skipLink.label

सूक्तम् 55 — व्रता (22 मन्त्राः)

सूक्त 55

२२ प्रजापतिर्वैश्वामित्रः, प्रजापतिर्वाच्यो वा। विश्वे देवाः। त्रिष्टुप्।

उ॒षस॒: पूर्वा॒ अध॒ यद् व्यूषुर्म॒हद् वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः ।

व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न् म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१॥

मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तर॑: पद॒ज्ञाः ।

पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥२॥

वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामा॒: शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।

समि॑द्धे अ॒ग्नावृ॒तमिद् व॑देम म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥३॥

स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ ।

अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥४॥

आ॒क्षित् पूर्वा॒स्वप॑रा अनू॒रुत् स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः ।

अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥५॥

श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ता ऽब॑न्ध॒नश्च॑रति व॒त्स एक॑: ।

मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥६॥

द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।

प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥७॥

शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् ।

अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥८॥

नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हांश्च॑रति रोच॒नेन॑ ।

वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥९॥

विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथ॑: प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।

अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१०॥

नाना॑ चक्राते य॒म्या॒३वपूं॑षि॒ तयो॑र॒न्यद् रोच॑ते कृ॒ष्णम॒न्यत् ।

श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥११॥

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।

ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१२॥

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूध॑: ।

ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्

॥१३॥

पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।

ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान् म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१४॥

प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद् गुह्य॑मा॒विर॒न्यत् ।

स॒ध्री॒ची॒ना प॒थ्या॒३ सा विषू॑ची म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१५॥

आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑: शश॒या अप्र॑दुग्धाः ।

नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१६॥

यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न् यू॒थे नि द॑धाति॒ रेत॑: ।

स हि क्षपा॑वा॒न् त्स भग॒: स राजा॑ म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१७॥

वी॒रस्य॒ नु स्वश्व्यं॑ जनास॒: प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः ।

षो॒ळहा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१८॥

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥१९॥

म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे ।

शृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥२०॥

इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।

पु॒र॒:सद॑: शर्म॒सदो॒ न वी॒रा म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥२१॥

नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।

सखा॑यस्ते वाम॒भाज॑: स्याम म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म्

॥२२॥