skipLink.label

सूक्तम् 39 — यदिन्द्र (5 मन्त्राः)

सूक्त 39

५ भौमोऽत्रिः। इन्द्रः। अनुष्टुप्, ५पङ्क्तिः।

यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।

राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र

॥१॥

यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।

वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑

॥२॥

यत् ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।

तेन॑ दृ॒ळहा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑

॥३॥

मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिर॑:

॥४॥

अस्मा॒ इत् काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।

तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिर॑: शुम्भ॒न्त्यत्र॑यः

॥५॥