skipLink.label

सूक्तम् 46 — युध्मस्य (5 मन्त्राः)

सूक्त 46

५ गाथिनो विश्वामित्रः। इन्द्रः। त्रिष्टुप्।

यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒: स्थवि॑रस्य॒ घृष्वे॑: ।

अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑

॥१॥

म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।

एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न्

॥२॥

प्र मात्रा॑भी रिरिचे॒ रोच॑मान॒: प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।

प्र म॒ज्मना॑ दि॒व इन्द्र॑: पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी

॥३॥

उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् ।

इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तास॑: समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति

॥४॥

यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।

तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑

॥५॥