skipLink.label

सूक्तम् 9 — अपा (9 मन्त्राः)

सूक्त 9

९ गाथिनो विश्वामित्रः। अग्निः। बृहती, ९ त्रिष्टुप्।

सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म्

॥१॥

काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।

न तत् ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद् दू॒रे सन्नि॒हाभ॑वः

॥२॥

अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।

प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः

॥३॥

ई॒यि॒वांस॒मति॒ स्रिध॒: शश्व॑ती॒रति॑ स॒श्चत॑: ।

अन्वी॑मविन्दन् निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम्

॥४॥

स॒सृ॒वांस॑मिव॒ त्मना॒ ऽग्निमि॒त्था ति॒रोहि॑तम् ।

ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑

॥५॥

तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।

विश्वा॒न् यद् य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य

॥६॥

तद् भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।

त्वां यद॑ग्ने प॒शव॑: स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे

॥७॥

आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् ।

आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत

॥८॥

त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।

औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त

॥९॥