skipLink.label

सूक्तम् 25 — अग्ने (5 मन्त्राः)

सूक्त 25

५ गाथिनो विश्वामित्रः। अग्निः, ४ अग्नीन्द्रौ। विराट्।

अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।

ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः

॥१॥

अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।

स नो॑ दे॒वाँ एह व॑हा पुरुक्षो

॥२॥

अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।

क्षय॒न् वाजै॑: पुरुश्च॒न्द्रो नमो॑भिः

॥३॥

अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् ।

अम॑र्धन्ता सोम॒पेया॑य देवा

॥४॥

अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्य॑: सूनो सहसो जातवेदः ।

स॒धस्था॑नि म॒हय॑मान ऊ॒ती

॥५॥