skipLink.label

सूक्तम् 22 — प्र (4 मन्त्राः)

सूक्त 22

४ विश्वसामा आत्रेयः। अग्निः। अनुष्टुप्, ४ पंक्तिः।

प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे । यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि

॥१॥

न्य१ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् । प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः

॥२॥

चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ । वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि

॥३॥

अग्ने॑ चिकि॒द्ध्य१स्य न॑ इ॒दं वच॑: सहस्य ।

तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः

॥४॥