skipLink.label

सूक्तम् 5 — प्रत्यग्निरुषसश्चेकितानोऽबोधि (11 मन्त्राः)

सूक्त 5

११ गाथिनो विश्वामित्रः। अग्निः। त्रिष्टुप्।

प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्र॑: पद॒वीः क॑वी॒नाम् ।

पृ॒थु॒पाजा॑ देव॒यद्भि॒: समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः

॥१॥

प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।

पू॒र्वीर्ऋ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के

॥२॥

अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।

आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नाम्

॥३॥

मि॒त्रो अ॒ग्निर्भ॑वति॒ यत् समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।

मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम्

॥४॥

पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।

पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः

॥५॥

ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।

स॒सस्य॒ चर्म॑ घृ॒तव॑त् प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन्

॥६॥

आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात् पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः ।

दीद्या॑न॒: शुचि॑र्ऋ॒ष्वः पा॑व॒कः पुन॑:पुनर्मा॒तरा॒ नव्य॑सी कः

॥७॥

स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ ।

आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑

॥८॥

उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द् वर्ष्म॑न् दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।

मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा ऽऽ दू॒तो व॑क्षद् य॒जथा॑य दे॒वान्

॥९॥

उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म् ।

यदी॒ भृगु॑भ्य॒: परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे

॥१०॥

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्न॑: सू॒नुस्तन॑यो वि॒जावा ऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे

॥११॥