skipLink.label

सूक्तम् 83 — अच्छा (10 मन्त्राः)

सूक्त 83

१० भौमोऽत्रिः। पर्जन्यः। त्रिष्टुप्, २-४ जगती, ९ अनुष्टुप्।

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।

कनि॑क्रदद् वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म्

॥१॥

वि वृ॒क्षान् ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।

उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत् प॒र्जन्य॑: स्त॒नय॒न्हन्ति॑ दु॒ष्कृत॑:

॥२॥

र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान् कृ॑णुते व॒र्ष्याँ॒३ अह॑ ।

दू॒रात् सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत् प॒र्जन्य॑: कृणु॒ते व॒र्ष्यं१ नभ॑:

॥३॥

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्व॑: ।

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्य॑: पृथि॒वीं रेत॒साव॑ति

॥४॥

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।

यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒: स न॑: पर्जन्य॒ महि॒ शर्म॑ यच्छ

॥५॥

दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धारा॑: ।

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता न॑:

॥६॥

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः

॥७॥

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।

घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्य॑:

॥८॥

यत् प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न्हंसि॑ दु॒ष्कृत॑: ।

प्रती॒दं विश्वं॑ मोदते॒ यत् किं च॑ पृथि॒व्यामधि॑

॥९॥

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।

अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम्

॥१०॥