skipLink.label

सूक्तम् 59 — प्र (8 मन्त्राः)

सूक्त 59

८ श्यावाश्व आत्रेयः। मरुतः। जगती, ८ त्रिष्टुप् ।

प्र व॒: स्पळ॑क्रन् त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।

उ॒क्षन्ते॒ अश्वा॒न् तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः

॥१॥

अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।

दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नर॑:

॥२॥

गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।

अत्या॑ इव सु॒भ्व१श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः

॥३॥

को वो॑ म॒हान्ति॑ मह॒तामुद॑श्नव॒त् कस्काव्या॑ मरुत॒: को ह॒ पौंस्या॑ ।

यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद् भर॑ध्वे सुवि॒ताय॑ दा॒वने॑

॥४॥

अश्वा॑ इ॒वेद॑रु॒षास॒: सब॑न्धव॒: शूरा॑ इव प्र॒युध॒: प्रोत यु॑युधुः ।

मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नर॒: सूर्य॑स्य॒ चक्षु॒: प्र मि॑नन्ति वृ॒ष्टिभि॑:

॥५॥

ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।

सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन

॥६॥

वयो॒ न ये श्रेणी॑: प॒प्तुरोज॒सा ऽन्ता॑न् दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।

अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः

॥७॥

मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ न॒: सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् ।

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः

॥८॥