३ बाहुवृक्त आत्रेयः। मित्रावरुणौ। गायत्री।
आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ । उपे॒मं चारु॑मध्व॒रम्
॥१॥विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः । ई॒शा॒ना पि॑प्यतं॒ धिय॑:
॥२॥उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुष॑: । अ॒स्य सोम॑स्य पी॒तये॑
॥३॥