skipLink.label

सूक्तम् 16 — य (5 मन्त्राः)

सूक्त 16

५ पूरुरात्रेयः। अग्निः। अनुष्टुप्, ५ पंक्तिः।

बृ॒हद् वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः

॥१॥

स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।

वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति

॥२॥

अ॒स्य स्तोमे॑ म॒घोन॑: स॒ख्ये वृ॒द्धशो॑चिषः ।

विश्वा॒ यस्मि॑न् तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः

॥३॥

अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।

तमिद् य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः

॥४॥

नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।

ये व॒यं ये च॑ सू॒रय॑: स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे

॥५॥