३ भौमोऽत्रिः। पृथिवी। अनुष्टुप्।
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि
॥१॥स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभि॑: । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि
॥२॥दृ॒ळहा चि॒द् या वन॒स्पती॑न् क्ष्म॒या दर्ध॒र्ष्योज॑सा । यत् ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टय॑:
॥३॥