skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 82 — तत् (9 मन्त्राः)

सूक्त 82

९ श्यावाश्व आत्रेयः। सविता। गायत्री, १ अनुष्टुप्।

तत् स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् । श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि

॥१॥

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् । न मि॒नन्ति॑ स्व॒राज्य॑म्

॥२॥

स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑: । तं भा॒गं चि॒त्रमी॑महे

॥३॥

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त् सावी॒: सौभ॑गम् । परा॑ दु॒ष्ष्वप्न्यं॑ सुव

॥४॥

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद् भ॒द्रं तन्न॒ आ सु॑व

॥५॥

अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे । विश्वा॑ वा॒मानि॑ धीमहि

॥६॥

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वं सवि॒तार॑म्

॥७॥

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् । स्वा॒धीर्दे॒वः स॑वि॒ता

॥८॥

य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न । प्र च॑ सु॒वाति॑ सवि॒ता

॥९॥