skipLink.label

सूक्तम् 7 — परिक्षिता (11 मन्त्राः)

सूक्त 7

११ गाथिनो विश्वामित्रः। अग्निः। त्रिष्टुप्।

प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणी॑: ।

प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायु॑: प्र॒यक्षे॑

॥१॥

दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द् वह॑न्तीः ।

ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः

॥२॥

आ सी॑मरोहत् सु॒यमा॒ भव॑न्ती॒: पति॑श्चिकि॒त्वान् र॑यि॒विद् र॑यी॒णाम् ।

प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत् पुरु॒धप्र॑तीकः

॥३॥

महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।

व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश

॥४॥

जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।

दि॒वो॒रुच॑: सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः

॥५॥

उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।

उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑

॥६॥

अ॒ध्व॒र्युभि॑: प॒ञ्चभि॑: स॒प्त विप्रा॑: प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।

प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः

॥७॥

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षास॑: स्व॒धया॑ मदन्ति ।

ऋ॒तं शंस॑न्त ऋ॒तमित् त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः

॥८॥

वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मय॑: सुया॒माः ।

देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान् म॒हो दे॒वान् रोद॑सी॒ एह व॑क्षि

॥९॥

पृ॒क्षप्र॑यजो द्रविणः सु॒वाच॑: सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।

उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देन॒: सं म॒हे द॑शस्य

॥१०॥

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे

॥११॥