skipLink.label

सूक्तम् 15 — घृतप्रसत्तो (5 मन्त्राः)

सूक्त 15

५ धरुण अङ्गिरसः। अग्निः । त्रिष्टुप्।

प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।

घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः

॥१॥

ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।

दि॒वो धर्म॑न् ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः

॥२॥

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद् दु॒ष्टरं॑ पू॒र्व्याय॑ ।

स सं॒वतो॒ नव॑जातस्तुतुर्यात् सिं॒हं न क्रु॒द्धम॒भित॒: परि॑ ष्ठुः

॥३॥

मा॒तेव॒ यद् भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।

वयो॑वयो जरसे॒ यद्दधा॑न॒: परि॒ त्मना॒ विषु॑रूपो जिगासि

॥४॥

वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।

प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः

॥५॥