skipLink.label

सूक्तम् 12 — प्राग्नये (6 मन्त्राः)

सूक्त 12

६ सुतंभर आत्रेयः। अग्निः । त्रिष्टुप्।

प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।

घृ॒तं न य॒ज्ञ आ॒स्ये॒३ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम्

॥१॥

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑:

॥२॥

कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑: ।

वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः

॥३॥

के ते॑ अग्ने रि॒पवे॒ बन्ध॑नास॒: के पा॒यव॑: सनिषन्त द्यु॒मन्त॑: ।

के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः

॥४॥

सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वास॒: सन्तो॒ अशि॑वा अभूवन् ।

अधू॑र्षत स्व॒यमे॒ते वचो॑भिर्ऋजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्त॑:

॥५॥

यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्ण॑: ।

तस्य॒ क्षय॑: पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेष॑:

॥६॥