skipLink.label

सूक्तम् 31 — इन्द्रो (13 मन्त्राः)

सूक्त 31

१३ अवस्युरात्रेयः। इन्द्रः, ८ तृतीयपादस्य कुत्सो वा, चतुर्थपादस्य उशना वा, ९ इन्द्राकुत्सौ। त्रिष्टुप्।

इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् ।

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन्

॥१॥

आ प्र द्र॑व हरिवो॒ मा वि वे॑न॒: पिश॑ङ्गराते अ॒भि न॑: सचस्व ।

न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ

॥२॥

उद्यत् सह॒: सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ ।

प्राचो॑दयत् सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत् तमो॑ऽवः

॥३॥

अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।

ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑

॥४॥

वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषा॑: ।

अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न्

॥५॥

प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न् या च॒कर्थ॑ ।

शक्ती॑वो॒ यद् वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः

॥६॥

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राऽहिं॒ यद् घ्नन्नोजो॒ अत्रामि॑मीथाः ।

शुष्ण॑स्य चि॒त् परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः

॥७॥

त्वम॒पो यद॑वे तु॒र्वशा॒याऽर॑मयः सु॒दुघा॑: पा॒र इ॑न्द्र ।

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद् वा॑मु॒शनार॑न्त दे॒वाः

॥८॥

इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒नाऽऽ वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु ।

निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न् म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि

॥९॥

वात॑स्य यु॒क्तान् त्सु॒युज॑श्चि॒दश्वा॑न् क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।

विश्वे॑ ते॒ अत्र॑ म॒रुत॒: सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन्

॥१०॥

सूर॑श्चि॒द् रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् ।

भर॑च्च॒क्रमेत॑श॒: सं रि॑णाति पु॒रो दध॑त् सनिष्यति॒ क्रतुं॑ नः

॥११॥

आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्र॒: सखा॑यं सु॒तसो॑ममि॒च्छन् ।

वद॒न् ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति

॥१२॥

ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।

वा॒व॒न्धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑

॥१३॥