skipLink.label

सूक्तम् 39 — इन्द्र (9 मन्त्राः)

सूक्त 39

१० गाथिनो विश्वामित्रः। इन्द्रः। त्रिष्टुप्।

इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒ना ऽच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।

या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑

॥१॥

दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।

भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः

॥२॥

य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।

वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑

॥३॥

नकि॑रेषां निन्दि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।

इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद् गो॒त्राणि॑ ससृजे दं॒सना॑वान्

॥४॥

सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।

स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वै॒: सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म्

॥५॥

इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया॑यां प॒द्वद् वि॑वेद श॒फव॒न्नमे॒ गोः ।

गुहा॑ हि॒तं गुह्यं॑ गू॒ळहम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान्

॥६॥

ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।

इ॒मा गिर॑: सोमपाः सोमवृद्ध जु॒षस्वे॑न्द्र पुरु॒तम॑स्य का॒रोः

॥७॥

ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरे॑: ।

भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत्

॥८॥

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम्

॥९॥