skipLink.label

सूक्तम् 18 — पुरुद्रुहो (5 मन्त्राः)

सूक्त 18

५ कतो वैश्वामित्रः। अग्निः। त्रिष्टुप्।

भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।

पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः

॥१॥

तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुष॒: पर॑स्य ।

तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न् वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यास॑:

॥२॥

इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।

याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम्

॥३॥

उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद् वय॑: शशमा॒नेषु॑ धेहि ।

रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१ भूरि॒ कृत्व॑:

॥४॥

कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत् समि॑द्धः ।

स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत् सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि

॥५॥