skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 74 — कूष्ठो (10 मन्त्राः)

सूक्त 74

१० पौर आत्रेयः। अश्विनौ। अनुष्टुप्, ८ निचृत्।

कूष्ठो॑ देवावश्विना॒ ऽद्या दि॒वो म॑नावसू । तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति

॥१॥

कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या । कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑

॥२॥

कं या॑थ॒: कं ह॑ गच्छथ॒: कमच्छा॑ युञ्जाथे॒ रथ॑म् । कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑

॥३॥

पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः । यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे

॥४॥

प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः । युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्व॑:

॥५॥

अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये । नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू

॥६॥

को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम् । को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू

॥७॥

आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना । पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा

॥८॥

शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः । अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभि॑: श्ये॒नेव॑ दीयतम्

॥९॥

अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् । वस्वी॑रू॒ षु वां॒ भुज॑: पृ॒ञ्चन्ति॒ सु वां॒ पृच॑:

॥१०॥