skipLink.label

सूक्तम् 22 — अय (5 मन्त्राः)

सूक्त 22

५ गाथी कौशिकः। अग्निः, ४ पुरीष्या अग्नयः । त्रिष्टुप्, ४ अनुष्टुप्।

अ॒यं सो अ॒ग्निर्यस्मि॒न् त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।

स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान् त्सन् त्स्तू॑यसे जातवेदः

॥१॥

अग्ने॒ यत् ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।

येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑:

॥२॥

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।

या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑:

॥३॥

पु॒री॒ष्या॑सो अ॒ग्नय॑: प्राव॒णेभि॑: स॒जोष॑सः ।

जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः

॥४॥

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्न॑: सू॒नुस्तन॑यो वि॒जावा ऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे

॥५॥