skipLink.label

सूक्तम् 26 — वैश्वानर (9 मन्त्राः)

सूक्त 26

९ गाथिनो विश्वामित्रः, ७ आत्मा। १-३ वैश्वानरोऽग्निः, ४-६ मरुतः, ७-८ आत्मा (अग्निर्वा), ९ विश्वामित्रोपध्यायः।१-६ जगती, ७-९ त्रिष्टुप्।

वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् ।

सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे

॥१॥

तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।

बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म्

॥२॥

अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒: समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।

स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः

॥३॥

प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नय॑: शु॒भे सम्मि॑श्ला॒: पृष॑तीरयुक्षत ।

बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दस॒: प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः

॥४॥

अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ।

ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः

॥५॥

व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे ।

पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीरा॑:

॥६॥

अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।

अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑

॥७॥

त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।

वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद् द्यावा॑पृथि॒वी पर्य॑पश्यत्

॥८॥

श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम् ।

मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म्

॥९॥