skipLink.label

सूक्तम् 56 — अग्ने (9 मन्त्राः)

सूक्त 56

९ श्यावाश्व आत्रेयः। मरुतः। बृहती, ३, ७ सतोबृहती ।

अग्ने॒ शर्ध॑न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभि॑: ।

विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द् रोच॒नादधि॑

॥१॥

यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शस॑: ।

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न् तान् व॑र्ध भी॒मसं॑दृशः

॥२॥

मी॒ळहुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा ।

ऋक्षो॒ न वो॑ मरुत॒: शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः

॥३॥

नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुर॑: ।

अश्मा॑नं चित् स्वर्यं१ पर्व॑तं गि॒रिं प्र च्या॑वयन्ति॒ याम॑भिः

॥४॥

उत् ति॑ष्ठ नू॒नमे॑षां॒ स्तोमै॒: समु॑क्षितानाम् ।

म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये

॥५॥

यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे॑ यु॒ङ्ग्ध्वं रथे॑षु रो॒हित॑: ।

यु॒ङ्ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळह॑वे॒ वहि॑ष्ठा धु॒रि वोळह॑वे

॥६॥

उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।

मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त् प्र तं रथे॑षु चोदत

॥७॥

रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।

आ यस्मि॑न् त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी

॥८॥

तं व॒: शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।

यस्मि॒न् त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळहु॒षी

॥९॥