skipLink.label

सूक्तम् 69 — वावृधानावमति (4 मन्त्राः)

सूक्त 69

४ उरुचक्रिरात्रेयः। मित्रावरुणौ। त्रिष्टुप्।

त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून् त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।

वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्याऽनु॑ व्र॒तं रक्ष॑माणावजु॒र्यम्

॥१॥

इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद् वां॒ सिन्ध॑वो मित्र दुह्रे ।

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑:

॥२॥

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः

॥३॥

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।

न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑

॥४॥