skipLink.label

सूक्तम् 20 — त (4 मन्त्राः)

सूक्त 20

४ प्रयस्वन्त आत्रेयाः। अग्निः। अनुष्टुप्, ४ पंक्तिः।

यम॑ग्ने वाजसातम॒ त्वं चि॒न् मन्य॑से र॒यिम् ।

तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म्

॥१॥

ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।

अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे

॥२॥

होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् ।

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे

॥३॥

इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे ।

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभि॑: ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒माद॑:

॥४॥