skipLink.label

सूक्तम् 67 — बळित्था (5 मन्त्राः)

सूक्त 67

५ यजत आत्रेयः। मित्रावरुणौ। अनुष्टुप्।

बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् । वरु॑ण॒ मित्रार्य॑म॒न् वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे

॥१॥

आ यद् योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः । ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा

॥२॥

विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः

॥३॥

ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने । सु॒नी॒थास॑: सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः

॥४॥

को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् । तत् सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः

॥५॥