skipLink.label

सूक्तम् 10 — अग्न (7 मन्त्राः)

सूक्त 10

७ गय आत्रेयः। अग्निः। अनुष्टुप्, ४-७ पंक्तिः।

अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।

प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म्

॥१॥

त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।

त्वे अ॑सु॒र्य१मारु॑हत् क्रा॒णा मि॒त्रो न य॒ज्ञिय॑:

॥२॥

त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।

ये स्तोमे॑भि॒: प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः

॥३॥

ये अ॑ग्ने चन्द्र ते॒ गिर॑: शु॒म्भन्त्यश्व॑राधसः ।

शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द् येषां॑ बृ॒हत् सु॑की॒र्तिर्बोध॑ति॒ त्मना॑

॥४॥

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।

परि॑ज्मानो॒ न वि॒द्युत॑: स्वा॒नो रथो॒ न वा॑ज॒युः

॥५॥

नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।

अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑

॥६॥

त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।

होत॑र्विभ्वा॒सहं॑ र॒यिं: स्तो॒तृभ्य॒: स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे

॥७॥