९ भौमोऽत्रिः। इन्द्रः, ५ सूर्यः, ६-९ अत्रिः। १-३ उष्णिक्, ५-९ अनुष्टुप्, ४, ६-८ त्रिष्टुप्।
आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम
॥१॥वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम
॥२॥वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम
॥३॥ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्र॑:
॥४॥यत् त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द् यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः
॥५॥स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
गू॒ळहं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रि॑:
॥६॥मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑
॥७॥ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन् की॒रिणा॑ दे॒वान् नम॑सोप॒शिक्ष॑न् ।
अत्रि॒: सूर्य॑स्य दि॒वि चक्षु॒राधा॒त् स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत्
॥८॥यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अत्र॑य॒स्तमन्व॑विन्दन् न॒ह्य१न्ये अश॑क्नुवन्
॥९॥