्रो वा ए॒षः।
यद॒ग्निः।
पत्नी᳚ स्था॒ली।
यन्मध्ये॒ऽग्नेर॑धि॒श्रये᳚त्।
रु॒द्राय॒ पत्नी॒मपि॑ दध्यात्।
प्र॒मायु॑का स्यात्।
उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति।
पत्नि॑यै गोपी॒थाय॑।
व्य॑न्तान्करोति।
तथा॒ पत्न्यप्र॑मायुका भवति॥१६॥
घ॒र्मो वा ए॒षोऽशा᳚न्तः।
अह॑रहः॒ प्र वृ॑ज्यते।
यद॑ग्निहो॒त्रम्।
प्रति॑षिञ्चेत्प॒शुका॑मस्य।
शा॒न्तमि॑व॒ हि प॑श॒व्यम्᳚।
न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम्।
अथो॒ खलु॑।
प्र॒ति॒षिच्य॑मे॒व।
यत्प्र॑तिषि॒ञ्चति॑॥१७॥
तत्प॑श॒व्यम्᳚।
यज्जु॒होति॑।
तद्ब्र॑ह्मवर्च॒सि।
उ॒भय॑मे॒वाकः॑।
प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कात्।
अग॑तं देवलो॒कम्।
यच्छृ॒तꣳ ह॒विरन॑भिघारितम्।
अ॒भि द्यो॑तयति।
अ॒भ्ये॑वैन॑द्घारयति।
अथो॑ देव॒त्रैवैन॑द्गमयति॥१८॥
पर्य॑ग्नि करोति।
रक्ष॑सा॒मप॑हत्यै।
त्रिः पर्य॑ग्नि करोति।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑।
यत्प्रा॒चीन॑मुद्वा॒सये᳚त्।
यज॑मानꣳ शु॒चाऽर्प॑येत्।
यद्द॑क्षि॒णा।
पि॒तृ॒दे॒व॒त्यꣴ॑ स्यात्।
यत्प्र॒त्यक्॥१९॥
पत्नीꣳ॑ शु॒चाऽर्प॑येत्।
उ॒दी॒चीन॒मुद्वा॑सयति।
ए॒षा वै दे॑वमनु॒ष्याणाꣳ॑ शा॒न्ता दिक्।
तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै᳚।
वर्त्म॑ करोति।
य॒ज्ञस्य॒ सन्त॑त्यै।
निष्ट॑पति।
उपै॒व तथ्स्तृ॑णाति।
च॒तुरुन्न॑यति।
चतु॑ष्पादः प॒शवः॑॥२०॥
प॒शूने॒वाव॑ रुन्धे।
सर्वा᳚न्पू॒र्णानुन्न॑यति।
सर्वे॒ हि पुण्या॑ रा॒द्धाः।
अ॒नूच॒ उन्न॑यति।
प्र॒जाया॑ अनूचीन॒त्वाय॑।
अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति।
सम्मृ॑शति॒ व्यावृ॑त्त्यै।
नाहो᳚ष्य॒न्नुप॑ सादयेत्।
यदहो᳚ष्यन्नुपसा॒दये᳚त्।
यथा॒ऽन्यस्मा॑ उपनि॒धाय॑॥२१॥
अ॒न्यस्मै᳚ प्र॒यच्छ॑ति।
ता॒दृगे॒व तत्।
आऽस्मै॑ वृश्च्येत।
यदे॒व गार्ह॑पत्येऽधि॒ श्रय॑ति।
तेन॒ गार्ह॑पत्यं प्रीणाति।
अ॒ग्निर॑बिभेत्।
आहु॑तयो॒ माऽत्ये᳚ष्य॒न्तीति॑।
स ए॒ताꣳ स॒मिध॑मपश्यत्।
तामाऽध॑त्त।
ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त॥२२॥
यदे॑नꣳ स॒मय॑च्छत्।
तथ्स॒मिधः॑ समि॒त्त्वम्।
स॒मिध॒मा द॑धाति।
समे॒वैनं॑ यच्छति।
आहु॑तीनां॒ धृत्यै᳚।
अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति।
आहु॑तीनां॒ प्रति॑ष्ठित्यै।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
यदेकाꣳ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑।
अथ॒ कस्याꣳ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिं जुहो॒तीति॑॥२३॥
यद्द्वे स॒मिधा॑वा द॒ध्यात्।
भ्रातृ॑व्यमस्मै जनयेत्।
एकाꣳ॑ स॒मिध॑मा॒धाय॑।
यजु॑षा॒ऽन्यामाहु॑तिं जुहोति।
उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति।
नास्मै॒ भ्रातृ॑व्यं जनयति।
आदी᳚प्तायां जुहोति।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम्।
अथो॒ यथाऽति॑थिं॒ ज्योति॑ष्कृ॒त्वा प॑रि॒ वेवे᳚ष्टि।
ता॒दृगे॒व तत्।
च॒तुरुन्न॑यति।
द्विर्जु॑होति।
तस्मा᳚द्द्वि॒पाच्चतु॑ष्पादमत्ति।
अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति॥२४॥
अनुवाक 4
उ॒त्त॒राव॑तीं॒ वै दे॒वा आहु॑ति॒मजु॑हवुः।
अवा॑ची॒मसु॑राः।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः।
यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑।
कनी॑य॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा।
उत्त॑रं॒ भूयो॑ जुहुयात्।
ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः।
तान्दे॒वा अ॑जुहवुः।
तत॒स्ते॑ऽभवन्॥२५॥
यस्यै॒वं जुह्व॑ति।
भव॑त्ये॒व।
यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑।
भूय॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा।
उत्त॑रं॒ कनी॑यो जुहुयात्।
ए॒षा वा अवा॒च्याहु॑तिः।
तामसु॑रा अजुहवुः।
तत॒स्ते परा॑ऽभवन्।
यस्यै॒वं जुह्व॑ति।
परै॒व भ॑वति॥२६॥
हु॒त्वोप॑ सादय॒त्यजा॑मित्वाय।
अथो॒ व्यावृ॑त्त्यै।
गार्ह॑पत्यं॒ प्रती᳚क्षते।
अन॑नुध्यायिनमे॒वैनं॑ करोति।
अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति।
तं य ऋ॒च्छेत्।
य॒ज्ञ॒स्था॒णुमृ॑च्छेत्।
ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः।
यत्पूर्वाऽऽहु॑तिः।
तां यदुत्त॑रया॒ऽभि जु॑हु॒यात्॥२७॥
य॒ज्ञ॒स्था॒णुमृ॑च्छेत्।
अ॒ति॒हाय॒ पूर्वा॒माहु॑तिं जुहोति।
य॒ज्ञ॒स्था॒णुमे॒व परि॑ वृणक्ति।
अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑ क्रामति।
अ॒वा॒चीनꣳ॑ सा॒यमुप॑मार्ष्टि।
रेत॑ ए॒व तद्द॑धाति।
ऊ॒र्ध्वं प्रा॒तः।
प्र ज॑नयत्ये॒व तत्।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
च॒तुरुन्न॑यति॥२८॥
द्विर्जु॑होति।
अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑।
अ॒ग्नौ वै᳚श्वान॒र इति॑ ब्रूयात्।
ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः।
यद्ब्रा᳚ह्म॒णः।
हु॒त्वा द्विः प्राश्ञा॑ति।
अ॒ग्नावे॒व वै᳚श्वान॒रे द्वे आहु॑ती जुहोति।
द्विर्जु॒होति॑।
द्विर्निमा᳚र्ष्टि।
द्विः प्राश्ञा॑ति॥२९॥
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑।
ऋ॒तूने॒व प्री॑णाति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
किं॒ दे॒व॒त्य॑मग्निहो॒त्रमिति॑।
वै॒श्व॒दे॒वमिति॑ ब्रूयात्।
यद्यजु॑षा जु॒होति॑।
तदै᳚न्द्रा॒ग्नम्।
यत्तू॒ष्णीम्।
तत्प्रा॑जाप॒त्यम्॥३०॥
यन्नि॒मार्ष्टि॑।
तदोष॑धीनाम्।
यद्द्वि॒तीयम्᳚।
तत्पि॑तृ॒णाम्।
यत्प्राश्ञा॑ति।
तद्गर्भा॑णाम्।
तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते।
यदा॒चाम॑ति।
तन्म॑नु॒ष्या॑णाम्।
उद॑ङ्पर्या॒वृत्याचा॑मति॥३१॥
आ॒त्मनो॑ गोपी॒थाय॑।
निर्णे॑नेक्ति॒ शुद्ध्यै᳚।
निष्ट॑पति स्व॒गाकृ॑त्यै।
उद्दि॑शति।
स॒प्त॒र्॒षीने॒व प्री॑णाति।
द॒क्षि॒णा प॒र्याव॑र्तते।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते।
तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते।
हु॒त्वोप॒ समि॑न्धे॥३२॥
ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै।
न ब॒र्॒हिरनु॒ प्र ह॑रेत्।
असꣴ॑स्थितो॒ वा ए॒ष य॒ज्ञः।
यद॑ग्निहो॒त्रम्।
यद॑नु प्र॒हरे᳚त्।
य॒ज्ञं विच्छि॑न्द्यात्।
तस्मा॒न्नानु॑ प्र॒हृत्यम्᳚।
य॒ज्ञस्य॒ सन्त॑त्यै।
अ॒पो नि न॑यति।
अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः॥३३॥
अनुवाक 5
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः।
किं प्रा॑यणमग्निहो॒त्रमिति॑।
व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम्।
अ॒ग्नि॒हो॒त्रं य॒ज्ञाना᳚म्।
तस्य॑ पृथि॒वी सदः॑।
अ॒न्तरि॑क्ष॒माग्नी᳚द्ध्रम्।
द्यौर्ह॑वि॒र्धानम्᳚।
दि॒व्या आपः॒ प्रोक्ष॑णयः।
ओष॑धयो ब॒र्॒हिः॥३४॥
वन॒स्पत॑य इ॒ध्मः।
दिशः॑ परि॒धयः॑।
आ॒दि॒त्यो यूपः॑।
यज॑मानः प॒शुः।
स॒मु॒द्रो॑ऽवभृ॒थः।
सं॒व॒थ्स॒रः स्व॑गाका॒रः।
तस्मा॒दाहि॑ताग्नेः॒ सर्व॑मे॒व ब॑र्हि॒ष्यं॑ द॒त्तं भ॑वति।
यथ्सा॒यं जु॒होति॑।
रात्रि॑मे॒व तेन॑ दक्षि॒ण्यां᳚ कुरुते।
यत्प्रा॒तः॥३५॥
अह॑रे॒व तेन॑ दक्षि॒ण्यं॑ कुरुते।
यत्ततो॒ ददा॑ति।
सा दक्षि॑णा।
याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्॑।
ते परा॑ऽभवन्।
त ए॒तद॑ग्निहो॒त्रꣳ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः।
तस्मा॑दाहुः।
अ॒ग्नि॒हो॒त्रं वै दे॒वा गृ॒हाणां॒ निष्कृ॑तिमपश्य॒न्निति॑।
यथ्सा॒यं जु॒होति॑।
रात्रि॑या ए॒व तद्धु॒ताद्या॑य॥३६॥
यज॑मान॒स्याप॑राभावाय।
यत्प्रा॒तः।
अह्न॑ ए॒व तद्धु॒ताद्या॑य।
यज॑मान॒स्याप॑राभावाय।
यत्ततो॒ऽश्ञाति॑।
हु॒तमे॒व तत्।
द्वयोः॒ पय॑सा जुहुयात्प॒शुका॑मस्य।
ए॒तद्वा अ॑ग्निहो॒त्रं मि॑थु॒नम्।
य ए॒वं वेद॑।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॥३७॥
इ॒मामे॒व पूर्व॑या दु॒हे।
अ॒मूमुत्त॑रया।
अ॒धि॒श्रित्योत्त॑र॒मा न॑यति।
योना॑वे॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने।
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य।
तेजो॒ वा आज्यम्᳚।
ते॒ज॒स्व्ये॑व भ॑वति।
पय॑सा प॒शुका॑मस्य।
ए॒तद्वै प॑शू॒नाꣳ रू॒पम्।
रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे॥३८॥
प॒शु॒माने॒व भ॑वति।
द॒ध्नेन्द्रि॒यका॑मस्य।
इ॒न्द्रि॒यं वै दधि॑।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति।
य॒वा॒ग्वा᳚ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः᳚।
भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑ रुन्धे।
ग्रा॒म्ये॑व भ॑वति।
अय॑ज्ञो॒ वा ए॒षः।
यो॑ऽसा॒मा॥३९॥
च॒तुरुन्न॑यति।
चतु॑रक्षरꣳ रथन्त॒रम्।
र॒थ॒न्त॒रस्यै॒ष वर्णः॑।
उ॒परी॑व हरति।
अ॒न्तरि॑क्षं वामदे॒व्यम्।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑।
द्विर्जु॑होति।
द्व्य॑क्षरं बृ॒हत्।
बृ॒ह॒त ए॒ष वर्णः॑।
अ॒ग्नि॒हो॒त्रमे॒व तथ्साम॑न्वत्करोति॥४०॥
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑।
उपै॑नमुप॒सदो॑ नमन्ति।
वि॒न्दत॑ उपस॒त्तारम्᳚।
उ॒न्नीयोप॑ सादयति।
पृ॒थि॒वीमे॒व प्री॑णाति।
हो॒ष्यन्नुप॑सादयति।
अ॒न्तरि॑क्षमे॒व प्री॑णाति।
हु॒त्वोप॑ सादयति।
दिव॑मे॒व प्री॑णाति।
ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑॥४१॥
य ए॒वं वेद॑।
उपै॑नमुप॒सदो॑ नमन्ति।
वि॒न्दत॑ उपस॒त्तारम्᳚।
यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितं प्र॒त्याश्रा॑वित॒ꣳ॒ होता॑रं ब्र॒ह्माणं॑ वषट्का॒रं वेद॑।
तस्य॒ त्वे॑व हु॒तम्।
प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्।
अ॒पा॒नः प्र॒त्याश्रा॑वितम्।
मनो॒ होता᳚।
चक्षु॑र्ब्र॒ह्मा।
नि॒मे॒षो व॑षट्का॒रः॥४२॥
य ए॒वं वेद॑।
तस्य॒ त्वे॑व हु॒तम्।
सा॒यं॒ यावा॑नश्च॒ वै दे॒वाः प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति।
तान् यन्न त॒र्पये᳚त्।
प्र॒जया᳚ऽस्य प॒शुभि॒र्वि ति॑ष्ठेरन्।
यत्त॒र्पये᳚त्।
तृ॒प्ता ए॑नं प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः।
स॒जूर्दे॒वैः सा॒यं याव॑भि॒रिति॑ सा॒यꣳ सम्मृ॑शति।
स॒जूर्दे॒वैः प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः।
ये चै॒व दे॒वाः सा॑यं॒ यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः॥४३॥
ताने॒वोभयाꣴ॑स्तर्पयति।
त ए॑नं तृ॒प्ताः प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति।
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः।
अ॒ग्नि॒हो॒त्र ए॒वाहꣳ सा॒यं प्रा॑त॒र्वज्रं॒ भ्रातृ॑व्येभ्यः॒ प्र ह॑रामि।
तस्मा॒न्मत्पापी॑याꣳसो॒ भ्रातृ॑व्या॒ इति॑।
च॒तुरुन्न॑यति।
द्विर्जु॑होति।
स॒मिथ्स॑प्त॒मी।
स॒प्तप॑दा॒ शक्व॑री।
शा॒क्व॒रो वज्रः॑।
अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒यं प्रा॑त॒र्वज्रं॒ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति।
भव॑त्या॒त्मना᳚।
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॥४४॥
अनुवाक 6
प्र॒जाप॑तिरकामयताऽऽत्म॒न्वन्मे॑ जाये॒तेति॑।
सो॑ऽजुहोत्।
तस्या᳚ऽऽत्म॒न्वद॑जायत।
अ॒ग्निर्वा॒युरा॑दि॒त्यः।
ते᳚ऽब्रुवन्।
प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑।
तस्य॑ व॒यम॑जनिष्महि।
जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः।
प्रा॒णाना॑म॒ग्निः।
त॒नुवै॑ वा॒युः॥४५॥
चक्षु॑ष आदि॒त्यः।
तेषाꣳ॑ हु॒ताद॑जायत॒ गौरे॒व।
तस्यै॒ पय॑सि॒ व्याय॑च्छन्त।
मम॑ हु॒ताद॑जनि॒ ममेति॑।
ते प्र॒जाप॑तिं प्र॒श्ञमा॑यन्।
स आ॑दि॒त्यो᳚ऽग्निम॑ब्रवीत्।
य॒त॒रो नौ॒ जया᳚त्।
तन्नौ॑ स॒हास॒दिति॑।
कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑।
प्रा॒णाना॑म॒हमित्य॒ग्निः॥४६॥
त॒नुवा॑ अ॒हमिति॑ वा॒युः।
चक्षु॑षो॒ऽहमित्या॑दि॒त्यः।
य ए॒व प्रा॒णाना॒महौ॑षीत्।
तस्य॑ हु॒ताद॑ज॒नीति॑।
अ॒ग्नेर्हु॒ताद॑ज॒नीति॑।
तद॑ग्निहो॒त्रस्या᳚ग्निहोत्र॒त्वम्।
गौर्वा अ॑ग्निहो॒त्रम्।
य ए॒वं वेद॒ गौर॑ग्निहो॒त्रमिति॑।
प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निꣳ सम॑र्धयति।
अव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति॥४७॥
य ए॒वं वेद॑।
तौ वा॒युर॑ब्रवीत्।
अनु॒ मा भ॑जत॒मिति॑।
यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवान्॑।
तेन॒ त्वां प्री॑णा॒नित्य॑ब्रूताम्।
तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति।
वा॒युमे॒व तेन॑ प्रीणाति।
प्र॒जाप॑तिर्दे॒वताः᳚ सृ॒जमा॑नः।
अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒मम॑सृजत।
सो᳚ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा॥४८॥
प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत।
स मृ॒त्योर॑बिभेत्।
सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत।
तꣳ हु॒त्वा परा᳚ङ्प॒र्याव॑र्तत।
ततो॒ वै स मृ॒त्युमपा॑जयत्।
अप॑ मृ॒त्युं ज॑यति।
य ए॒वं वेद॑।
तस्मा॒द्यस्यै॒वं वि॒दुषः॑।
उ॒तैका॒हमु॒त द्व्य॒हं न जुह्व॑ति।
हु॒तमे॒वास्य॑ भवति।
अ॒सौ ह्या॑दि॒त्यो᳚ऽग्निहो॒त्रम्॥४९॥
अनुवाक 7
रौ॒द्रं गवि॑।
वा॒य॒व्य॑मुप॑सृष्टम्।
आ॒श्वि॒नं दु॒ह्यमा॑नम्।
सौ॒म्यं दु॒ग्धम्।
वा॒रु॒णमधि॑ श्रितम्।
वै॒श्व॒दे॒वा भि॒न्दवः॑।
पौ॒ष्णमुद॑न्तम्।
सा॒र॒स्व॒तं वि॒ष्यन्द॑मानम्।
मै॒त्रꣳ शरः॑।
धा॒तुरुद्वा॑सितम्।
बृह॒स्पते॒रुन्नी॑तम्।
स॒वि॒तुः प्र क्रा᳚न्तम्।
द्या॒वा॒पृ॒थि॒व्यꣴ॑ ह्रि॒यमा॑णम्।
ऐ॒न्द्रा॒ग्नमुप॑सन्नम्।
अ॒ग्नेः पूर्वाऽऽहु॑तिः।
प्र॒जाप॑ते॒रुत्त॑रा।
ऐ॒न्द्रꣳ हु॒तम्॥५०॥
अनुवाक 8
द॒क्षि॒ण॒त उप॑ सृजति।
पि॒तृ॒लो॒कमे॒व तेन॑ जयति।
प्राची॒मा व॑र्तयति।
दे॒व॒लो॒कमे॒व तेन॑ जयति।
उदी॑चीमा॒वृत्य॑ दोग्धि।
म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति।
पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑।
यो वा॑ ग॒तश्रीः॒ स्यात्।
अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑।
यो वा॒ बुभू॑षेत्॥५१॥
न सं मृ॑शति।
पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै।
वा॒य॒व्यं॑ वा ए॒तदुप॑सृष्टम्।
आ॒श्वि॒नं दु॒ह्यमा॑नम्।
मै॒त्रं दु॒ग्धम्।
अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम्।
त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम्।
बृह॒स्पते॒रुन्नी॑तम्।
स॒वि॒तुः प्रक्रा᳚न्तम्।
द्या॒वा॒पृ॒थि॒व्यꣴ॑ ह्रि॒यमा॑णम्॥५२॥
ऐ॒न्द्रा॒ग्नमुप॑ सादितम्।
सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यो जुहोति।
यो᳚ऽग्निहो॒त्रं जु॒होति॑।
यथा॒ खलु॒ वै धे॒नुं ती॒र्थे त॒र्पय॑ति।
ए॒वम॑ग्निहो॒त्री यज॑मानं तर्पयति।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
प्र सु॑व॒र्गं लो॒कं जा॑नाति।
पश्य॑ति पु॒त्रम्।
पश्य॑ति॒ पौत्रम्᳚।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑ चैनदे॒वं वेद॑॥५३॥
अनुवाक 9
त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्।
तेषां॒ त्रिरेको᳚ऽग्निहो॒त्रम॑जुहोत्।
द्विरेकः॑।
स॒कृदेकः॑।
तेषां॒ यस्त्रिरजु॑होत्।
स ऋ॒चाऽजु॑होत्।
यो द्विः।
स यजु॑षा।
यः स॒कृत्।
स तू॒ष्णीम्॥५४॥
यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम्।
तावु॒भावा᳚र्ध्नुताम्।
तस्मा॒द्यजु॒षाऽऽहु॑तिः॒ पूर्वा॑ होत॒व्या᳚।
तू॒ष्णीमुत्त॑रा।
उ॒भे ए॒वर्धी अव॑ रुन्धे।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ सा॒यं जु॑होति।
रेत॑ ए॒व तद्द॑धाति।
सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेति॑ प्रा॒तः।
रेत॑ ए॒व हि॒तं प्र ज॑नयति।
रेतो॒ वा ए॒तस्य॑ हि॒तं न प्र जा॑यते॥५५॥
यस्या᳚ग्निहो॒त्रमहु॑त॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
यद्यन्ते॒ स्यात्।
उ॒न्नीय॒ प्राङु॒दाद्र॑वेत्।
स उ॑प॒साद्यातमि॑तोरासीत।
स य॒दा ताम्ये᳚त्।
अथ॒ भूः स्वाहेति॑ जुहुयात्।
प्र॒जाप॑ति॒र्वै भू॒तः।
तमे॒वोपा॑सरत्।
स ए॒वैनं॒ तत॒ उन्न॑यति।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः॥५६॥
अनुवाक 10
यद॒ग्निमु॒द्धर॑ति।
वस॑व॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
वसु॑ष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
निहि॑तो धूपा॒यञ्छे॑ते।
रु॒द्रास्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
रु॒द्रेष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते।
आ॒दि॒त्यास्तर्ह्य॒ग्निः॥५७॥
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
आ॒दि॒त्येष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी᳚प्तो भवति।
विश्वे॑ दे॒वास्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
विश्वे᳚ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रꣳ हु॒तं भ॑वति।
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति।
इन्द्र॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति॥५८॥
अङ्गा॑रा भवन्ति।
तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति।
प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
प्र॒जाप॑तावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते।
ब्रह्म॒ तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
ब्रह्म॑न्ने॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑।
इन्द्रे᳚ प्र॒जाप॑तौ॒ ब्रह्मन्॑।
अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑ चैनदे॒वं वेद॑॥५९॥
अनुवाक 11
ऋ॒तं त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति।
स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः।
अ॒ग्निर्वा ऋ॒तम्।
अ॒सावा॑दि॒त्यः स॒त्यम्।
अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति।
अ॒ग्निना॑ऽऽदि॒त्यं प्रा॒तः सः।
याव॑दहोरा॒त्रे भव॑तः।
ताव॑दस्य लो॒कस्य॑।
नार्ति॒र्न रिष्टिः॑।
नान्तो॒ न प॑र्य॒न्तो᳚ऽस्ति।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑चैनदे॒वं वेद॑॥६०॥